संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
एकत्रिंशोsध्यायः ।

एकत्रिंशोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


होराचतुर्थसप्तमदशमेषु यथा द्वयोर्द्वयोर्ग्रहयोः ।
भवति फलसम्प्रयोगो जातस्य तथायमुपदेशः ॥१॥
मातृपित्रुदुःखतप्तः सूर्येन्द्वोरुदयसंस्थयोर्मनुजः ।
मानसुतविभवहीनः परिभूतो जायते दुःखी ॥२॥
बान्धवसुतसुखहीनो दारिद्र्ययुतो महाजडप्रकृतिः ।
चन्द्रे रसातलस्थे भास्करसहिते पुमान् जातः ॥३॥
मित्रैः सुतैश्च हीनः परिभूतो युवतिभिः सदा पुरुषः ।
चन्द्रे सप्तमभवने दिनकरसहिते भवेद्दीनः ॥४॥
सुशरीरं बलनाथं राजसिकं निर्दयं विषमशीलम् ।
सूर्येन्दू गगनस्थौ कुरुतः क्षपितारिपक्षं च ॥५॥
रविभौमयोर्विलग्ने पित्तप्रक्रुतिर्महाहवे शूरः ।
क्रोधी विक्षतगात्रः क्रूरश्च शठः कठोरः स्यात् ॥६॥
बन्धुजनवित्तहीनः समस्तसुखवर्जितः क्षुभितः ।
कुजसूर्ययोश्चतुर्थे भवति पुमान् सर्वतो द्वेष्यः ॥७॥
स्त्रीविरहदुःखखिन्नः स्त्रीहेतोः परिभवं सदा प्राप्तः ।
रविरुधिरयोर्युवत्यां विदेशगमने रतो भवति ॥८॥
विफलारम्भो भृतको नित्योद्विग्नः प्रधाननृपसेवी ।
भूतनयदिवाकरयोः कर्मणि गतयोर्भवेद्विकलः ॥९॥
प्राज्ञो बहुप्रलापी कठिनांगः शूरवल्लभो मतिमान् ।
लग्ने बुधदिनकरयोर्दीर्घायुः संभवेत्पुरुषः ॥१०॥
नृपतिसमो विख्यातो गृहीतकाव्यः कुबेरसमविभवः ।
रविशशितनयौ हिबुके स्थूलतनुर्वक्रनासश्च ॥११॥
वधबन्धनकृन्मृत्युर्गृहीतवाक्यो न चातिधनलुब्धः ।
स्त्रीरतिहीनश्चोरो द्यूने बुधसूर्ययोर्भवति ॥१२॥
त्रिषु लोकेषु ख्यातो गजाश्वनाथो भवेन्महीपालः ।
दिनकरबुधयोर्दशमे न नीचराशिस्थयोरेव ॥१३॥
जीवार्कयोर्गुणयुतो मन्त्री बलनायकोsथवा साधुः ।
लग्नस्थयोः प्रसूतौ विद्याधनभोगवान्ख्यातः ॥१४॥
श्रुतिनीतिकाव्यनिरतं भव्यं जनसम्पदं प्रियालपम् ।
हिबुके सुरेज्यसूर्यौ निभ्रुताचारं नरं कुरुतः ॥१५॥
जीवार्कयोर्युवत्यां मदनवशात्स्त्रीजितः पितृद्वेषी ।
कनकमणिरजतमौक्तिकसमन्वितः शुभशरीरः स्यात् ॥१६॥
कीर्तिसुखमानविभवैः समन्वितः पार्थिवो भवेन्नभसि ।
रविदेवपुरोहितयोर्निन्द्येsपि कुले नरो जातः ॥१७॥
प्रियकलहस्त्वविनीतो मलिनाचारः सुदुःखितो नीचः ।
लग्ने रविभृगुसुतयोरत्यर्थकलत्रसम्परित्यक्तः ॥१८॥
आदित्ये हिबुकस्थे भार्गवसहिते भवेन्नरो जातः ।
परभृत्यः शोकार्तो लोकद्वेष्यो दरिद्रश्च ॥१९॥
स्त्रीभिः सम्परिभूतो द्रविणविहीनो बृहत्तनुर्द्वेष्यः ।
शैलवनेषु च विचरति रविसितयोः सप्तमस्थाने ॥२०॥
कर्मणि दिनकरसितयोर्व्यवहाररतो नरेन्द्रसचिवः स्यात् ।
शास्त्रकलानिपुणमतिर्धनवाहनसौख्यसम्पन्नः ॥२१॥
निन्दितजननीपुत्रः कुत्सितवृत्तिः सदा मलिनबुद्धिः ।
लग्ने सूर्यार्कजयोः पापाचारो भवेत्पुरुषः ॥२२॥
सौरिश्चतुर्थराशौ भास्करसहित पुमान् भवति नीचः ।
दारिद्र्यविहितमूर्तिः स्वबन्धुभिश्चापि परिभूतः ॥२३॥
भान्वर्कजयोर्मदने मन्दालसदुर्भगाश्च जायन्ते ।
युवतिधनैः सन्त्यक्ता मृगयाभिरता महामूर्खाः ॥२४॥
भानु स्वपुत्रसहितो गगने भृतकं विदेशगं जनयेत् ।
नृपतेः क्कचिदाप्तधनैश्चोरैर्मुषितं सदश्वधनम् ॥२५॥
रक्ताग्निपित्तदोषैरभिभूतो जायते नरो राजा ।
क्षोणीसुतहिमकरयोर्लग्ने तीक्ष्णस्वभावश्च ॥२६॥
सक्लेशो निर्द्रव्यः सुखसुतधनबन्धुहीनश्च ।
पाताले कुजशशिनोर्विकलश्च भवेत्तथा जातः ॥२७॥
क्षुद्रः परधनलुब्धो बहुप्रलापो न सत्यवचनश्च ।
ईर्ष्यायुक्तो मनुजः कुजशशिनोः सप्तमस्थाने ॥२८॥
तुरगगजपत्तिसम्पत्समाकुलं तुहिनगुर्नरं कुरुते ।
रुधिरेण समायातो गगनतले विक्रमैर्युक्तम् ॥२९॥
सुखबुद्धिसत्वयुक्तं सुभगः कान्तो विलग्नगे शशिनि ।
बुधसहिते भवति नरो वाचालश्चातिनिपुणश्च ॥३०॥
बन्धुसुहृत्तनयसुखप्रतापकनकाश्चरत्नसंयुक्तम् ।
बान्धवराशाविन्दुर्जनयति बुधसंयुतः सुभगम् ॥३१॥
द्यूने बुधसंयुक्तो जनयति चन्द्रः प्रतापिनं पुरुषम् ।
नृपसंमतं नृपं वा विख्यातं सत्कविं ललितम् ॥३२।
दशमे बुधहिमकरयोर्मानी धनवानतिख्यातः ।
नृपसचिवो वयसोsन्ते दुःखी स्याद्वधुपरिहीनः ॥३३॥
लग्ने सुरेज्यशशिनोः क्षितिपः पृथुपीनवक्षाः स्यात् ।
बहुतनयमित्रभार्यः सुशरीरो बन्धुभिर्जुष्टः ॥३४॥
मन्त्री राजप्रतिमः सुखबन्धुसमन्वितो महाविभवः ।
बहुशास्त्राक्षतबुद्धिर्हिबुके स्याज्जीवशशिनोश्च ॥३५॥
जायाभवने कुरुतः सुप्राज्ञं पार्थिवं कलाकुशलम् ।
वाणिजकं जीवेन्दू नृपवल्लभमर्थवत्स्फीतम् ॥३६॥
कर्मणि सुरेज्यशशिनोर्विद्यादानार्थमानकीर्तियुतः ।
सौम्यः प्रबम्बबाहुः सर्वनमस्यो नरो भवति ॥३७॥
वेश्यास्त्रीकृतसौख्यः कान्ततनुः संमतो गुरूणां च ।
माल्याम्बरगन्धयुतो लग्ने शशिशुक्रयोर्भवति ॥३८॥
पाताले शशिशुक्रौ स्त्रीजनसुखभागिनं नरं कुरुतः ।
जलसंयानाप्तधनं जनप्रियं भोगसम्पन्नम् ॥३९॥
जामित्रे सितशशिनोर्बहुयुवतिरतो न चातिधनपुत्रः ।
स्त्रीजननो मेधावी भूपतिचरितो भवेत्पुरुषः ॥४०॥
मानाज्ञाविभवयुतः कर्मणि शुक्रे शशाङ्कयुते ।
राज्ञो मन्त्री ख्यातः क्षमान्वितः स्याद्वहुजनश्च ॥४१॥
दासाः खलां सुरौद्रा भवन्ति लुब्धाश्च मानवा हीनाः ।
भस्करसुतहिमकरयोर्लग्ने निद्रालसाः पापाः ॥४२॥
जलमुक्तामणिपोतैर्जीवन्ति नरास्तथा खननवृत्त्या ।
हिबुके शशिरविसुतयोः श्रेष्ठा जनसंमता जाताः ॥४३॥
नगरग्रामपुराणां महत्तरा राजपूजिताः पुरुषाः ।
जायन्तेsर्किअजशशिनोर्जायाभवने युवतिहीना ॥४४॥
प्रचुरतुरंगमदलितारातिः ख्यातः कुयोषितः पुत्रः ।
भवति नराणामधिपः शशिशनियोगे खमध्यगते ॥४५॥
सौम्यग्रहसंयुक्तः प्रायेण शुभावहो भगणनाथः ।
भौमार्कियुतो दृष्टो दशमे च चमूपतिं कुर्यात् ॥४६॥
हिंस्रोsग्निकर्मकुशलो धातोर्वादे कृतश्रमो दूतः ।
भौमबुधयोर्विलग्ने गुप्त्यधिकारी भवेत्पुरुषः ॥४७॥
बान्धवरहितः सहितो मित्रैश्च धनान्नभोगवाहनवान् ।
हिबुके बुधभूसुतयोः स्वजनेषु निराकृतो जातः ॥४८॥
भ्रमति च देशाद्देशं कर्मकरो नीचपरिभूतः ।
भौमेन्दुजयोर्द्यूने सुविवादकरो मृतप्रथमदारः ॥४९॥
सेनाधिपतिः शूरः शठस्वभावो भवेदतिक्रूरः ।
बुधकुजयोराकाशे राज्ञोsभिमतो नरो धीरः ॥५०॥
मन्त्री गुणप्रधानो धर्मक्षेत्रे प्रलब्धपरिकीर्तिः ।
जीवकुजयोर्विलग्ने नित्योत्साही भवेत्पुरुषः ॥५१॥
बन्धुसुहृत्सम्पन्नः स्थिरचित्तः सौख्यभाक् भवेद्धिबुके ।
भौमामरपूजितयोर्नृपसेवी देवगुरुभक्तः ॥५२॥
गिरिदुर्गतोयकाननविचरणशीलः सुबान्धवः शूरः ।
कुजजीवयोर्युवत्यां जायाहीनः पुमान्भवति ॥५३॥
त्रिदशगुरुभूमिसुतयोराकाशे पार्थिवो विपुलकीर्तिः ।
बहुधनजनपरिवारः कर्मसु निपुणो भवेत्पुरुषः ॥५४॥
शुक्रकुजयोर्विलग्ने वेश्यानिरतः कुशीलकर्मा च ।
स्त्रीहेतोर्नष्टधनो न तु चिरजीवी भवेत्पुरुषः ॥५५॥
बन्धुसुतमित्रहीनो मानसपीडाभिरर्दितः पुरुषः ।
भौमसितयोश्चतुर्थे नानादुःखैर्भवेत्तप्तः ॥५६॥
स्त्रीलोलुपः कुचरितः स्त्रीहेतोः प्राप्तवान्महादुःखम् ।
भौमसितयोर्युवत्यां हीनाचारो भवेत्पुरुषः ॥५७॥
अस्त्राचार्यो मतिमान् विद्याधनवस्त्रमाल्यवान्भवति ।
ख्यातो नरेन्द्रसचिवः सितकुजयोर्व्योम्नि संस्थितयोः ॥५८॥
संग्रामलब्धविजयो जननीद्वेष्यो भवेत्पुरुषः ।
भौमार्कजयोर्लग्ने ह्रस्वायुः क्षीणभाग्यश्च ॥५९॥
पानान्नसौख्यरहितः स्वजनैस्त्यक्तो भवति जातः ।
भौमार्कजयोर्हिबुके मित्रैश्च विवर्जितः पापः ॥६०॥
जायासुखसुतहीनो दैन्यपरो व्याधितो व्यसनशीलः ।
भौमार्कजयोरस्ते जनपरिभूतो भवेत्कृपणः ॥६१॥
राज्ञः सम्प्राप्तधनो महापराधाच्च दण्डितस्तेन ।
भौमार्कजयोर्दशमे न सत्यवचनो नरो भवति ॥६२॥
शुभमूर्तिः शुभशीलो विद्वान्नृपसत्कृतो विषयनाथः ।
बुधजीवयोर्विलग्ने वाहनसुखभोगवान् भवति ॥६३॥
बन्धुसुहृतत्सुखसहितः स्त्रीधनसौभाग्यसम्पन्नः ।
बुधजीवयोश्चतुर्थे निपुणो नृपसंमतो भवति ॥६४॥
सुकलत्रो हतशत्रुर्बहुजनमित्रार्थसत्त्वसम्पन्नः ।
बुधजीवयोर्युवत्यामतीत्य पितृपक्षमधिकः स्यात् ॥६५॥
बोधनगुर्वोर्दशमे नरेन्द्रमन्त्री नृपोsथवा भवति ।
मानाज्ञाख्यातियुतः श्रौतार्थपरो विनीतश्च ॥६६॥
बुधशुक्रयोर्विलग्ने सुशरीरः पण्डितः सतां सुभगः ।
नृपपूजितोsतिधन्यो द्विजसुरभक्तो भवेत्ख्यातः ॥६७॥
बुधशुक्रौ हिबुकस्थौ पुत्रसुहृद्बन्धुसंयुतं सुभगम् ।
मन्त्रिणमथवा नृपतिं कुरुतः कल्याणसम्पन्नम् ॥६८॥
बुधशुक्रयोर्युवत्यां सद्बहुयुवतिपरिवेष्टितः पुरुषः ।
भोगधनैश्वर्ययुतो भवति सुखी संमतो राज्ञाम् ॥६९॥
बोधनसितयोः कर्मणि नीतिज्ञो भवति भूपतिः साधुः ।
नीचाश्रयो न चाढ्यः सफलारम्भः समर्थश्च ॥७०॥
मलिनशरीरः पापी विद्याधनवाहनैः परित्यक्तः ।
सौम्यार्कजयोर्लग्ने ह्रस्वायुः क्षीणभाग्यश्च ॥७१॥
पानान्नबन्धुरहितः स्वजनेषु तिरस्कृतो भवति मूढः ।
सोम्यार्कजयोर्हिबुके मित्रैश्च विवर्जितः पापः ॥७२॥
ईश्वरभृतको मूर्खः परोपकारी न साधुरतिमलिनः ।
सौम्यार्कजयोरस्ते न सत्यवचनो नरो भवति ॥७३॥
प्रशमितसमस्तशत्रुः स्वजनसुहृद्वाहनार्थसम्पन्नः ।
सौम्यार्कजयोर्दशमे द्विजगुरुसुरपूजितो भवति ॥७४॥
जीवसितयोर्विलग्ने गुरूपदेशो भवेत्क्षमानाथः ।
ब्राह्मणकुलसंभूतोsप्यनुकूलो भवति नृपतुल्यः ॥७५॥
प्रशमितसमस्तशत्रुः स्वजनसुहृद्वाहनार्थसम्पन्नः ।
जीवसितयोश्चतुर्थे द्विजगुरुसुरपूजितो भवति ॥७६॥
सुस्त्रीरत्नार्थयुतः स्त्रीजननो लब्धसौख्यकीर्तिश्च ।
गुरुशुक्रयोर्युवत्यां वरवाहनभोगवान्भवति ॥७७॥
गगनस्थौ गुरुशुक्रौ मानाज्ञाविभवविस्तरैः सहितम् ।
जनयेतां पृथिवीशं बहुभृत्यधनं सुशीलं च ॥७८॥
लग्ने जीवार्कजयोर्मदालसा निष्ठुराः समभिजाताः ।
विद्वांसो धनसाराः किञ्चित्सुखिता भवन्ति खलाः ॥७९॥
नृपसचिवो निरुजतनुर्जयोदयी बान्धवैः सुहृद्भिश्च ।
पातालेsर्कजगुर्वोः प्रीतिधनः सौख्यवान्भवति ॥८०॥
स्त्रीवैरान्नष्टधनः शूरो व्यसनी शठो न शुभमूर्तिः ।
द्यूने सुरेज्ययमयोः पितृधनलुब्धश्च जायते मूर्खः ॥८१॥
दशमे भास्करिजीवौ नरेन्द्रदयितं च भूपतिं कुरुतः ।
अल्पापत्यं नचलं गिकुलबहुवाहनार्थं च ॥८२॥
रमते सर्ववधूभिः कान्तशरीरः सुखार्थभोगयुतः ।
लग्ने भृगुसुतयमयोर्बहुभृत्यः शोकसन्तप्तः ॥८३॥
मित्रेभ्यो धनलाभं बन्धुभ्यः सत्क्रियाः समाप्नोति ।
शनिशुक्रयोश्चतुर्थे नृपतेश्च तथाप्ततां याति ॥८४॥
स्त्रीरत्नानि सुखानि च धनानि कीर्तिं च भूतिमखिलां च ।
मन्दसितयोर्युवत्यां प्राप्नोति पुमान्विषयलाभम् ॥८५॥
सर्वद्वन्द्वविमुक्तो लोके ख्यातो विशिष्टकर्मा च ।
मेषूरणे सितार्क्योर्नृपतेर्मन्त्री भवेदधिकः ॥८६॥
एवं त्रिभिश्चतुर्भिः पञ्चभिरथ सप्तभिश्च षड्भिर्वा ।
वक्तव्यं केन्द्रस्थैर्ग्रहयोगफलं विचिन्त्य धिया ॥८७॥
द्व्यन्तरयोगो नाम एकत्रिंशोsध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP