संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|कृतस्तोत्रादिसंग्रह:|
अमरेश्वरस्तोत्रम्

अमरेश्वरस्तोत्रम्

श्री प. प. नृसिंहसरस्वतीदीक्षितस्वामीमहाराज कृतस्तोत्रादिसंग्रह:


नमामि देवदेवेशं श्रीकृष्णातटवासिनम् ।
अमराख्यपुरे देवदेववृन्दसुसेवितम् ॥१॥
वन्देहं गोरुद्रपितृशुक्लतीर्थविभूषणम् ।
स्नात्वा पूजनतस्तत्तल्लोकदं चामरेश्वरम् ॥२॥
अमराद्यष्टतीर्थानि यदग्रे शंमयानि तम् ।
वन्दे दत्तश्रीनृसिंहयतिराजसुपूजितम् ॥३॥
कृष्णावेणीपञ्चगङ्गासंगमाग्र्यविभूषितम् ।
साक्षात्परब्रम्हरूपं वन्देहं चामरेश्वरम् ॥४॥
यत्तीर्थस्नानपूजात: देवत्वं प्राप्यतेब्दत: ।
वन्दे तं योगिनीवृन्दसुसेवितपदं सदा ॥५॥
नारदादियोगिवृन्दसनकादिसुपूजितम् ।
नमामि तं चामरेशं भूवैकुण्ठपदप्रदम् ॥६॥
अमरेश्वर भो देव कृपापात्रं हि मां कुरु ।
करुणाब्धे सुखाब्धे माम हृत्सुखं हि प्रदेहि भो ॥७॥
वरं वरदराड्दत्तपादं हृद्भूषणं कुरु ।
सर्वानन्दप्रदं तं त्वां नमामि सततं सदा ॥८॥
अमरेश्वरस्तोत्रमिदं शीघ्र्मुक्तिप्रदं नृणाम् ।
पुनातु सर्वदुरिताच्चामरेश्वरतुष्टिदम् ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP