संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः|
पञ्चत्रिंशोऽध्यायः

शङ्कराख्यः षष्ठोऽम्शः - पञ्चत्रिंशोऽध्यायः

श्रीशिवरहस्यम्


ऋभुः -
निदाघ श्रृणु गुह्यं मे सद्यो मुक्तिप्रदं नृणाम् । आत्मैव नान्यदेवेदं परमात्माहमक्षतः ॥१॥
अहमेव परं ब्रह्म सच्चिदानन्दविग्रहः । अहमस्मि महानस्मि शिवोऽस्मि परमोऽस्म्यहम् ॥२॥
अदृश्यं परमं ब्रह्म नान्यदस्ति स्वभावतः । सर्वं नास्त्येव नास्त्येव अहं ब्रह्मैव केवलम् ॥३॥
शान्तं ब्रह्म परं चास्मि सर्वदा नित्यनिर्मलः । सर्वं नास्त्येव नास्त्येव अहं ब्रह्मैव केवलम् ॥४॥
सर्वंसङ्कल्पमुक्तोऽस्मि सर्वसन्तोषवर्जितः । कालकर्मजगद्द्वैतद्रष्टृदर्शनविग्रहः ॥५॥
आनन्दोऽस्मि सदनन्दकेवलो जगतां प्रियम् । समरूपोऽस्मि नित्योऽस्मि भूतभव्यमजो जयः ॥६॥
चिन्मात्रोऽस्मि भुक्तो जीवो बन्धो न विद्यते । श्रवणं षड्विधं लिङ्गं नैवास्ति जगदीदृशम् ॥७॥
चित्तसंसारहीनोऽस्मि चिन्मात्रत्वं जगत् सदा । चित्तमेव हितं देह अविचारः परो रिपुः ॥८॥
अविचारो जगद्दुःखमविचारो महद्भयम् । सद्योऽस्मि सर्वदा तृप्तः परिपुर्णः परो महान् ॥९॥
नित्यशुद्धोऽस्मि बुद्धोस्मि चिदाकाशोऽस्मि चेतनः । आत्मैव नान्यदेवेदं परमात्माऽहमक्षतः ॥१०॥
सर्वदोषविहीनोऽस्मि सर्वत्र विनतो‍ऽस्म्यहम् । वाचातीतस्वरूपोऽस्मि परमात्माऽहमक्षतः ॥११॥
चित्रातीतं परं द्वन्द्वं सन्तोषः समभावम् । अन्तर्बैरनाद्यन्तं सर्वभेदविनिर्णयश्च ॥१२॥
अहंकारं बलं सर्वं कामं क्रोध परिग्रहम् । ब्रह्मेन्द्रो विष्णुर्वरुणो भावाभावविनिश्चयः ॥१३॥
जीवसत्ता जगत्सत्ता मायासता च किञ्चन । गुरुशिष्यादिभेदं च कार्याकार्यविनिश्चयः ॥१४॥
त्वं बह्मासीत्कि वक्ता च अहं ब्रह्मासि संभवः । सर्ववेदान्तविज्ञानं सर्वाम्नायिविचारणम् ॥१५॥
इदं पदार्थसद्भावमहं रूपेण संभवम् । वेदवेदान्तसिद्धान्तजगद्भें न विद्यते ॥१६॥
सर्वं ब्रह्म न सन्देहः सर्वमित्येव नास्ति हि । केवलं ब्रह्मशान्तात्मा अहमेव निरन्तरम् ॥१७॥
शुभाशुभविभेदं च दोषादोषं च मे न हि । चितसत्ता जगत्सत्ता बुद्धिवृत्तिविजृम्भणम् ॥१८॥
ब्रह्मैव सर्वदा नान्यत् सत्यं सत्यं निजं पदम् । आत्माकारमिदं द्वैतं मिथ्यैव न परः पुमान् ॥१९॥
सच्चिदानन्दमात्रोऽहं सर्वं केवलमव्ययम् । ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥२०॥
मनो जगदहं ब भेदं चित्तवृत्तिजगद्भयम् । सर्वानन्दमहानन्दमात्मानन्दमनन्तकम् ॥२१॥
अत्यन्तस्वल्पमल्पं वा प्रपञ्चं नास्ति किञ्चन । प्रपञ्चमिति शब्दो वा स्मरणं वा न विद्यते ॥२२॥
अन्तरस्थप्रपञ्चं वा क्कचिन्नास्ति क्कचिद्बहिः । यत् किञ्चिदेवं तूष्णीं वा यच्च किञ्चित् सदा क्क वा ॥२३॥
येन केन यदा किञ्चिद्यस्य कस्य न किञ्चन । शुद्धं मलिनरूपं वा ब्रह्मवाक्यमबोधकम् ॥२४॥
ईदृशं तादृशं वेति न किञ्चिद्वक्तुमर्हति । ब्रह्मैव सर्वं सततं ब्रह्मैव सकलं मनः ॥२५॥
आनन्दं परमानन्दं नित्यानन्दं सदाऽदयम् । चिन्मात्रमेव सततं नास्ति नास्ति परोऽस्म्यहम् ॥२६॥
प्रपञ्चं सर्वदा नास्ति प्रपञ्चं चित्रमेव च । चित्तमेव हि संसारं नान्यत् संसारमेव हि ॥२७॥
मन एव हि संसारो देहोऽहमिति रूपकम् । सङ्कल्पमेव संसारं तन्नाशेऽसौ विनश्यति ॥२८॥
सङ्कल्पमेव जननं तन्नाशेऽसौ विनश्यति । सङ्कल्पमेव दारिद्र्यं तन्नाशोऽसौ विनश्यति ॥२९॥
सङ्कल्पमेव मननं तन्नाशेऽसौ विनश्यति । आत्मैव नान्यदेवेदं परमात्माहमक्षतः ॥३०॥
नित्यमात्ममयं बोधमहमेव सदा महान् । आत्मैव नान्यदेवेदं परमात्माऽहमक्षतः ॥३१॥
इत्येव भावयेन्नित्यं क्षिप्रं मुक्तो भविष्यति । त्वमेव ब्रह्मरूपोऽसि त्वमेव ब्रह्मविग्रहः ॥३२॥
एवं च परमानन्दं ध्यात्वा ध्यात्वा सुखीभव । सुखमात्रं जगत् सर्वं प्रियमात्रं प्रपञ्चकम् ॥३३॥
जडमात्रमयं लोकं ब्रह्ममात्रमयं सदा । ब्रह्मैव नान्यदेवेदं परमात्माऽहमव्ययः ॥३४॥
एक एव सदा एष एक एव निरन्तरम् । एक एव परं ब्रह्म एक एव चिदव्ययः ॥३५॥
एक एव गुणातीत एक एव सुखावहः । एक एव महानात्मा एक एव निरन्तरम् (?) ॥३६॥
एक एव चिदाकार एक एवात्मनिर्णयः । ब्रह्मैव नान्यदेवेदं परमात्माऽहमक्षतः ॥३७॥
परमात्माहमन्यन्न परमानन्दमन्दिरम् । इत्येवं भावयन्नित्यं सदा चिन्मय एव हि ॥३८॥
सूतः (?)
चिरिञ्चिवञ्चनाततप्रपञ्चपञ्चबाणभित् -
सुकाञ्चनाद्रिधारिणं कुलुञ्चनां पतिं भजे ।
अकिञ्चनेऽपि सिञ्चके जलेन लिङ्गमस्तके
विमुञ्चति क्षणादघं न किञ्चिदत्र शिष्यते ॥३९॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ब्रह्मभावनोपदेशप्रकरणं नाम पञ्चत्रिंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 17, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP