मुमुक्षुवैराग्यप्रकरणम् - सर्ग तिसरा

‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.
Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism.


भरद्वाज उवाच ॥
जीवन्मुक्तस्थितिं ब्रह्मन्कृत्वाराघवमादितः । क्रमात्कथय मे नित्यं भविष्यामि सुखी यथा ॥१॥
श्रीवाल्मीकिरुवाच ॥
भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् । अपुनःस्मरणं मन्ये साधो विस्मरणं वरम् ॥२॥
दृश्यात्यन्ताभावबोधं विना तन्नानुभूयते । कदाचित्केनचिन्नाम स्वबोधोन्विष्यतामतः ॥३॥
स चेह संभवत्येव तदर्थमिदमाततम् । शास्त्रमाकर्णयसि चेत्तत्त्वमाप्स्यसि नान्यथा ॥४॥
जगद्भ्रमोयं दृश्योपि नास्त्येवेत्यनुभूयते । वर्णो व्योम्न इवाखेदाद्विचारेणामुनानघ ॥५॥
दृश्यं नास्तीति बोधेन मनसो दृश्यमार्जनम् । संपन्नं चेत्तदुत्पन्ना परा निर्वाणनिर्वृतिः ॥६॥
अन्यथा शास्त्रगर्तेषु लुठतां भवतामिह । भवत्यकृतिमाज्ञानां कल्पैरपि न निर्वृतिः ॥७॥
अशेषेण परित्यागो वासनानां य उत्तमः । मोक्ष इत्युच्यते ब्रह्मन्स एव विमलक्रमः ॥८॥
क्षीणायां वासनायां तु चेतो गणति सत्वरम् । क्षीणायां शीतसंतत्यां ब्रह्मन्हिमकणो यथा ॥९॥
अयं वासनया देहो ध्रियते भूतपञ्जरः । तन्तुनान्तनिंविष्टेन मुक्तओघस्तन्तुना यथा ॥१०॥
वासना द्विविधा प्रोक्ता शुद्धा च मलिना तथा । मलिना जन्मनो हेतुः शुद्धा जन्मविनाशिनी ॥११॥
अज्ञानसुघनाकारा घनाहंकारशालिनी । पुनर्जन्मकरी प्रोक्ता मलिना वासना बुधैः ॥१२॥
पुनर्जन्माङ्कुरं त्यक्त्वा स्थिता संभृष्टबीजवत् । देहार्थ ध्रियते ज्ञातज्ञेया शुद्धेति चोच्यते ॥१३॥
अपुनर्जन्मकरणी जीवन्मुक्तेषु देहिषु । वासना विद्यते शुद्धा देहे चक्र इव भ्रमः ॥१४॥
ये शुद्धवासना भूयो न जन्मानथभाजनम् । ज्ञातज्ञेयास्त उच्यन्ते जीवन्मुक्ता महाधियः ॥१५॥
जीवन्मुक्तिपदं प्राप्तो यथा रामो महापतिः । तत्तेहं शृणु वक्ष्यामि जरामरणशान्तये ॥१६॥
भरद्वाज महाबुद्धे रामक्रममिमं शुभम् । शृणु वक्ष्यामि तेनैव सर्वं ज्ञास्यसि सर्वदा ॥१७॥
विद्यागृहाद्विनिष्कम्य रामो राजीवलोचनः । दिवसान्यनयद्गेहे लीलाभिरकुतोभयः ॥१८॥
अथ गच्छति काले तु पालयत्यवनिं नृपे । प्रजासु वीतशोकासु स्थितासु विगतज्वरम् ॥१९॥
तीर्थपुण्याश्रमश्रेणीर्द्रष्टुमुत्कण्ठितं मनः । रामस्याभूद्भृशं तत्र कदाचिद्गुणशालिनः ॥२०॥
राघवश्चिन्तयित्वैवमुपेत्य चरणौ पितुः । हंसः पद्माविव नवौ जग्राह नखकेसरौ ॥२१॥
श्रीराम उवाच ॥
तीर्थानि देवसद्मानि वनान्यायतनानि च । द्रष्टुमुत्कण्ठितं तात ममेदं नाथ मानसम् ॥२२॥
तदेतामर्थितां पूर्वां सफलां कर्तुमर्हसि । न सोस्ति भुवने नाथ त्वया योर्थी न मानितः ॥२३॥
इति संप्रार्थितो राजा वसिष्ठेन समं तदा । विचार्यामुञ्चदेवैनं रामं प्रथममर्थिनम् ॥२४॥
शुभे नक्षत्रदिवसे भ्रातृभ्यां सह राघवः । मङ्गलालंकृतवपुः कृतस्वस्त्ययनो द्विजैः ॥२५॥
वसिष्ठप्रहितैर्विप्रैः शास्त्रज्ञैश्च समन्वितः । स्निग्धैः कतिपयैरेव राजपुत्रवरैः सह ॥२६॥
अम्बाभिर्विहिताशीर्भिरालिङ्ग्यालिङ्ग्य भूषितः । निरगात्स्वगृहात्तस्मातीर्थयात्रार्थमुद्यतः ॥२७॥
निर्गतः स्वपुरात्पौरेस्तूर्यघोषेण वादितः । पीयमानः पुरस्त्रीणां नैत्रैभृङ्गौघभङ्गुरैः ॥२८॥
ग्रामीणललनालोलहस्तपद्मापनोदितैः । लाजवर्षैर्विकीर्णात्मा हिमैरिव हिमाचलः ॥२९॥
आवर्जयन्विप्रगणान्परिशृण्वन्प्रजाशिषः । आलोकयन्दिगन्तांश्च परिचक्राम जाङ्गलान् ॥३०॥
अथारभ्य स्वकात्तस्मात्क्रमात्कोशलमण्डला तू । स्नानदानतपोध्यानपूर्वकं स ददर्श ह ॥३१॥
नदीतीराणि पुण्यानि वनान्यायतनानि च । जङ्गलानि जनान्तेषु  तटान्यब्धिमहीभूताम् ॥३२॥
मन्दाकिनीमि न्दुनिभां कालिन्दीं चोत्पलामलाम् । सरस्वतीं शतद्रुं च चन्द्रभागामिरावतीम् ॥३३॥
वेणीं च कृष्णवेणीं च निर्विन्ध्यां सरयूं तथा । चर्मण्वतीं वितस्तां च विपाशां बाहुदामपि ॥३४॥
प्रयागं नैमिषं चैव धर्मारण्यं गयां तथा । वाराणसीं श्रीगिरिं च केदारं पुष्करं तथा ॥३५॥
मानसं च क्रमसरस्तथैवोत्तरमानसम् । वडवावदनं चैव तीर्थवृन्दं स सादरम् ॥३६॥
अग्नितीर्थं महातीर्थमिन्द्रद्युम्नसरस्तथा । सरांसि सरितश्चैव तथा नदह्रदावलीम् ॥३७॥
स्वामिनं कार्तिकेयं च शालग्रामं हरिं तथा । स्थानानि च चतुःषष्टिं हरेरथ हरस्य च ॥३८॥
नानाश्चर्यविचित्राणि चतुरब्धितटानि च । विन्ध्यमन्दरकुञ्जांश्च कुलशैलस्थलानिच ॥३९॥
राजर्षीणां च महतां ब्रह्मर्षीणां तथैव च । देवानां ब्राह्मणानां च पावनानाश्रमाञ्च्छुभान् ॥४०॥
भूयो भूयः स बभ्राम भ्रातृभ्यां सह मानदः । चतुर्ष्वपि दिगन्तेषु सर्वानेव महीतटान् ॥४१॥
अमरकिन्नरमानवमानितःसमवलोक्य महीमखिलामिमाम् । उपययौ स्वगृहं रघुनन्दनो विहृतदिक्शिवलोकमिवेश्वरः ॥४२॥
[ १३९ ] इत्यार्षे वासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपाये द्वात्रिंशत्साहस्र्यां संहितायां वैराग्यप्रकरणे तीर्थयात्राकरणं नाम तृतीयः सर्गः ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP