सप्तमाष्टक - पञ्चमोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


हरि ॐ ॥ पुरोपर्जितपुण्येन माघस्नानोद्भवेन विट् ॥
त्वं तु वैष्णवसङ्गेन पूतो वैकुण्ठ्भागसि ॥१॥
दुराचारोsकुलीनोsपि पापरूपोsपि यो भजेत् ॥
वैष्णवं नैव स प्रेक्ष्य इत्यूचे किंकरान्यम: ॥२॥
तस्मात्पापा अपि नरा ये तु वैष्णवसंगता: ॥
यमलोकं न ते यान्ति तेषां विष्णुपुरं ध्रुवम् ॥३॥
पावनी वैष्णवी भक्तिस्तथा वैष्णवसंगति: ॥
संभवन्त्यपि पापिष्ठा: साधवोsत्र द्रुतं यया ॥४॥
नेहान्य: सुलभोपाय: संतर्तुं नरकाम्बुधिम् ॥
विष्णुभक्तिं विन तस्मात्स्वीकार्या सा प्रयत्नत: ॥५॥
भक्त्या शुध्द्यति वैष्णव्या श्वादोsपि किमत: परम् ॥
त्रिलोकीं बाह्यवर्णोsपि पुनाति खलु वैष्णव: ॥६॥
यत्कुले वैष्णवो भक्तस्तत्कुलं नैति दुर्गतिम् ॥
संगत्या विष्णुभक्तस्य पापोsप्यूर्ध्वगतिं लभेत् ॥७॥
वैष्णवानां च ये दासा वैष्णवान्नभुजोsथ वा ॥
ते यान्ति वैष्णवं धाम दुराचाररता अपि ॥८॥
आकङ्क्षेद्वैष्णवादन्नं तदभावे जलं पिबेत् ॥
संगतिं तदभावेsपि य: कुर्यात्स विमुक्तिभाक् ॥९॥
येन केन प्रकारेण वदेन्नारायणेति य: ॥
म्रियमानोsपि पापी स विष्णुलोके महीयते ॥१०॥
नार्थवादोsयमत्रैव प्रमाणं भगवान्स्वयम् ॥
अजामिलगजग्राहमुखा अत्र निदर्शनम् ॥११॥
तस्माद्भक्तो विनीतात्मा यो विष्णुं संस्मरेत्सदा ॥
जन्मसंसारबन्धात्स मुच्यते नात्र संशय: ॥१२॥
अष्टार्णं द्वादशार्णं वा विधिना वापि भक्तित: ॥
जयन्ति वैष्णवं मन्त्रं ये ते विष्णुमया: स्मृता: ॥१३॥
स्वमतेsत्याग्रहस्त्याज्यो निन्द्यं नान्यमतं च यत् ॥
सद्गुरूक्तं परं तत्त्वं श्रद्धाभक्त्याsभ्यसेत्सुधी: ॥१४॥
ये सेवन्ते सदा विष्णुं ते सायुज्यादिभागिन: ॥
निदिध्यासनतो विष्णो: सायुज्यं सुधियामिह ॥१५॥
हृदि सूर्ये जले वह्नौ यन्त्रेsर्चायामथापि वा ॥
येsभ्यर्चन्ति हरिं भक्त्या तेषां विष्णुपदं ध्रुवम् ॥१६॥
शालग्रामशिलाचक्रे वज्रकीटविनिर्मिते ॥
तिष्येsपि विष्ण्वधिष्ठाने सर्वपापप्रणाशने ॥१७॥
सर्वपुण्यप्रदे नित्यं विष्णुसान्निध्यकारणे ॥
सकामोsप्यनिशं योsर्चेद्विष्णुं सोsत्रैव मोक्षभाक् ॥१८॥
पशुसोमसहस्रेण पुनरावृत्तिदेन च ॥
शालग्रामर्चनस्येह मोक्षदस्य कथं तुला ॥१९॥
ज्योतिर्लिंङ्गार्चनाधिक्यफलादस्याश्च पूजनात् ॥
गर्भवासो न भक्तस्य कुतो वार्तास्य दुर्गते: ॥२०॥
वेदयज्ञतपोदानतीर्थस्नानाधिपुण्यदम् ॥
शालग्रामं सूपचारर्योsर्चेत्स हरिलोकभाक् ॥२१॥
यत्र संनिहितो विष्णुस्तत्र लोकाश्चतुर्दश ॥
गङ्गादिसर्वतीर्थानि सर्वे देवाश्च तत्र हि ॥२२॥
शालग्रामस्य पुरत: श्राद्धं कुर्वन्ति ये नरा: ॥
तृप्यन्ति पितरस्तेषां श्रीविष्णो: समनुग्रहात् ॥२३॥
समशालग्रामतोयं चक्राङ्कमिथुनाम्बुयुक् ॥
गव्याधिकं पिबेन्मूर्ध्ना वहेन्मुक्त: स पातकात् ॥२४॥
संपूज्य विधिना दद्याच्छिलां पात्राय भक्तित: ॥
तेन दत्ताsखिला पृथ्वी वैकुण्ठे स चिरं वसेत् ॥२५॥
शालग्रामशिलाsमूल्या क्रयविक्रयतोsस्य च ॥
बहुदोषोsस्त्य: पूज्या गुरुलब्धा शिलामsला ॥२६॥
भूत्वा भागवतो विष्णुं संपूज्यापि हरेर्दिने ॥
यो भुनक्ति दुरात्मा स पूयास्राशी भविष्यति ॥२७॥
तस्मात्कार्यं प्रयत्नेन नित्यमेकादशीव्रतम् ॥
प्रसङ्गेनापि यत्कृत्वा दुर्गतिं नैव पश्यति ॥२८॥
नेदृशं पावनं पुण्यं नेदृशंपरमं तप: ॥
नेदृक् पूर्तेष्टदत्तादि तारकैकादशी तत: ॥२९॥
व्रतं संकल्प्य पूर्वेद्युरेकभक्तो हरेर्दिने ॥
स्नात्वा वशी समभ्यर्च्य भक्त्या श्रीविष्णुमद्वयम् ॥३०॥
नियतोsनशनो रात्रौ षड्विंशगुणजागरम् ॥
सततं कीर्तयन्विष्णुं य: कुर्यात्सोsत्र मुच्यते ॥३१॥
दशम्यामेकभक्तो य एकादश्यामुपोषित: ॥
द्वादश्यां पारणं कुर्यात्प्रीतिपात्रं हरे: स च ॥३२॥
अशक्तोsपि स नक्ताशी हविष्याशी च वा चरेत् ॥
एकादश्या व्रतं भक्त्या पक्षयोरुभयोरपि ॥३३॥
एकादशीव्रतपरो यो व्रात्यै: सह भाषते ॥
नीचैश्च वृषलैर्म्लेच्छैस्तत्पुण्यं नश्यति क्षणात् ॥३४॥
तस्मान्मौनी व्रती भूत्वा विष्णुकीर्तनपूर्वकम् ॥
कुर्याद्व्रतं य एतत्स विष्णुलोके महीयते ॥३५॥
एकादशेन्द्रियै: पापं यत्क्रुतं मनुजैरिह ॥
बालो वृद्धोsतिवृद्धोsपि स्त्री वर्णाश्रमिणोsखिला: ॥
व्रताधिकारिणो ज्ञेया एकदश्या: सदैव हि ॥३७॥
एकादशी सकामानामैहिकामुष्मिकार्थदा ॥
कैवल्यदाप्यकामानामतोsसावुभयात्मिका ॥३८॥
पूर्वापरकुलोद्धर्त्री सर्वपापापहारिणी ॥
तारिणी दुर्गसंसारात्कामदाsमूं न को भजेत् ॥३९॥
तावद्गर्जन्ति पाप्मानो यावन्नाचरितं व्रतम् ॥
दीप्ते व्रताग्नौ नृदेहे क्क स्थास्यन्त्यघपक्षिण: ॥४०॥
पुनाति धूर्तमप्येतद्व्याजेनापि कृतं व्रतम् ॥
भक्त्या चेद्विधिवच्चीर्णं किं पुनस्तारकं नहि ॥४१॥
स्नातानि सर्वतीर्थानि सर्वे तेनार्चिता: सुरा: ॥
सर्वव्रतानि चीर्णानि येनैकदश्युपोषिता ॥४२॥
तस्मात्सर्वप्रयत्नेन चरेदेकादशीव्रतम् ॥
धर्म: सनातन: सोsयं सर्वथा विष्णुचिन्तनम् ॥४३॥
इति सप्तमाष्टके पञ्चमोsध्याय: ॥५॥
॥ इति वैष्णवधर्माणामेकादश्यादिव्रतानां च नियमकथनं नाम सप्तमा० पञ्च० ॥७।५॥

N/A

References : N/A
Last Updated : May 07, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP