संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः|
सप्तचत्वारिंशोऽध्यायः

शङ्कराख्यः षष्ठोऽम्शः - सप्तचत्वारिंशोऽध्यायः

श्रीशिवरहस्यम्


ऋभुः -
निदाघ श्रृणु वक्ष्यामि दृढीकरणमस्तु ते । शिवप्रसादपर्यन्तमेवं भावय नित्यशः ॥१॥
अहमेव परं ब्रह्म अहमेव सदाशिवः । अहमेव हि चिन्मात्रमहमेव हि निर्गुणः ॥२॥
अहमेव हि चैतन्यमहमेव हि निष्कलः । अहमेव हि शून्यात्मा अहमेव हि शाश्वतः ॥३॥
अहमेव हि सर्वात्मा अहमेव हि चिन्मयः । अहमेव परं ब्रह्म अहमेव महेश्वरः ॥४॥
अहमेव जगत्साक्षी अहमेव हि सद्गुरुः । अहमेव हि मुक्तात्मा अहमेव हि निर्मलः ॥५॥
अहमेवाहमेवोक्तः अहमेव हि शङ्करः । अहमेव महाविष्णुरहमेव चतुर्मुखः ॥६॥
अहमेव हि शुद्धात्मा ह्यहमेव ह्यहं सदा । अहमेव हि नित्यात्मा अहमेव हि मत्परः ॥७॥
अहमेव मनोरूपं अहमेव हि शीतलः । अहमेवान्तर्यामी च अहमेव परमेश्वरः ॥८॥
एवमुक्तप्रकारेण भावयित्वा सदा स्वयम् । द्रव्योऽस्ति चेन्न कुर्यात्तु वंचकेन गुरुं परम् ॥९॥
कुम्भीपाके सुघोरे तु तिष्ठत्येव हि कल्पकान् । श्रुत्वा निदाघश्चोत्थाय पुत्रदारान् प्रदत्तवान् ॥१०॥
स्वशरीरं च पुत्रत्वे दत्वा सादरपूर्वकम् । धनधान्यं च वस्त्रादीन् दत्वाऽतिष्ठत् समीपतः ॥११॥
गुरोस्तु दक्षिणां दत्वा निदाघस्तुष्टवानृभुम् । सन्तुष्टोऽस्मि महाभाग तव शुश्रूषया सदा ॥१२॥
ब्रह्मविज्ञानमाप्तोऽसि सुकृतार्थो न संशयः । ब्रह्मरूपमिदं चेति निश्चयं कुरु सर्वदा ॥१३॥
निश्चयादपरो मोक्षो नास्ति नास्तीति निश्चिनु । निश्चयं कारणं मोक्षो नान्यत् कारणमस्ति वै ॥१४॥
सकलभुवनसारं सर्ववेदान्तसारं समरसगुरुसारं सर्ववेदार्थसारम् ।
सकलभुवनसारं सच्चिदानन्दसारं समरसजयसारं सर्वदा मोक्षसारम् ॥१५॥
सकलजननमोक्षं सर्वदा तुर्यमोक्षं सकलसुलभमोक्षं सर्वसाम्राज्यमोक्षम् ।
विषयरहितमोक्षं वित्तसंशोषमोक्षं श्रवणमननमात्रादेतदत्यन्तमोक्षम् ॥१६॥
तच्छुश्रूषा च भवतः तच्छ्रुत्वा च प्रपेदिरे ।
एवं सर्ववचः श्रुत्वा निदाघऋषिदर्शितम् । शुकादयो महान्तस्ते परं ब्रह्ममवाप्नुवन् ॥१७॥
श्रुत्वा शिवज्ञानमिदं ऋभुस्तदा निदाघमाहेत्थ (?) मुनीन्द्रमध्ये ।
मुदा हि तेऽपि श्रुतिशब्दसारं श्रुत्वा प्रणम्याहुरतीव हर्षात् ॥१८॥
मुनयः -
पिता माता भ्राता गुरुरसि वयस्योऽथ हितकृत्
अविद्याब्धेः पारं गमयसि भवानेव शरणम् ।
बलेनास्मान् नीत्वा मम वचनबलेनैव सुगमं
पथं प्राप्त्यैवार्थैः शिववचनतोऽस्मान् सुखयसि ॥१९॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुकृतसंग्रहोपदेशवर्णनं नाम सप्तचत्वारिंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 17, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP