श्रीजाबालदर्शनोपनिषत् - तृतीयः खण्डः

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.
A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


स्वस्तिकं गोमुखं पद्मं वीरसिंहासने तथा । भद्रं मुक्तासनं चैव मयूरासनमेव च ॥१॥
सुखासनसमाख्यं च नवमं मुनिपुङ्गव । जानूर्वोरन्तरे कृत्वा सम्यक् पादतले उभे ॥२॥
समग्रीवशिरः कायः स्वस्तिकं नित्यमभ्यसेत् । सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे नियोजयेत् ॥३॥
दक्षिणेऽपि तथा सव्यं गोमुखं तत्प्रचक्षते । अङ्गुष्ठावधि गृण्हीयाद्धस्ताभ्यां व्युत्क्रमणे तु ॥४॥
ऊर्वोरुपरि विप्रेन्द्र कृत्वा पादतलद्वयम् । पद्मासनं भवेत्प्राज्ञ सर्वरोगभयापहम् ॥५॥
दक्षिणेतरपादं तु दक्षिणोरुणि विन्यसेत् । ऋजुकायः समासीनो वीरासनमुदाहृतम् ॥६॥
गुल्फौ तु वृषणस्याधः सीवन्याः पार्श्वयाः क्षिपेत् । पार्श्वपादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम् । भद्रासनं भवेदेतद्विषरोगविनाशनम् ॥७॥
निपीड्य सीवनीं सूक्ष्मं दक्षिणेतरगुल्फतः । वामं याम्येन गुल्फेन मुक्तासनमिदं भवेत् ॥८॥
मेढ्रादुपरि निक्षिप्य सव्यं गुल्फं ततोपरि । गुल्फान्तरं च संक्षिप्य मुक्तासनमिदं मुने ॥९॥
कर्पूराग्रे मुनिश्रेष्ठ निक्षिपेन्नाभिपार्श्वयोः । भूम्यां पाणितलद्वन्द्वं निक्षिप्यैकाग्रमानसः ॥१०॥
समुन्नतशिरःपादो दंडवद्व्योम्नि संस्थितः । मयूरासनमेतत्स्यात्सर्वपापप्रणाशनम् ॥११॥
येन केन प्रकारेण सुखं धैर्यं च जायत । तत्सुखासनमित्युक्तमशक्तस्तत्समाश्रयेत् ॥१२॥
आसनं विजितं येन जितं तेन जगत्त्रयम् । अनेन विधिना युक्तः प्राणायामं सदा कुरु ॥१३॥
इति तृतीयः खण्डः ॥३॥

N/A

References : N/A
Last Updated : January 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP