संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|व्यासशिक्षा|
हस्तस्वरविन्यासप्रकरणम्

व्यासशिक्षा - हस्तस्वरविन्यासप्रकरणम्

प्रस्तुत ग्रंथाचा रचनाकाल विभिन्न विद्वानांनी ईसवीसन पूर्व १००० ते ईसवीसन पूर्व ५०० सांगितलेला आहे.


कनिष्ठानामिकामध्या तर्जनीषूत्तमे करे ॥३२६॥
नीचस्वारधृतोदात्तानङ्गुष्ठाग्रेण निर्दिशेत् ॥३२७॥
आद्यन्तमध्यामध्यासुतद्रेखासु च तान्क्रमात् ॥३२८॥
पृथक् तदङ्गुलिस्थानं भक्तेर्यस्स्वर उच्यते ॥३२९॥
स्वारमुच्चमिवोर्ध्वञ्च ह्यनामिकान्तरान्त्ययोः ॥३३०॥
स्वारकम्पे स्वरावेतावनामिकोत्तमाद्ययोः ॥३३१॥
निर्दिशेदुच्चकम्पे च तर्जनीमध्यमाद्ययोः ॥३३२॥
विरामे व्यञ्जनस्यैव पृथक्स्थानं न विद्यते ॥३३३॥
एवं हस्तस्वरन्यासे कथितश्च विनिर्णयः ॥३३४॥
सुहस्तस्वरविन्यासान्निर्मलाध्ययनं भवेत् ॥३३५॥
तत्पूतो ब्राह्मणो यस्तु ब्रह्मणा सह मोदते ॥३३६॥
इति सूर्यनारायणसूरावधानिविरचिते वेदत्तैजसाख्ये व्यासशिक्षाविवरणे हस्तस्वरविन्यासप्रकरणम् ॥१८॥

N/A

References : N/A
Last Updated : November 29, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP