संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|व्यासशिक्षा|

व्यासशिक्षा - उच्चारणफलप्रकरणम्

प्रस्तुत ग्रंथाचा रचनाकाल विभिन्न विद्वानांनी ईसवीसन पूर्व १००० ते ईसवीसन पूर्व ५०० सांगितलेला आहे.


न विश्रमश्चैकपदे प्रोन्न्यानिस्सुनिसम्परम् ॥४८१॥
च न ह्यु त्वा स्म ह त्वीं वैन्वेतेभ्योऽधश्च कूटतः ॥४८२॥
व श्रीर्देघधया उच्चास्स्थापितव्यास्स्वरं गताः ॥४८३॥
नैवं तृतीयसम्बन्धाः प्रयोगान्तर इत्यपि ॥४८४॥
युक्तोर्ध्वं व्यज्जनान्तञ्च दीर्घं गुर्वितरल्लघु ॥४८५॥
तत्त्रिस्त्रिरक्षराश्चैव गणा इति बुधैस्स्मृताः ॥४८६॥
त्रिलो नः स्वस्त्रिगुरुर्मो भूरादौ केन्दू यभौ शुभम् ॥४८७॥
द्यौस्तोऽन्ते सोऽनिलस्तापं मध्येऽग्न्यर्कौ रजौ क्रमात् ॥४८८॥
अदादेत्प्रथमयषा लृनासिक्याः क्षशोत्तराः ॥४८९॥
अनिलाग्निमहीन्द्वर्काः पञ्चानां त्वधिदेवताः ॥४९०॥
ब्रह्मजातिर्भंवेदुच्चः क्षत्रजातिस्तु नीचकः ॥४९१॥
वैश्यजातिर्भवेत्स्वारश्शूद्रस्तु प्रचयस्स्मृतः ॥४९२॥
उदात्तस्सात्विकः प्रोक्तस्स्वरितो राजसस्स्मृतः ॥४९३॥
निहतप्रचयावेतौ तामसौ तु विदुर्बुधाः ॥४९४॥
स्वराश्च प्रथमाश्चैव द्वितीया ब्रह्मजातयः ॥४९५॥
तृतीयाश्च चतुर्थाश्च क्षत्रजातय ईरिताः ॥४९६॥
उत्तमाश्चैवमन्तस्था वैश्या हि परिकीर्तिताः ॥४९७॥
अनुस्वारो विसर्गश्च ह्यू ष्माणोऽवरजास्स्मृताः ॥४९८॥
यदन्यजातिरुच्येत तत्तत्संहारको भवेत् ॥४९९॥
यज्जात्युच्चारणे तेषां तज्जातिपरिरक्षणम् ॥५००॥
वर्णोच्चारण इत्यत्र समग्र लक्षणं स्मृतम् ॥५०१॥
न्यूनातिरेकराहित्यं ब्रह्म भक्तिर्यथोच्चरेत् ॥५०२॥
सुव्यक्तस्सुस्वरो धैर्यं तच्चित्तत्वं चतुर्गुणाः ॥५०३॥
एतद्युक्तः पठेद्वेदं स वेदफलमश्नुते ॥५०४॥
अध्यायस्य मुखे चान्ते भूत्वा विद्वानतन्द्रितः ॥५०५॥
संरक्षणाय वेदानामोङ्कारं तूचरेत्सदा ॥५०६॥
संवत्यादावनुक्ते च तस्यान्ते तु विशीर्यते ॥५०७॥
आद्यन्तप्रणवौ तस्य स्यातामङ्गानि वै ततः ॥५०८॥
संहितापदसन्धीनां वर्णानां लक्षणन्त्वपि ॥५०९॥
छन्द आदीनि शास्त्राणि ह्यु पाङ्गानि बिदुर्बुधाः ॥५१०॥
ध्वनिः स्थानञ्च करणं प्रयत्नः कालता स्वरः ॥५११॥
देवता जातिरेतैश्च वर्णा ज्ञेया विचक्षणैः ॥५१२॥
यजुर्वेदः पिङ्गलाक्षः कृशमध्यो बृहद्गलः ॥५१३॥
बृहत्कपोलः कृष्णाङ्घ्रिस्ताम्रः काश्यपगोत्रजः ॥५१४॥
लक्षणेन विनाध्यायं यः पठेदपि सर्वदा ॥५१५॥
नैव तत्फलमाप्नोति स विप्रस्सुजनोऽपि हि ॥५१६॥
संहितापदवर्णानां कालादीनाञ्च लक्षणम् ॥५१७॥
हल् विसर्गाच्स्वराणाञ्च सन्धेर्लक्षणमेव च ॥५१८॥
एतानि सम्यगष्टौ च विदित्वा लक्षणानि यः ॥५१९॥
अध्यायं स पठत्येव द्वितीयं ब्रह्म कथ्यते ॥५२०॥
संहिताञ्च पदं वापि क्रमञ्चैव जटां पठन् ॥५२१॥
लक्षणज्ञस्तदाप्नोति ब्रह्मज्ञानं हि शाश्वतम् ॥५२२॥
वेदामृतं पिबेद्यस्तु स तस्माद्भूसुरो भवेत् ॥५२३॥
एवञ्च व्यासशिक्षाविद्भूसुरेन्द्रस्स कथ्यते ॥५२४॥
श्रीमत्परब्रह्मसुपूर्णचित्तश्रीव्यासकएठप्रसृताञ्च शिक्षाम् ।
एतामभिज्ञः प्रयतः पठेद्यस्सर्वानभीष्ठांश्च समश्नुते वै ॥५२५॥
इति व्यासाचायंविरचिता शिक्षा समाप्ता ॥
इति श्रीवेलिमिकन्यापूर्जातसूर्यनारायणसूरावधानिविरचिते वेदतैजसाख्ये व्यासशिक्षाविवरणे उच्चारनफलप्रकरणम् ॥२८॥

समाप्तोऽयं ग्रन्थः ॥

N/A

References : N/A
Last Updated : November 29, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP