मुमुक्षुवैराग्यप्रकरणम् - सर्ग सत्ताविसावा

‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.
Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism.


श्रीराम उवाच ॥
अन्यच्च तातातितरामरम्येमनोरमे चेह जगत्स्वरूपे । न किंचिदायाति तदर्थजातं येनातिविश्रान्तिमुपैति चेतः ॥१॥
बाल्ये गते कल्पितकेलिलोले मनोमृगे दारदरीषु जीर्णे । शरीरके जर्जरतां प्रयाते विदूयते केवलमेव लोकः ॥२॥
जरातुषाराभिहतां शरीरसरोजिनीं दूरतरे विमुच्य । क्षणाद्गते जीवितचञ्चरीके जनस्य संसारसरोवशुष्कम् ॥३॥
यदा यदा पाकमुपैति नूनं तदा तदेयं रतिमातनोति । जराभरानल्पनवप्रसूना विजर्जरा कायलता नराणाम् ॥४॥
तृष्णानदी सारतरप्रवाहग्रस्ताखिलानन्तपदार्थजाता । तटस्थसंतोषसुवृक्षमूलनिकाषदक्षा वहतीह लोके ॥५॥
शारीरनौश्चर्मनिबन्धबद्धा भवाम्बुधावालुलिता भ्रमन्ती । प्रलोड्यते पञ्चभिरिन्द्रियाख्यैरघोभवन्ती मकरैरधीरा ॥६॥
तृष्णालताकाननचारिणोमी शाखाशतं काममहीरुहेषु । परिभ्रमन्तः क्षपयन्ति कालं मनोमृगा नो फलमाप्नुवन्ति ॥७॥
कृच्छ्रेषु दूरास्तविषादमोहाः स्वास्थ्येषु नोत्सिक्तमनोभिरामाः । सुदुर्लभाः संप्रति सुंदरीभिरनाहतान्तःकरणा महान्तः ॥८॥
तरन्तिमातङ्गघटातरङ्गं रणाम्बुधिं ये मयि ते न शूराः । शूरास्त एवेह मनस्तरङ्गं देहेन्द्रियाम्भोधिमिमं तरन्ति ॥९॥
अक्लिष्टपर्यन्तफलाभिरामा न दृश्यते कस्यचिदेव काचित् । क्रिया दुराशाहतचित्तवृत्तिर्यामेत्य विश्रान्तिमुपैति लोकः ॥१०॥
कीर्त्या जगद्दिक्कुहरं प्रतापैः श्रिया गृहं सत्त्वबलेन लक्ष्मीम् । ये पूरयन्त्यक्षतधैर्यबन्धा न ते जगत्यां सुलभा महान्तः ॥११॥
अप्यन्तरस्यं गिरिशैलभित्तेर्वज्रालयाभ्यन्तरसंस्थितं वा । सर्वं समायान्ति ससिद्धिवेगाः सर्वाः श्रियः संततमापदश्च ॥१२॥
पुत्राश्च दाराश्च धनं च बुद्ध्या प्रकल्प्यते तात रसायनाभम् । सर्वं तु तन्नोपकरोत्यथान्ते यत्रा तिरम्या विषमूर्च्छनैव ॥१३॥
विषादयुक्तो विषमामवस्थामुपागतः कायवयोवसाने । भावान्स्मरन्स्वानिह धर्मरिक्ताञ्जन्तुर्जरावानिह दह्यतेन्तः ॥१४॥
कामार्थधर्माप्तिकृतान्तराभिः क्रियाभिरादौ दिवसानि नीत्वा । चेतश्चलद्बर्हिणपिच्छलोलं विश्रान्तिमागच्छतु केन पुंसः ॥१५॥
पुरोगत्तैरप्यनवाप्तरूपैस्तरङ्गिणीतुङ्गतरङकल्पैः । क्रियाफलैर्दैववशादुपेतैर्विडम्ब्यते भिन्नरुचिर्हि लोकः ॥१६॥
इमान्यमूनीति विभावितानि कार्याण्यपर्यन्तमनोरमाणि । जनस्य जायाजनरञ्जनेन जवाज्जरान्तं जरयन्ति चेतः ॥१७॥
पर्णानि जीर्णानि यथा तरूणां समेत्य जन्माशु लयं प्रयान्ति । तथैव लोकाः स्वविवेकहीनाः समेत्य गच्छन्ति कृतोप्यहोभिः ॥१८॥
इतस्ततो दूरतरं विहृत्य प्रविश्य गेहं दिवसावसाने । विवेकिलोकाश्रयसाधुकर्मरिक्तेह्नि रात्रौ क उपैति निद्राम् ॥१९॥
विद्राविते शत्रुजने समस्ते समागतायामभितश्च लक्ष्म्याम् । सेव्यन्त एतानि सुखानि यावत्तावत्समायाति कुतोपि मृत्युः ॥२०॥
कुतोपि संवर्धिततुच्छरूपैर्भावैरमीभिः क्षणनष्टदृष्टैः । विलोड्यमाना जनता जगत्यां न वेत्त्युपायातमहो न पातम् ॥२१॥
प्रियासुभिः कालमुखं क्रियन्ते जनैडकास्ते हतकर्मबद्धाः । यैः पीनतामेव बलादुपेत्य शरीरबाधेन न ते भवन्ति ॥२२॥
अजस्रमागच्छति सत्वरैवमनारतं गच्छति सत्वरैव । कुतोपि लोला जनता जगत्यां तरङ्गमाला क्षणभङ्गुरेव ॥२३॥
प्राणापहारैकपरा नराणां मनो मनोहारितया हरन्ति । रक्तच्छदाश्चञ्चलषट्पदाक्ष्यो विषद्रुमा लोललताः स्त्रियश्च ॥२४॥
इतोन्यतश्चोपगता मुधैव समानसंकेतनिबद्ध भावाः । यात्रा समासङ्गसमा नराणां कलत्रमित्रव्यवहारमाया ॥२५॥
प्रदीपशान्तिष्विवभुक्तभूरिदशास्वतिस्नेहनिबन्धनीषु । संसारमालासु चलाचलासु न ज्ञायते तत्त्वमतात्त्विकीषु ॥२६॥
संसारसंरम्भकुचक्रियेयं प्रावृट्पयोबुद्बुदभङ्गुरापि । असावधानस्य जनस्य बुद्धौ चिरस्थिरप्रत्ययमातनोति ॥२७॥
शोभोज्ज्वला दैववशाद्विनष्टा गुणाः स्थिताः संप्रति जर्जरत्वे । आश्वासतादूरतरं प्रयाता जनस्य हेमन्त इवाम्बुजस्य ॥२८॥
पुनःपुनर्दैववशादुपेत्य स्वदेहभारेण कृतोपकारः । विलूयते यत्र तरुः कुठरैराश्वासने तत्र हि कः प्रसङ्गः ॥२९॥
मनोरमस्याप्यतिदोषवृत्तेरन्तर्विघाताय समुत्थितस्य । विषद्रुमस्येव जनस्य सङ्गदासाद्यते संप्रति मूर्च्छनैव ॥३०॥
कास्ता दृशो यासु न सन्ति दोषाः कास्ता दिशो यासु न दुःखदाहः । कास्ताः प्रजा यसु न भङ्गुरत्वं कास्ताः क्रिया यासु न नाम माया ॥३१॥
कल्पाभिधानक्षणजीविनो हि कल्पौघसङ्ख्याकलने विरिञ्च्याः । अतः कलाशालिनि कालजाले लघुत्वदीर्घत्वधियोप्यसत्याः ॥३२॥
सर्वत्र पाषाणमया महीघ्रा मृदा मही दारुभिरेव वृक्षाः । मांसैर्जनाः पौरुषबद्धभावा नापूर्वमस्तीह विकारहीनम् ॥३३॥
आलोक्यते चेतनयानुविद्धा पयोनुबद्धोस्तनयो नभः स्थाः । पृथग्विभागेन पदार्थलक्ष्म्या एतज्जगन्नेतरदस्ति किंचित् ॥३४॥
चमत्कृतिश्चेह मनस्विलोकचेतश्चमत्कारकरी नराणाम् । स्वप्नेपि साधो विषयं कदाचित्केषांचिदभ्येति न चित्ररूपा ॥३५॥
अद्यापि यातेपि च कल्पनाया आकाशवल्लीफलवन्महत्त्वे । उदेति नो लोभल वाहतानामुदारवुत्तान्तमयी कथैव ॥३६॥
आदातुमिच्छन्पदमुत्तमानां स्वचेतसैवापहतोद्य लोकः । पतत्यशङ्कं पशुरद्रिकूटादानीलवल्लीफलवाञ्च्छयैव ॥३७॥
अवान्तरन्यस्तनिरर्थकांशच्छायालतापत्रफलप्रसूनाः । शरीर एव क्षतसंपदश्च श्वभ्रद्रुमा अद्यतना नराश्च ॥३८॥
क्कचिज्जना मार्दवसुन्दरेषु क्कचित्कठोरेषु च संचरन्ति । देशान्तरालेषु निरन्तरेषु वनान्तखण्डेष्विव कृष्णसाराः ॥३९॥
धातुर्नवानि दिवसं प्रति भीषणानि रम्याणि वा विलुलितान्ततमाकुलानि । कार्याणि कष्टफलपाकहतोदयानि विस्मापयन्ति न शवस्य मनांसि केषाम् ॥४०॥
जनः कामासक्तो विविधकुकलाचेष्टनपरः स तु स्वप्नेप्यस्मिञ्जगति सुलभो नाद्य सुजनः । क्रियादुःखासङ्गविधुरविधुरा नूनमखिला न जाने नेतव्या कथमिव दशा जीवितमयी ॥४१॥
[ ९७३ ] इत्यार्षे वासिष्ठमहारामायणे वाल्मीकीये० निःश्रेयसविरोधिभावानित्यताप्रतिपादनं नाम सप्तविंशतितमः सर्गः ॥२७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP