संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|कृतस्तोत्रादिसंग्रह:|
सर्वतीर्थस्तोत्रम्

सर्वतीर्थस्तोत्रम्

श्री प. प. नृसिंहसरस्वतीदीक्षितस्वामीमहाराज कृतस्तोत्रादिसंग्रह:


वन्देहं सर्वतीर्थशं सर्वदेवेशसेवितम् ।
श्रीकृष्णव्यासदुर्वासआचार्यादिसुसेवितम् ॥१॥
श्रीदत्तनवयोगीन्द्रनाथेशगुरुसेवितम् ।
इन्द्रादिदेवै: सगणै: गणेशगुहसेवितम् ॥२॥
श्रीगङ्गा यमुनायुक्ता गुप्ता यत्र सरस्वती ।
त्रिवेणीत्रिकुण्डात्मसर्वतीर्थं नमामि तत् ॥३॥
यन्नगाग्रे ज्ञानवापी चाम्बा निम्बातिसौख्यदा ।
यज्जीवनं सर्वरोगहरं तीर्थं नमामि तत् ॥४॥
पाण्डवै: स्वीकृतं यच्च यच्च पापाद्रिनाशनम् ।
सर्वानन्दप्रदं सिद्धसर्वतीर्थं नमामि तत् ॥५॥
साधुसिद्धमुनिश्रेष्ठा: सर्वतीर्थे वसन्ति हि ।
स्नानदानादिजं पुण्यं सदानन्त्याय कल्पते ॥६॥
आनन्दवाटिका सा कवडशीत्युच्यते जनै: ।
मार्गे मार्गे च सम्प्राप्तं सर्वतीर्थं नमाम्यहम् ॥७॥
वातात्मजं वानरयूथपाधिपम्
विश्वेश्वरं देवगणार्चितांघ्रिम् ।
गणेश्वरं विघ्नविनायकेशम्
नमामि भक्तप्रियविठ्ठलं हरिम् ॥८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP