संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
पञ्चाशोsध्यायः ।

पञ्चाशोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


अतोंशके लग्नगते तु वक्ष्ये वर्णस्वभावाकृतिलक्षणानि ।
प्रधानवीर्येंsशपतौ शशीव तत्स्वामिराशिक्रमशो विधत्ते ॥१॥
अजसंस्थानमुखः स्यान्मेष्याद्यांशेsल्पनासिकाङ्गभुजः ।
चण्डध्वनिर्विरूपः संकुचिताक्षः कृशोsक्षताङ्गश्च ॥२॥
श्यामगुरुस्कन्धभुजो ह्रस्वललाटः सुजत्रुकः स्फुटदृक् ।
दीर्घास्यनसो मृदुवाक्तृतीयभागे कृशाङ्घ्रिसन्धिश्च ॥३॥
व्यालुप्तकेशगौरो व्यस्तभुजश्चारुनयननासश्च ।
वाक्पण्डितस्तृतीये जातस्तु कृशोरुजानुजंघश्च ॥४॥
विभ्रान्तदृक्प्रचण्डो ह्रस्वनसोsटनखाराङ्घ्रिरोमा च ।
अभ्रातृकः कृशः स्याच्चतुर्थनवभागजः पुरुषः ॥५॥
दृप्तो गजेन्द्रनयनः पृथुनासा भ्रूललाटको मध्ये ।
पीनोपचिताग्रतनुः खरतररोमाङ्घ्रितनुकेशः ॥६॥
श्यामो मृदुर्मृगाक्षो गुरुः कृशस्फिक्कठोरुचरणः स्यात् ।
व्यस्तोदरकभुजांश षण्ढो भीरुश्च बहुभाषी ॥७॥
दूर्वाङ्कुराभचपलः सितनेत्रः सप्तमे भवेत्पुरुषः ।
कुलटापतिर्नृशंसो विशालविस्तीर्णमूर्तिः स्यात् ॥८॥
वानरमुखप्रवक्ता खरपिङ्गतनुश्च गुह्यगदः ।
हिंस्रोsनृतघातरतः सुहृत्र्पियोग्रः सदाष्टमजः ॥९॥
दीर्घः कृशो विहारी व्यस्तललाटश्रवोsश्ववदनश्च ।
बह्वभिधानाभिरतस्त्वनृजुर्नवमांशजो भवति ॥१०॥
इति मेषे ॥
समकृष्णतनुः स्तब्धः पूर्वमघान्त्येsन्त्यकर्मा स्यात् ।
नीचः प्रकृतिविरुद्धो विषमाक्षिनिरीक्षणो वृषस्याद्ये ॥११॥
गम्भीरदृगलसात्मा विनतशिरावक्त्रकश्च लघुमेधाः ।
प्रतिकूलकर्ममिथ्याबहुप्रलापी द्वितीये स्यात् ॥१२॥
मृद्वङ्गवान्वपुष्मान्सुनसस्पष्टायताक्षबृहदङ्गः ।
यज्ञादिकर्मनिरतः स्थिरपार्ष्णिकरस्तृतीयनवमांशे ॥१३॥
ह्रस्वोदरः सुरोषो मेषाक्षः पिङ्गलस्त्वधनयुक्तः ।
परधनहरणाभिरतश्चतुर्थभागे वृषस्य नरः ॥१४॥
व्यालः सुतुङ्गघोणो महर्षभाकारवक्त्रघनकेशः ।
स्थात्पञ्चमे विलासी बृहद्भुजस्कन्धकटिगौरः ॥१५॥
स्वक्षः स्थिरः सुकेशः स्निग्धतनुर्वल्गुवाक्प्रगल्भः स्यात् ।
माधुर्यहास्यनिरतः कृशः सुनिपुणो भवेत्षष्ठे ॥१६॥
मृतसुतयुवतीषु रतो मनाक्प्रलम्बाग्रनासिकाक्षः स्यात् ।
उद्बद्धाङ्गः स्वजनद्वेषी गुरुपादसूक्षकेशश्च ॥१७॥
व्याघ्रेक्षणः सुदशनस्त्वजितस्फुटनासिकोsल्पकर्मा स्यात् ।
उद्वृत्तनीलकेशोग्रनखो मुखरस्तथाष्टमजः ॥१८॥
मान्योsल्पसत्वभीरुः क्रोधी समरुचिरमूर्तिकितवः स्यात् ।
सञ्चितधनः प्रसिद्धः कृशस्त्वधस्तात्प्रलाप्यन्ते ॥१९॥
इति वृषभे ।
रोमोपचितांसभुजो घनासितापाङ्गदृक्तथोच्चनसः ।
दूर्वाकाण्डश्यामः कृशाङ्घ्रिपाणिस्तृतीयभवनाद्ये ॥२०॥
घटशीर्षोsशुचिकर्मा घातरुचिर्मध्यलग्नघोणः स्यात् ।
बहुभाषी बहुचेष्टो द्वितीयभागे तु विग्रहाधिपतिः ॥२१॥
गौरोsतिरक्तनयनः सनासिकः समतनुः सुमेधा स्यात् ।
दीर्घाननोsसितभ्रूर्वाचाचतुरस्तृतीयेंsशे ॥२२॥
सुभ्रूललाटकामी नीलोत्पलमूर्तिविपुलवक्षाः स्यात् ।
सितवक्त्रो मृदुवक्त्रः प्रशस्तरोमाचितश्चतुर्थेंsशे ॥२३॥
पृथ्वाननो बृहत्स्फिक्पीवरवक्षोभुजश्च खलः ।
स्थूलशिरा मायावी सितानुकूलेक्षणस्तु पञ्चमजः ॥२४॥
मध्वीक्षणः प्रलापी व्यस्तललाटः समस्सुतनुः ।
कितवश्चलश्च रुधिरोष्ठरदः षष्ठे तु सत्वयुतः ॥२५॥
ताम्रारुणाक्षवर्णः समुन्नाताक्षो विशालवक्षाः स्यात् ।
शिक्षासु शिल्पनिपुणो हास्यरतिः सप्तमे जातः ॥२६॥
श्यामो गुरुर्मनस्वी ललितो मधुराभिधानश्च ।
व्यस्तविवृद्धशरीरो दीर्घासितदृक्कलाविदष्टमजः ॥२७॥
वृत्ता सितदृक्सुतनुः सिद्धो मेधाबलो रतिज्ञः स्यात् ।
विज्ञानकाव्यनिरतो नवमे जायेत मिथुनस्य ॥२८॥
इति मिथुने ॥
निर्मलचारुसुगौरः सुमूर्धजः स्याद्विशालकुक्षिश्च ।
मङ्गलमुखोन्नताक्षस्तन्वङ्गभुजः कुलीराद्ये ॥२९॥
रक्तच्छविचरणोढः कलाप्रियः स्याद्विडालमुखनेत्रः ।
कर्किद्वितीयभागे त्यागी कृशजानुजङ्घश्च ॥३०॥
गौरः सुनेत्रवाग्मी सुकुमारस्थूलयोषिदङ्गश्च ।
धीमान्मृदुकर्मरतस्तृतीयभागे भवेदलसः ॥३१॥
श्यामच्छविर्नतभ्रूर्विलासपीनोन्नतः सुनासाक्षः ।
क्षीणः पुरुषो दाता सुजातिकार्यश्चतुर्थे स्यात् ॥३२॥
घण्टाशिरोनतास्यः सुसंहतभ्रूः सुदीर्घबाहुः स्यात् ।
सेवारतो विकर्मा मध्ये दुर्मर्षणोsल्पमेधाश्च ॥३३॥
दीर्धविशालशरीरः प्रशस्तनयनो बहुप्रतापः स्यात् ।
गौरः सुवंशघोणॊ वक्ता षष्ठे च पृथुदन्तः ॥३४॥
भिन्नशिरोरुहरोमा बृहत्तनुः स्यात्सिरालजङ्घश्च ।
परगृहरक्षणशीलः काकाकारश्च सप्तमजः ॥३५॥
घण्टाशिराः कुशिल्पी सुमुखभुजाङ्गश्च कूर्मगतिः ।
मध्यविलग्ननसः स्यादष्टमभागे तु कुष्ठश्च ॥३६॥
गौरो झषनेत्रगुरुर्मृदूदरोsथ पृथुपीनवक्षाः स्यात् ।
दीर्घहनुर्लम्बोष्ठो महोरुकृशजानुगुल्फोsन्त्ये ॥३७॥
इति कर्कटके ॥
मन्दोदरः प्रचण्डो रक्ताग्रनसो बृहच्छिराः शूरः ।
उन्नतमांसलवक्षाः सिंहे प्रथमे भवेद्भागे ॥३८॥
उन्नतविततललाटश्चतुरस्रवतनुर्विलोमनेत्रश्च ।
दीर्घभुजोन्नतवक्षाः पृथूग्रघोणो द्वितीयेंsशे ॥३९॥
रोमान्वितायतभुजश्चकोरनयनश्चलस्त्यागी ।
उन्नासिकस्तृतीये स्निग्धतनुर्बाहुवृत्तगलः ॥४०॥
घृतमण्डगौरगात्रो दीर्घासितलोचनो मृदुशिरोजः ।
भिन्नध्वनिश्चतुर्थे पृथुकरचरणश्च भेककुक्षिः स्यात् ॥४१॥
घण्टाशिरोsल्पकेशो सितघोणाक्षश्च लोमशाङ्गतनुः ।
लम्बोदरप्रचण्डो दंष्ट्रोत्कटपीनहृन्मध्ये ॥४२॥
स्रस्ताल्परोममूर्तिः स्निग्धसमासितविलोचनो दीर्घः ।
श्यामः स्त्रीणां चतुरो विकत्थनो वाक्यपण्डितः षष्ठे ॥४३॥
दीर्घाननः सिरालः पीनतनुः स्त्रीषु दुर्भगः कृष्णः ।
स्यात्सप्तमे सुचण्डो रोमचितः कूटानिष्ठुराभाषी ॥४४॥
उत्कृष्टवाक्स्थिराङ्गः सुभगो गम्भीरदृग्विकर्मा च ।
निःस्वः कूटकरः स्यादष्टभागे प्रसूतश्च ॥४५॥
रासभमुखोsसिताक्षो व्यालम्बभुजः सुपार्ष्णिजङ्घश्च ।
श्वासनिपीडितवक्षा नवमांशे जायते मनुजः ॥४६॥
॥ इति सिंहे ॥
सारङ्गाक्षो वक्ता प्रदानसम्भोगवान्धनाढ्यश्च ।
श्यामोन्नतहृदयः स्यात्षष्ठे प्रथमांशके जातः ॥४७॥
पूर्णाननः सुचक्षुः स्निग्धो मृदुवादशीलश्च ।
लम्बोदरश्चलः स्याद्द्वितीयभागे महोरुश्च ॥४८॥
स्फुटनासिकास्फुटः स्यात्प्रशस्तपादश्च पीनपादभुजः ।
विस्पष्टवाक्च गौरः कन्यासु सुहृत्तृतीयेंशे ॥४९॥
श्रुतवान्स्त्रीषु च रमते सुकुमारो मधुरक्तगौरश्च ।
तीक्ष्णश्चतुर्थभागे प्रबोधनोधःकृशो द्विमूर्धा च ॥५०॥
स्थूलोष्ठबाहुरुन्नततनुः पृथुशिरोरुहांसः स्यात् ।
पञ्चमजः पृथुवक्षा पराश्रयोद्बद्धजङ्घश्च ॥५१॥
स्निग्धच्छविः सुवाक्यः शस्ततनुः शास्त्रकृतमतिप्रचुरः ।
लिपिलेख्यकलाभिज्ञः सुमनाः षष्ठांशजो विहारी च ॥५२॥
ह्रस्ववदनोन्नतांसः स्निग्धभुजोsन्ते च केशगौरः स्यात् ।
सप्तमजः पृथुजठरः पृथुतरचरणोsम्बुभीरुश्च ॥५३॥
सुकुमारगौरदीर्घश्चित्रोन्नतदृक्प्रचण्डमानी स्यात् ।
व्यालम्बपीनबाहुः पिङ्गलरोमाष्टमे जातः ॥५४॥
ख्यातो मृदुसुखमूर्तिर्विशालनेत्रो बलासदृशसत्वः ।
चतुरो नवमेंsशे स्यान्नतांसलेख्यादिविद्वांश ॥५५॥
॥ इति कन्यायाम् ॥
गौरो विशालनेत्रः श्लाघी दीर्घाननोsर्थगोप्ता स्यात् ।
नवपण्यकर्मकुशलस्तुलाधराद्यंशजः सुविख्यातः ॥५६॥
प्लुतमण्डलनेत्रः स्यात्करालदन्तो निमग्नमध्यस्तु ।
युगले विस्मृतहृदयः कुतनुर्घनसंहतभ्रूश्च ॥५७॥
गौरोsश्वमुखः सुरदो महोन्नताक्षः कृशोsपि लब्धयशाः ।
दीर्घकरोरुहघोणस्तृतीयजः स्यात्सुचरणश्च ॥५८॥
तन्वंसबाहुभीरुस्तून्नतदन्तः कृशो मृगतरलदृक् ।
ह्रस्वनसः सुविषादी श्यामो शीलश्चतुर्थजो भवति ॥५९॥
गम्भीरदृक्स्थिरात्मा सुहृत्प्रियः पञ्चमे ह्यमानी स्यात् ।
खरकेशः समनेत्रो मध्यप्रतिलग्नघोणदृप्तश्च ॥६०॥
पीनाङ्गो गौरः स्याद्विशालनेत्रः सुनासिकावंशः ।
स्निग्धनखः सुनयज्ञः षष्ठेंsशे शास्त्रविज्जातः ॥६१॥
रत्कावदातमतिमान्गुरुह्रस्वतनुः कृशो ललाटे स्यात् ।
लुब्धः प्रचण्डदुर्गः सप्तमभागे मनःस्वी च ॥६२॥
तुङ्गांसगण्डभोक्ता कठिनतनुर्दीर्घकृष्णभ्रूः ।
निर्णिक्तवाक्प्रशान्तः सद्वक्षस्त्वर्धमस्तकोsष्टमजः ॥६३॥
स्वक्षः प्रसन्नगौरः समचारुतनुः पटुः कलाभिरतः ।
दाक्षिण्यहास्यनिरतो विटस्वभावो भवेन्नवमे ॥६४॥
॥ इति तुलायाम् ॥
ह्रस्वोन्नतोष्ठघोणः सुललाटः स्यादृढाङ्गगौरश्च ।
दर्दुरकुक्षिर्घटकोsष्टमराशौ प्रथमनवभागे ॥६५॥
गौरः पृथ्वायतहृद्बाहुस्ताम्रोग्रदृग्द्वितीये स्यात् ।
उद्वृत्तबलनिहन्ता साहसकृदनल्पकेशश्च ॥६६॥
प्राज्ञो दृढांशबाहुः प्रयत्नकोशो विशुद्धवाक्यः स्यात् ।
कानीनको वपुष्मान्गौरो रुचिराधरस्तृतीयेंsशे ॥६७॥
परदारद्रोहरतिः क्षेप्ता धीरश्चतुर्थजो दीर्घः ।
श्यामोsसितकेशाक्षो नटप्रगल्भश्च पीनरोमांसः ॥६८॥
गम्भीरस्तम्राक्षो मग्ननसः पञ्चमे धीरः ।
मृष्टोदरोग्रकर्मा व्यस्तदृढाङ्गो यशस्वी स्यात् ॥६९॥
धृष्ठो वरिष्ठबुद्धिः पृष्ठोच्चनसो गभीरसत्वः स्यात् ।
सुनसः प्रचण्डकर्मा षष्ठे दक्षोsल्पकचघनभ्रूश्च ॥७०॥
दारितमुखः स्थिराङ्गः प्रविकीर्णरदः शिरावनद्धाङ्गः ।
निम्नोदरः प्लुताक्षः स्रस्ततनुः सप्तमे भवेदंशे ॥७१॥
स्फुटिताग्रनसः कालो विपन्नशीलो मलीमसाङ्गः स्यात् ।
भिन्नोत्कटैः शिरोजैः सन्त्यक्तमतिस्तथाष्टमजः ॥७२॥
गौरो मृगाकृतिमृदुः प्रशान्तपिङ्गाक्षरोमदृढपीनः ।
सुसमेतश्च गुरूणां मतः प्रजातो नवमभागे ॥७३॥
॥ इति वृश्चिके ॥
सुबृहन्नसोजदृष्टिः स्फुटाग्रभाषी सुदन्तरोमा च ।
गौरः सुबुद्धवृष्णश्चापाद्यांशे प्रचण्डः स्यात् ॥७४॥
प्रोत्तुङ्गशिराः स्थिरविद्विस्तीर्णाक्षो गुरुस्फिगूरुश्च ।
विकृताक्षनसो दीर्घो महाहनुः स्याद्द्वितीयेंsशे ॥७५॥
शिक्षाशात्रमतिज्ञः प्रगल्भगम्भीरमूर्तिसुनयश्च ।
स्त्रीवल्लभो मनस्वी तृतीयजो हास्यशिल्पज्ञः ॥७६॥
दक्षो मधुमण्डलदृक्गौरः कृच्छ्रप्रवृद्धकुक्षिः स्यात् ।
प्राज्ञोsटनः सुकेशः पृथुशुभमूर्तिश्चतुर्थे स्यात् ॥७७॥
पृथुकण्ठनेत्रवदनः प्रवृद्धहरिविग्रहो महाभ्रूः स्यात् ।
पीनोन्नतांसहन्ता पञ्चमजो रूढरोमदृढबुद्धिः ॥७८॥
स्निग्धासितान्तपृथुदृक् महाललाटः सुवृत्तिकाव्यरतः ।
पृथुपीनमुखो हीनः षष्ठे विद्वान्कथाभिरतः ॥७९॥
श्यामो मृदुर्ववस्वी तुङ्गशिराः सङ्ग्रहानुसन्धिरतः ।
दीर्घो विशालनयनो दाक्षिण्यपटुश्च सप्तमजः ॥८०॥
चिपिटाग्रनासिकः स्याद्विस्तीर्णशिराः सबद्धवैरश्च ।
विभ्रान्तदृक्प्रलापी गुरुष्वभिमतोsष्टमांशभवः ॥८१॥
गौरो हयाकृतिमुखो दीर्घासितदृक् तथाल्पवाक्यः स्यात् ।
सत्यः सतां विषादी नवमे कुटिलोरुजङ्घश्च ॥८२॥
॥ इति धनुषि ॥
विरलाग्ररदः श्यामः प्रभिन्नवाक् खरशिरोरुनखजानुः ।
गीताध्वहास्यनिरतो मकराद्ये बलधनः कृशाङ्गः स्यात् ॥८३॥
अलसशटः कुटिलनसो गीताभिरतिर्विशालदेहश्च ।
प्रचुराङ्गनासु निरतो बहुभाषी स्याद्द्वितीयजः कल्प्यः ॥८४॥
गान्धर्वकलाकामः ख्याताङ्गो गौरदृक्सुमनसः ।
बहुमित्रबन्धुरतिमांस्त्रुतीयजः स्विष्टकर्मा च ॥८५॥
रक्तासितवृत्ताक्षो महाललाटभुजदुर्बलाङ्गकरः ।
भवति हि विकीर्णकेशश्चतुर्थजो विरलदन्तवाक्यः स्यात् ॥८६॥
उद्दण्डघोणकुक्षिर्भवति हि भोक्ता सुनासिकावंशः ।
श्यामो वृत्तोरुभुजः पञ्चमभागे स्थिरारम्भः ॥८७॥
स्निग्धच्छविः सुवेषः कामरतः सूक्ष्मसमरदसुवक्ता ।
षष्ठांशजः पृथुहनुर्महाललाटः पुमान्भवति ॥८८॥
श्यामोsलसः सुभाषी रूक्षितदेहो बृहत्तनुः कठिनः ।
मृदुपादपाणिमतिमान्सप्तमजः शीलसम्पन्नः ॥८९॥
गम्भीरदृक्सुघोणो रक्तास्यो भिन्ननखशिरोजः स्यात् ।
उद्बद्धतनुः शक्तोsष्टमजो घटपृथुललाटश्च ॥९०॥
विपुलाक्षिहृत्सुमेधाः पूर्णमुखो गीतावाद्यनिरतश्च ।
माधुर्यसत्वयुक्तः साधुर्नवमे भवेत्सुजनः ॥९१॥
॥ इति मकरे ॥
श्यामो मृदुः कृशाङ्गः पीनहनुः शास्त्रकाव्यमतिः ।
कामी रतिमान्कान्तः कुम्भस्याद्यांशके भवेजातः ॥९२॥
त्वङ्नखदृष्टिशिरोजैः खरैश्च सुविपन्नवत्सलः साधुः ।
दीर्घो विशिरा मूर्खो द्वितीयभागे भवेज्जातः ॥९३॥
संसक्ततनुः प्रमदाप्रियश्च वैडूर्यकान्तिधरः ।
शास्त्रार्थवित्प्रयोक्ता तृतीयनवभागसंजातः ॥९४॥
कान्तानुरतो गौरो विदारितास्यो रिपुप्रणाशकरः ।
गम्भीरधीरसत्वश्चतुर्थजो भोगरतियुक्तः ॥९५॥
स्पष्टार्थवित्कलाज्ञः खररोमधराङ्घ्रिरुग्रः स्यात् ।
संरुद्धगण्डकर्णः पञ्चमजः कृष्नवर्णश्च ॥९६॥
व्याघ्राननः प्रगल्भः कुञ्चितकेशः सुनिश्चितार्थश्च ।
व्यालमृगोरगहन्ता षष्ठेंsशे वल्लभो नृपतेः ॥९७॥
मेषाक्षिमुखस्तीक्ष्णो ग्राम्यरतिः स्त्रीषु परिभूतः ।
पित्तरुगर्दितदेहः सप्तमजः सत्वधृतियुक्तः ॥९८॥
स्थिरसत्वबुद्धिरतिमान्नरेन्द्रयोधो नरेश्वरः सुभगः ।
स्थूलरदो विपुलाक्षः कुम्भे स्यादष्टमेंsशके पुरुषः ॥९९॥
श्यामः समग्रवदनाविशेषितः सुधनदारपुत्रश्च ।
नवमांशजः सुवाक्यं प्रथितः शक्तो भवेत्पुरुषः ॥१००॥
॥ इति कुम्भे ॥
गौरोsपि रक्तदेहः प्रभामृदुस्त्रीमतिप्रचलचित्तः ।
ह्रस्वगलः कृशमध्यो मीनस्याद्यांशके पुरुषः ॥१०१॥
पृथुपीनभुग्ननासः क्रियापटुर्मांसभुग्रुचिरदेहः ।
काननपर्वतचारी बृहच्छिराः स्याद्द्वितीयांशे ॥१०२॥
गौरः शठः सुचक्षुः शस्ततनुर्धर्मवान्सुविद्वांश्च ।
दाक्षिण्यवान्विनीतस्तृतीयजो रूपवांश्चतुरः ॥१०३॥
गुणवान्विपन्नशीलः प्रवृद्धसेवी क्रियापटुर्विद्वान् ।
सत्वाधिको नयज्ञस्तुङ्गनसः स्याच्चतुर्थे तु ॥१०४॥
दीर्घोsसितः प्रतापी तुङ्गाङ्गः स्वल्पनासिकः स्वक्षः ।
हिंसारतिः शुभरदो दुष्प्रसहः पञ्चमे प्रतापी स्यात् ॥१०५॥
कान्तः प्रतापगुणवान्प्रसन्नवंशोsल्पनासिको मानी ।
तिर्यग्वदनः ख्यातः षष्ठेंsशे स्यात्तथा निपुणः ॥१०६॥
पुरुषाभिमानपरकृद्धर्मरुचिः श्रेष्ठगश्च सचिवः स्यात् ।
प्रबलो विषादशीलः शठोsस्थिरः सप्तमे भागे ॥१०७॥
दीर्घो बृहच्छिराः स्यात्कृशोsलसो रूक्षनेत्रकेशश्च ।
मन्दात्मजोsर्थनिरतो रणकुशलो ह्यष्टमे भागे ॥१०८॥
ह्रस्वो मृदुः सुधीरो विशालवक्षोक्षिनासिकः स्निग्धः ।
विहिताङ्गबुद्धिगुणवान्नवमेंsशे स्यात्पुमान्ख्यातः ॥१०९॥
॥ इति मीने ॥
यत्प्रोक्तांशादिफलं द्वादशभागेsपि तत्फलं वाच्यम् ।
सप्तमभागसमानं शेषेषु विनिर्दिशेत्प्राज्ञः ॥११०॥
इति कल्याणवर्मविरचितायां सारावल्यां नष्टजातकाध्याये नववर्गगुणचिन्ता नाम पञ्चाशोsध्यायः ॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP