अथ सप्तमोsध्याय:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी गुरूचरित्राची रचना केली आहे, ती अप्रतिम आहे.


॥ नामधारक उवाच ॥
साधूनुद्धर्तुकामोथ कुतो लीलाविहार्यभूत् ।
अदृश्यो भगवांस्तत्तु श्रोतुमिच्छामि सादरं ॥१॥
॥ सिद्ध उवाच ॥
अतींद्रियोपि दृश्योत्र भूत्वा लीलात्मना पुन: ।
अवतारप्रसंगेन जातोsदृश्य इदं श्रृणु ॥२॥
तत्राभूच्छांदस: कश्चिदंबिका नाम तद्वधू: ।
कुपुत्रं सुषुवे दैवात्स्तब्धं हीनमतिं जडं ॥३॥
वर्णधर्मोपनीतं तं सावित्र्युचारणाक्षमं ।
ताडयंतं निवार्याह स्वपति वैदिकं वधू: ॥४॥
भो जदोर्भोश्मवद्योनेरेवालं खेदहेतुना ।
ताडनेन त्यजाम्यस्मिंस्ताडितेसून्सुधीरिति ॥५॥
सोप्यजाकंठकुचवत्तं मत्वाश्रुत्य तद्वच: ।
तूष्णीं तस्थौ ततो विप्र: कालेनाल्पीयसा मृत: ॥६॥
तंत्र पुत्रान्विता माता जीवनं याच्ञयाकरोत् ।
काले याते कियत्येवं निंदां चक्रुर्द्विजोत्तमा: ॥७॥
सूर्यंर्च्यजैषा वृत्तिस्ते गर्ह्यास्माकं न रोचते ।
इतो व्रज त्यजासून्वा तैरित्युक्तो नदीं ययौ ॥८॥
कृष्णाविष्टं समं मात्रा मर्तुकामं विलोक्य तौ ।
निषिध्योचेनुकंपार्द्र: श्रीपादस्तीरवास्यसौ ॥९॥
साहसं मा कुरु ब्रह्मन्नात्महत्या हि दुर्वहा ।
भवे भवेप्यतोत्रैव संप्राप्तसहनं वरम् ॥१०॥
॥ ब्राह्मण्युवाच ॥
प्राज्ञोद्भूतकुपुत्रत्वहेतुनैवाखिला हि मां ।
धिक्कुर्वंत्यपि नेक्षंति तत्किं कार्यमत: परं ॥११॥
॥ श्रीपाद उवाच ॥
हत्यया लिप्यसेग्रेतो दु:खं निस्तीर्य दैविकं ।
शिवतोषात्सुपुत्रस्ते भविष्यति भवांतरे ॥१२॥
॥ ब्राह्मण्युवाच ॥
त्वयोक्तं साध्वहं कुर्यां तथैव तु कथं भवेत् ।
शिवतोष: पुरा केन कृत: श्रावय विस्तरात् ॥१३॥
॥ श्रीपाद उवाच ॥
उज्जयिन्यां पुरा चंद्रसेनराजसखोलभत् ।
मणिभद्र: शिवाच्छैवश्चिंतामणिमभीष्टदं ॥१४॥
तं ज्ञात्वार्घदिनाsलभ्यं युद्धायाभ्यागतान्नृपान् ।
श्रुत्वाप्येकाग्रचित्तोsसौ प्रदोषेपूजयच्छिवं ॥१५॥
मंदानंगप्रदोषे तं मणिं भूपं तथाविधं ।
दृष्ट्वा गोपसुतास्तद्वत्स्वांगणे चक्रुरर्चनं ॥१६॥
गोप्यो निर्वाय पत्राद्यैर्लिंगकल्पनयोपलं ।
भजतो निन्युरत्तुं तांस्तस्थौ तत्रैकबालक: ॥१७॥
प्रसद्याप्युद्भृतोर्चां स मात्रोद्वास्यापतद्भुवि ।
शंभुपूजाभंगभिया निर्विण्णो मर्तुमुद्यत: ॥१८॥
तद्भावं विश्वसाक्षीशो ज्ञात्वाविष्कृत्य शोभनम् ।
स्वं रूपं बालमाश्वास्य वरं वृण्विति तं जगौ ॥१९॥
बालोपि दिव्यरूपं तं नत्वोचे भुवनेश्वर ।
मात्रोत्सृष्टात्र ते पूजा तन्मंतुं क्षंतुमर्हसि ॥२०॥
॥ शिव उवाच ॥
भक्त्या सायुज्यभाङ् मेसि कृतं मात्रा त्वबोधत: ।
नायं मंतु: सापि भूयाद्विष्णुमातार्चनेक्षणात् ॥२१॥
इत्युक्त्वांतर्दधे सोभूद्भास्वल्लिंगं य आगता: ।
त ऊचु: पुण्यश्लोकार्थं दोषाप्यर्कोत्र तिष्ठिति ॥२२॥
धन्येन सह योद्धव्यं नास्माभिरिति ते नृपा: ।
निश्चित्य स्निग्धभावेन तौ द्रष्टुं सर्व आययु: ॥२३॥
पूजां कृत्वापि राट्‍ द्योतहेतुं निश्चित्य तै: सह ।
नृपैर्गोपांगणं गत्वा प्राप लिंगेक्षणान्मुदं ॥२४॥
श्रुत्वा गोपमुखात्सर्वं तुष्टास्तस्मै नृपा: श्रियं ।
दत्वा गोपाधिपत्यं च स्वं स्वं स्थानं ययुर्मुदा ॥२५॥
सा तु प्रेत्य यशोदाख्या गोपी भूत्वा हरिं सुतं ।
प्रापेशतोषात्तस्मात्ते तथा भूयाच्छिवार्चनात् ॥२६॥
॥ ब्राह्मण्युवाच ॥
कष्टाद्दैवाच्छिवे तुष्टे फलं भाव्यधुनामुना ।
कष्टेनायु: कथं लंघ्यं मातृत्वेनाव मामत: ॥२७॥
इत्यशाठ्यं सकारुण्यं श्रुत्वा प्रीतो दयार्द्रधी: ।
ओमित्युक्त्वा दधौ पाणि दुष्प्रापं मूर्खमूर्धनि ॥२८॥
सहसा गीष्पतिसमो बभूव श्रुतिशास्त्रवित् ।
मातृभक्तौ विनीतं तं नियुज्याहांब मे श्रृणु ॥२९॥
विस्मृत्याकमनेनेशपूजयायु:क्षयं कुरु ।
पुत्रो भाविभवे मादृक्ते भविष्यति वा इति ॥३०॥
साप्यत्यर्थं प्रहृष्टा तदाज्ञया सह सूनुना ।
ग्रामं गत्वेशमानर्च विद्वन्मान्यसुतान्विता ॥३१॥
मादृङ् नान्यो भवेयं चेन्नास्या: पुत्रो मृषा वच: ।
अतोवतीर्य तत्कुर्यामित्यमंस्ताज ईश्वर: ॥३२॥
कृतावतारसंकल्प: कार्यानंत्यान्नं सोत्यजत् ।
लीलांगं तत्र भजतामदृश्योप्यस्ति कामद: ॥३३॥
॥ नामधारक उवाच ॥
संकल्पवान्कथं कार्येsपूर्णेप्यन्योभवत्कथं ।
स्थित्वाद्यधाम्नादृश्योपि भजतां कामद: कथं ॥३४॥
॥ सिद्ध उवाच ॥
कार्यानंत्याद्विश्वबीजे संकल्पानंत्यमव्यये ।
नृणां कलिमलांधानां स प्रत्यक्षोप्यदृश्यवत् ॥३५॥
प्राग्वृत्तं श्रृण्वदृष्टेस्मिन्द्विज: कश्चित्कुटुंब्यभूत् ।
धीमांद्यात्स वणिग्वृत्ति: श्रीपादांघ्र्यार्पितांतर: ॥३६॥
व्यापारे मेधिलाभश्चेद्भूयात्तदनुसारत: ।
कुर्यां कुरुपुरे विप्रभोजनं श्रीशतुष्टये ॥३७॥
इत्युक्त्वाsगात्स्मरन्छ्रीशं व्यापारार्थं ततो धनं ।
लेभे भूरि तदादाय ययौ संकल्पसिद्धये ॥३८॥
मार्ग एकाकिनं यांतं तं सार्थं प्रेक्ष्य तस्करा: ।
सुहृत्तया तदनुगा भूत्वा तं विजनेहनन् ॥३९॥
तदैव सहसा तत्र श्रीपाद: शूलपात्रधृक् ।
प्राप्य ताञ्छितधारेण त्रिशूलेन जघान स: ॥४०॥
एकस्तमेत्य शरणं प्रोचे चोरधिया तु नो ।
संगीभूतोस्मि मां ज्ञात्वा यथेष्टं कुरु भो प्रभो ॥४१॥
श्रीपादोपि सकारुण्यां श्रुत्वोक्तिं विमलांतरं ।
ज्ञात्वा तं योजयामास तद्रक्षायै कृपार्द्रधी: ॥४२॥
कबंधे तच्छिर: कृत्वा भस्माक्तं जलमंत्रितम् ।
सजीवं तं द्विजं कृत्वा क्षणादन्तर्दधे स तु ॥४३॥
स सुप्तोत्थितवद्बुत्ध्वा दृष्ट्वा चोरगोचर: ।
सर्वदाराधितो दैवान्नायं मे दृष्टिगोचर: ॥४५॥
इत्युक्त्वा धनमादाय गत्वा कुरुपुरं द्विज: ।
चतु:सहस्रसद्विप्रभोजनं श्रद्धया व्यधात् ॥४६॥
तत: श्रीशप्रसादात्स सिद्धिं प्रापोभयीं द्विज: ।
इत्याद्या भूरिशो वृत्ता: सत्यदृश्येपि तत्कथा: ॥४७॥
प्रत्यक्षस्तु सतां तत्र कच्चराणां त्वगोचर: ।
सोप्यन्यत्रावतीर्यात्र स्वरूपेणेष्टकामद: ॥४८॥
वेदयज्ञतपोदानप्रदिष्टफलतोधिकं ।
श्रीपादाधिष्थितस्थानवासिनां द्राक्फलं लभेत् ॥४९॥
यत्र कुत्रापि ये केचिच्छ्रीपादांध्रिसरोरुहे ।
संस्मरंत्यपि तेभ्य: स कामानिष्टान्ददात्यलं ॥५०॥
इ० श्रीपादमहिमवर्णनं नाम सप्तमोध्याय: ॥७॥

N/A

References : N/A
Last Updated : December 16, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP