अथ षोडशोsध्याय:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी गुरूचरित्राची रचना केली आहे, ती अप्रतिम आहे.


॥ नामधारक उवाच ॥
नमस्ते ब्रूहि चरितं हरेरद्भुतकर्मण: ।
श्रृण्वतोपि न मे तृप्तिरमृतं पिबतो यथा ॥१॥
॥ सिद्ध उवाच ॥
सत्पृष्टं वत्स धन्योसि भवाब्धिर्लीलया जित: ।
चित्तं ते चरितैर्विद्धं हरेस्तेनास्मि तोषित: ॥२॥
को ब्रूयाद्भगवल्लीलां कति चित्राणि वच्मि ते ।
मूको ब्रूते प्रेक्षतेंधो मृतो जीवति यद्दृशा ॥३॥
श्रृण्वेको माहुरे विप्रो गोपीनाथो धनी मृता: ।
तत्पुत्रा बहवोथैको जीवितो दत्तसेवया ॥४॥
दत्तप्रसादाच्चिरजीवितं सुतं नाम्नाकरोद्दत्तमिति द्विजातिज: ।
कांत: सुलक्ष्मा मतिमान्सुसात्विक: पित्रोर्मृतार्भाकविनाश्यवर्शत ॥५॥
सुसंस्कृतस्यास्य विधे: सुरूपिणी लब्धा वधूर्धीगुणशीलशालिनी
रति: स्मरस्येव परस्परोत्थितमासीत्तयो: प्रेम रथांगनामवत् ॥६॥
सरूपौ सुरूपौ स्वयोर्मन्यमानौ वियोगं कुयोगं क्षणं धर्मदक्षौ ।
उभौ तौ स्मरंतौ सदान्योन्यभद्रं न तंद्रा न निद्रा पतिप्रेम्णि साध्व्या: ॥७॥
लेपोत्युष्ण इवानिलोनलसम: शीतांशुरुष्णांशुव -
च्छय्या वृश्चिकवत्सुमस्रगहिवद्भूषा: समा: कंटकै: ।
वाङ्म्याधुर्यमपि प्रदीपसदृक्स्वाद्वन्नमप्युत्कटु
प्रेष्ठे त्वंतरिते क्षणं दृढतरां साध्व्या अभूत्सर्वदा ॥८॥
एवं सतोश्चापरिहार्यशोषवान्
भर्ता सुसाम्यासहनाद्विधेरभूत् ।
क्षीणो रुचि: श्वासकफार्दितोनिशं
दु:खोझ्झितस्वापभुजि: सुमन्दवाक् ॥९॥
भुंक्ते यथान्नं स सती तथान्नं शेतेपि यावत्स सती तु तावत् ।
कृशोsपि यद्वत्स सती तु तद्वत्छायापरेवास्य पतिव्रताभूत् ॥१०॥
वैद्योन्तिके तस्य कुगंधशंकया न याति साध्वी सुमना न तं जहौ ।
भेजे पतिं स्नानसुगन्धिलेपनै: पादांगसंवाहनभेषजार्पणै: ॥११॥
शांत्यार्चनैर्होमजपैश्च भेषजैर्दानैर्न यक्ष्मा किमपि व्यहीयत ।
श्यामामुखेन्दुं परिपूर्णमुद्ग्रसन्मंदस्मितज्योत्स्नमभूत्परो ग्रह: ॥१२॥
द्विजं रुजर्तं च तथाविधां वधूं तयोर्न शेकु: पितरौ निरीक्षितुं ।
निवारिता तैरपि सा पतिव्रता न तं जहावर्यमणं प्रभा यथा ॥१३॥
॥ विप्र उवाच ॥
प्राग्वैरत: कष्टमिदं मयार्पितं धृत्या पित: सात्विकयांब जीवितुं ।
साध्वर्हथस्ते सति पूर्ववैर्यहं तन्मां विहायाशु पितुर्गृहं व्रज ॥१४॥
॥ साध्व्युवाच ।
नार्हास्म्यनन्यशरणा परिहापितुं ते नन्वर्धसुन्दरशरीरविभागिनीयं । जीवोत्स्य साधुवपुषोस्ति भवान्वियुक्ते जीवे तनोर्ननु भवेत्खलु जीवहत्या ॥१५॥
सदा मादास्यं शशिशालि कालिमा कुतो यतो भैधत एवमेव ते ।
अकी सुखी यत्र भवत्यवत्यघात्तमीशमीडे स तु देवदेवत: ॥१६॥
नमो नमो वां श्वशुरौ मया श्रुतो गुरु: स गन्धर्वपुरेस्ति तारक: ।
असुप्रियोsनामयमेति भाति मे सहामुना यास्य उरोचतेपि वां ॥१७॥
तावूचतु: क्कापि तव श्रमेण संम्राज्ञि जीवेत स तत्र गच्छ ।
श्रुत्वैवमाराछ्वशुरौ प्रणम्य तदाज्ञयागात्सह तेन साध्वी ॥१८॥
सुखस्थितं मंथरवाहवाहितं तमन्वगच्छत्पतिमंघ्रिचारिणी ।
दधौ कराक्रुष्टधवा गमानतक्षमेभिभामुत्कुचगण्डकर्शिता ॥१९॥
क्रांतेsयनेथो कतिचिच्छनै: शनैर्मृत्युं धवोगात्स तदैव दैवत: ।
सा मर्तुमुत्कापि निवारितेतरै: शुक्तामसीम्लानमुखाम्बुजावदत् ॥२०॥
कालात्ययं मा कुरु कुर्वथाह्निकमुत्तिष्ठ शेषे कति नाथ विप्रराट् ।
कस्मान्न मे दास्यसि वल्लभोत्तरं प्रेष्ठं नु किं ते वचनं व्यलंघयं ॥२१॥
प्राणा: क्क याताश्च मन: क्क ते गतं द्राक्तान्परावर्तय जीवितुं चिरं ।
लिप्त:स्वमातापितृदारहत्यया भविष्यसि त्वं न तथा करोषि चेत् ॥२२॥
उद्वाहितां क्कैषि विहाय मां प्रियां पुत्राननुत्पाद्य कथन्वृणोत्धृति: ।
स्थातव्यमीश क्क कथं न भाषितं कथं व्रजेयं सदनं गुरोश्च व: ॥२३॥
सर्वत्र पूता त्वयि जीवतीशितर्मदास्यमप्यद्य न कोपि पश्यति ।
सव्रीडानर्मोक्तिसुतल्पहावयुक्तांबूललेपादि कथं न ते हृदि ॥२४॥
सुखं स्वपोरूत्कुचभारभंगभीभीतमध्यात्मसुतल्प ईश ।
किं ते शिलाढ्ये शयनं कुपृष्ठे सुप्त: पृथङ्नर्तुमृतेद्य किं तत् ॥२५॥
नक्रोप्सु यद्वत्तृषितं यथा द्रु: श्रांतं यथा गां तृणगां च हिंस्र: ।
प्रासाद ईशेक्शकमुन्निहंति जातं तथा मे गुरुदर्शनाप्ते: ॥२६॥
जयेश्वरानन्त कथं त्वया कृतं भिया त्वयात्रापह्रुतोस्ति किं पति: ।
रुक्शांतिशक्तिर्यदि ते न गम्यतामिति त्वयोक्ते कतमोर्दितुं क्षम: ॥२७॥
त्वया क्रुतं साधु यशो दिवं ते वहामि भर्त्रा सह गौरिमात: ।
क्केता ह्यवैधव्यकदानशक्तिर्व्रतेश्वरीशे न कथं स्मृतिर्मे ॥२८॥
मांगल्यतंतुं च निशां च कुंकुमं हर्तुं महांश्चोर इहागत: कुत: ।
सौभाग्यनौर्मे भवसिन्धुसंस्थिता सा कालमीनेन कथं नु चर्विता ॥२९॥
एवं रुदित्वोरुकुचत्रुटत्पटा संस्मृत्य संस्मृत्य तदीयचेष्टितं ।
प्रत्यंगमालंब्य रुरोद मोहत: साध्वी तदा कश्चन साधुराययौ ॥३०॥
रुद्राक्षभूषो भसिताक्तदेह: शूली बभाषे जटिल: स साध्वीं ।
बाले शुचा नैति मृत: कुतस्त्वं मुधोच्चकै रोदिषि तिष्ठ तूष्णीं ॥३१॥
मृत्युर्न केषां विषयोपि देवान्ग्रसत्यसौ चापरिहार्य एव ।
द्रौव्यैक्यमब्धौ च यथेंधनैक्यं भवप्रवाहेपि तथा धवादि: ॥३२॥
सम्बन्ध एषां नियतो मतश्चेत्प्राग्जन्मति त्वं वद कस्य का वा ।
सम्बंधिन: कस्य न केsद्वयत्वाज्जीवश्चिदंशोखिलगोव्ययोज: ॥३३॥
पंचात्मकेस्मिन् खलु संगतेत्र भर्त्रादिबुद्धिर्न तु तत्त्वतोस्य ।
काष्ठाग्निवत्तं तु पुमादिलिंगहीनं धवादिं प्रकृतिस्थमाहु: ॥३४॥
प्राप्त: प्रकृत्युत्थगुणानुगोसौ शरीरतादात्म्यमतोस्य वृद्धा ।
द्वंद्वप्रतीतिर्न तु सामलेजे द्वंद्वोत्थकर्माश्रयिणो भवोस्ति ॥३५॥
भवोद्भव: कर्मत एव कर्म भवोद्भवं तूभयमज्ञभावात् ।
धीरेण येनोभयमेव कृत्तं तत्त्वासिना तस्य न वै भ्रमोयं ॥३६॥
अस्यास्त्यविद्यैव घटादिवद् द्योरुपाधिरात्मत्वमुपाध्यपाये ।
मालाहिवत्कल्पित एति नाशं भ्रमोस्य सद्दर्शिततत्वदीपात् ॥३७॥
तावद्भ्रमांतौ नियतौ द्युरात्रिवज्जन्तोरतस्तत्त्वविचारवान्भवेत् ।
त्वग्रक्तमांसास्थिमयात्मशोकत: स्वार्थ: कुत: साध्वि समुद्भवेद्वद ॥३८॥
तस्माच्छुचं मुंच सति प्रसाधय स्वार्थ यथा येन भवं तरिष्यसि ।
तत्काल एषैव यदा प्रमादतो याता नृयोनिस्तु पुनर्न तत्कथा ॥३९॥
॥ साध्व्युवाच ॥
प्राप्ता धवानामयहेतुनाधुना दैवात्पथेस्मिन्दयितो मृत: पित: ।
सम्बन्धिनोप्यंतरितास्त्वमेव मे सर्वोसि मामुद्धर दु:खसागरात् ॥४०॥
॥ साधुरुवाच ॥
भर्तैव तारकं साध्व्या नोपाया बहवो नृवत् ।
शृण्वगस्त्यसतीस्तोत्रप्रसंगोक्तं वृषं सुरै: ॥४१॥
विंध्योत्कर्षभियैत्य तद्गुरुमगस्त्यं तद्वधूं निर्जरै:
साकं देवगुरुर्जगौ सतिरमासावित्र्युमारुंधती ।
इत्याद्या अपि साध्व्य उत्तमतमा तासां त्वमेवास्यहो ।
छायेवानिशमीशसेवनपरा त्वन्निघ्नमेतज्जगत् ॥४२॥
भक्त्या छायेव याश्रांतं स्वभर्तृपरिचारिणी ।
पतिरेव व्रतं यस्या अखण्डं सा पतिव्रता ॥४३॥
पादाम्बु तीर्थमुच्छिष्टं प्रसादो देवतार्चनं ।
तत्सेवा भूषणं तोषो धर्मोsनुज्ञानुपालनम् ॥४४॥
वशानुवर्तनं देहयात्रा श्वश्र्वादिगौरवं ।
लोकयात्रेश्वरो भता करणं पोष्यापोषणं ॥४५॥
कार्यं नाज्ञां विना किंचिद्दूरात्स्थेयं स्थिते प्रिये ।
सुप्तोत्थितात्प्रागुत्थाय सेव्योश्रांतं पतिर्मुदा ॥४६॥
तस्मै दत्वेष्टमाप्लुत्य ग्रुहसंमार्जनादिकं ।
दत्वेशायेष्टसंभारा देया: स्वादु च भोजनम् ॥४७॥
क्रुद्धश्चेत्प्रार्थनीयो न गंतव्यं परसद्मनि ।
नाज्ञां विना गुरोर्गेहे न व्यक्तव्यं सदेतरै: ॥४८॥
मन्दं श्वश्र्वादिसामीप्ये वक्तव्यं सन्धयेशितु: ।
इष्टं देहीति नो वाच्यं वक्तव्यं परवक्त्रत: ॥४९॥
स्वीकार्यं वस्त्रभूषादि भर्त्रा दत्तं यदृच्छया ।
न निंदो दुर्भगो दीनो दु:शीलोपि शिवोपम: ॥५०॥
न कार्यं स्वैरिणीसख्यं स्वानां पार्थक्यमप्युत ।
धार्या: सौभाग्योपचारा न भूषा: प्रोषिते प्रिये ॥५१॥
दर्शितव्यं मुखं नर्तौ श्रोतव्यं नागमादिकं ।
स्नात्वा चतुर्थेह्नि भर्ता प्रेक्ष्यो वासम्भवे रवि: ॥५२॥
प्रोषितेर्च्याज्ञया स्थेयं प्रत्युद्गंतव्यमागते ।
सव्रीडहावरत्यंघ्रिसेवद्यैस्तोषणीय इत् ॥५३॥
सुप्तेस्मिन्च्छयनं कार्यं नोच्चार्यं पतिनाम च ॥
भोक्तुं नान्यत्र गन्तव्यं याञ्चा कार्या न कुत्रचित् ॥५४॥
वैषम्येपि सुखं कल्प्यं कल्प्येशे दु:खिते न मुत् ।
त्याज्यमुच्चासनं लीला धवाद्यग्रे हसस्तथा ॥५५॥
प्रतिवादाच्छुनी भर्तुरुलूकी गुरुवर्जनात् ।
पतिं विना स्वादुभुक्त्या वराहोलूकयोनिगा ॥५६॥
मूका रोषोक्त्या व्याघ्री स्यात्कृतताडनभाषिणी ।
सपत्नीवैरत: स्त्री स्याद्दुर्भगा जारगा कृमि: ॥५७॥
पत्यौ म्रुतेनुगंतव्यं स्थेयं वा विधवावृषे ।
शवाभावे गर्भिणीत्वेsल्पेर्भे वैधव्यपालनं ॥५८॥
शिरसो वपनं कार्यं भुवि शय्या सकृद्भुजि: ।
वर्ज्यास्ताम्बूलगन्धादिसुभोगा मंगलाप्लुति: ॥५९॥
त्याज्या: सौभाग्योपचारा धार्यं गौरांशुकं सदा ।
राधमाघोर्जेषु कार्यं स्नानदानव्रतादिकम् ॥६०॥
शक्तौ चांद्रायणं कार्यं भोज्यं वाज्यफलादिकं ।
यत्प्रियं सति पत्यौ तद्देयं विप्राय भक्तित: ॥६१॥
मासव्रतं च कल्पोक्तं कार्यं यद्यत्तु वर्जितं ।
देयं विप्राय चोष्णांबु तोषणीयस्तु तैर्थिक: ॥६२॥
पुत्रे तदाज्ञया स्थेयं सम्पूज्य: पतिवद्धरि: ।
गुरुगोतिथिसद्विप्रा: पूयास्त्यांज्यं कुभोजनं ॥६३॥
हरिलीलारति: कार्याsपूत्रया पितृतर्पणं ।
गोप्यं शीलं स्वकै: साकं तद्वैगुण्यादधोगति: ॥६४॥
एतद्धर्माश्रयात्साध्वी दुर्गतिरथमपि प्रियं ।
प्रसह्योद्भृत्य चिल्लीव सर्पं स्वर्विशति ध्रुवं ॥६५॥
लोपामुद्रे त्वत्ततोसौ सतीधर्मोत्र तारक: ।
एवं जीवोक्तधर्मस्ते मयोक्त: स्वेच्छयाचर ॥६६॥
भेवार्कं पतिमन्वेहि रोचतेनुगमो यदि ।
स्वर्याति गौरवाद्येन प्रोद्भृत्येशं यमादपि ॥६७॥
प्रत्यंघ्र्यश्चक्रतुफलं कोट्यब्दं प्रतिरोमत: ।
स्वर्वास: सार्धत्रिकोटिरोमहोमात्प्रियान्वित: ॥६८॥
रूपलावण्यसम्पन्ना: स्त्रिय: सन्ति गृहे गृहे ।
ताभि: किं कार्यमेकैव साध्वी त्रिकुलपावनी ॥६९॥
क्ष्मावातोर्कोsग्निर्बिभेति स्वत्रासोस्या भवेदिति ।
तिष्ठन्ति प्रणता देवा: स्वपदच्युतिशङ्कया ॥७०॥
साध्व्या इयान्प्रभावोस्ति धन्यैषा पितृतारका ।
धिग्दु:शीलामध:शेते या चिरं त्रिकुलै: समं ॥७१॥
॥ साध्व्युवाच ॥
वैधव्यपालनं कष्टं तारुण्याद्यत्र घातकं ।
प्रीतिर्धवानुगमने नूनं मे वर्धते गुरो ॥७२॥
॥ साधुरुवाच ॥
साधु साध्वि तदिष्टं ते मा शुचो दैवमुन्नतं ।
आयुष्मद्भीष्मपौलस्त्यमुखा: कालवशं गता: ॥७३॥
कालोजय्योमरैश्चापि दुर्धर: सद्गुरुं विना ।
गुरुदर्शनकामाप्ता दूरात्तत्वं समाचार ॥७४॥
स्नात्वा पीताम्बरं धृत्वा प्रायश्चित्तपुर:सरं ।
सौभाग्यवायनान्यंग सपत्नीकद्विजेभ्य इत् ॥७५॥
दत्वा श्रुत्योर्गले चेमान्बध्वाक्षान्भस्म मस्तके ।
लिप्त्वांगं गुरुपादाद्भि: प्रोक्ष्येशमनुयाह्ययि ॥७६॥
इत्युक्त्वां भस्म रुद्राक्षन्दत्वागात्सोपि सा द्विजान् ।
आहूयादात्सुसौभाग्यदानानि बहुशो मुदा ॥७७॥
प्राहानुगान्यात गृहमुमेशौ पितरौ मम ।
यास्ये तत्रात्र हर्षात्स्वरिति वाच्यं गुरून्प्रति ॥७८॥
इत्युक्त्वा नीयमानस्य पत्युरग्निकराग्रत: ।
गच्छंती मन्थरोमेव रेजे मुद्रूपिणी सती ॥७९॥
भर्तृसौख्यानभिज्ञेयं शोडशाब्दातिसुन्दरी ।
कुलोद्धर्त्री सुधन्येति स्तूयमाना जनिंर्ययौ ॥८०॥
श्मशानमेत्य संस्कृत्य कुंडेग्निं वायनदिभि: ।
सुवासिनीस्तोषयित्वा सस्मार गुरुभाषिंत ॥८१॥
लिप्त्वांगे भस्म बद्ध्वान्पत्युर्विप्राज्ञया गुरुं ।
द्रष्टुकामा ययौ साध्वी संगमं तं स्तुवंत्यजम् ॥८२॥
दाता सर्वेश्वरस्त्वं शरणमपि सतां त्र्यात्मको विश्वसर्ग -
स्थित्यंतानां निदानं ततबिरुदचय: श्रीहरिस्त्वं दयाब्धि: ।
मत्तुल्यास्त्वत्कृपाम्शात्सुपतिसुतसुखा: संति नार्योज यास्ये
स्वर्भूत्वा पूर्णकामा पतिसुतमुदिता कीर्तिमादाय तेद्य ॥८३॥
मृतो जीवितो रुग्ण आरोग्यमाप्तो
गत: शर्म भीतोपि दीनोर्थयुक्त: ।
गत: प्राज्ञतामज्ञ ईश प्रभावात्
तवाहं धवाढ्यद्य सायुज्यमेष्ये ॥८४॥
एवं स्तुवंती पथि सांजनाश्रुलीढस्तनस्वर्णघटा हठात्स्वां ।
उद्धर्तुकामापि समं धवेन जवेन सागत्य हरिं ननाम् ॥८५॥
आयांतीं प्रणतां देवस्त्वं सौभाग्यवती भव ।
अष्टपुत्रा पुनश्चेति भगवान्प्रीत आह तां ॥८६॥
तच्छ्रुत्वा चकिता लोका: शशंसु: सर्वमादित: ।
प्रभु: प्राह न मे वाक्यं मोघं शवमिहानय ॥८७॥
अत्रांतरे द्विजा एत्य रौद्यानर्चुर्गुरुं तदा ।
आनीतं शवमुद्वीक्ष्य सुधादृष्टया स्वसन्निधौ ॥८८॥
स्थापयित्वा स तं रौद्रमन्त्रिताद्भिस्तनुं समां ।
स्नापयामास सोकस्मात्सुप्तोत्थितवदुत्थित: ॥८९॥
तदा हर्षाश्रुपूर्णाक्षी लज्जितं विस्मितं पतिं ।
प्रेम्णा शशंस तत्सर्वमूचतु: प्रांजली उभौ ॥९०॥
आवां स्वो दुर्धियौ पापौ भवत्स्मृतिपराड्मुखौ ।
तथापि त्वं दयासिंधो सच्चिदानन्द हंसि नो ॥९१॥
जगद्गुरो विश्वमूर्ते परात्मन्त्राहि विश्वप ।
विश्वसाक्षिन्विश्वसंस्थ सर्वानंदनिधे हरे ॥९२॥
कर्ताकर्तान्यथकर्ता त्वमेवासि पुमर्थद: ।
आवाभ्यामपराद्धं तत्क्षामये त्वाद्य कार्त्स्न्यत: ॥९३॥
एवं तौ बहुशो नत्वा प्रणतीश्चक्रतुर्मुदा ।
तच्चित्रं प्रेक्ष्य लोकोपि तुष्टाव परमेश्वरं ॥९४॥
तत्रैको धूर्त आहेशं केस्ति ब्रह्मलिपिर्न वा ।
नाल्पो मृत्युर्महानेष सास्ति चेज्जीवित: कुत: ॥९५॥
॥ श्रीगुरुरुवाच ॥
धात्रात्र लिखितं त्रिंशदायुरेष्यभवे शतं ।
याञ्चयैष्य शतं त्वत्र गृहीत्वा व्यस्तमाचरम् ॥९६॥
तच्छ्रुत्वा मिलिता लोका उच्चैश्चक्रुर्जयध्वनिं ।
स्वर्वोसिश्रोत्रविवरविश्रांतिमधमर्षणं ॥९७॥
दम्पती प्राह भगवानयुष्मन्तौ निरामयौ ।
सुपुत्रधनकीर्त्याढ्यौ लोकवन्द्यौ भविष्यत: ॥९८॥
श्रुत्वा गुरोर्गां प्रमुदान्वितावुभौ स्नात्वा गुरोश्चक्रतुरर्चनं तदा ।
अस्तं गतोर्कोप्यज आह्निकीं क्रियां कृत्वा मठं सर्वजनै: सहाययौ ॥
इति श्रीगुरुचरिते कर्मयोगे म्रुतसंजीवनं नाम तृतीयोsध्याय: ॥३॥ आदित: षोडशोsध्याय: ॥१६॥

N/A

References : N/A
Last Updated : December 16, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP