संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|कृतस्तोत्रादिसंग्रह:|
श्रीव्यासपूजास्तोत्रम्

श्रीव्यासपूजास्तोत्रम्

श्री प. प. नृसिंहसरस्वतीदीक्षितस्वामीमहाराज कृतस्तोत्रादिसंग्रह:


नमामि भगवन्तं तं पूर्णब्रम्ह सनातनम्
श्रीकृष्णं वासुदेवं च वन्दे संकर्षणं नुम: ।
प्रद्युम्नमनिरुद्धं च वन्दे श्रीकृष्णपंचकम् ॥१॥
वन्दे व्यासगुरुं वन्दे श्रीवैशम्पायनं नुम: ।
सुमंतुं जैमिनिं पैलं वन्दे श्रीव्यासपंचकम् ॥२॥
वन्दे श्रीशंकराचार्य विश्वरूपधरं नुम: ।
पद्मपादाचार्यहस्तामलकौ तोटकं नुम: ॥३॥
सनकाय नमो वन्दे सनन्दनसनातनौ ।
वन्दे सनत्कुमाराय कपिलाय नमो नम: ॥४॥
वन्देहमृषभं देवं दत्तात्रेयं गुरुं नुम: ।
वन्दे शुकं नारदं च वन्दे संवर्तनं नुम: ॥५॥
नमामि श्वेतकेतुं च वन्दे दुर्वाससं नुम: ।
जडभरतं रैवतं च वामदेवं नमाम्यहम् ॥६॥
वन्दे श्रीद्रविडाचार्यान् पूज्यपादाभिवन्दितान् ।
गोविन्दभगवत्पूज्यपादाचार्यान्नमाम्यहम् ॥
गौडपादाचार्ययतीन्नमामि च मुदाप्लुतान् ।
वन्दे विवरणाचार्यान् ब्रम्हविद्याप्रवर्तकान् ॥
आचार्यान् सततं वन्दे ब्रम्हविद्याप्रदान् मुदा ॥७॥
नमो गुरुभ्य: परमगुरुभ्यश्च नमो नम: ।
परमेषठिगुरुभ्योहं परात्परगुरून्नुम: ॥
समस्तब्रह्मविद्यासम्प्रदायिभ्यो नमो नम: ॥८॥
नम आत्मने नमश्चान्तरात्मने परमात्मने ।
नम: सर्वात्मने परब्रम्हणे च नमो नम: ॥९॥
श्रीव्यासपीठनिहितान् देवान् वन्दे मुदा सदा ।
अनुगृण्हन्तु मे पूजां कृपां कृत्वा ममोपरि ॥११॥
इति श्रीव्यासपूजास्तोत्रं संपूर्णम्
श्रीकृष्णव्यासाचार्यादिगुरुपदकमलार्पणमस्तु

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP