पंचमाष्टक - प्रथमोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


हरि: ॐ ॥ स्तुषे नराकृतिमपि श्रीगुरुं तन्निराकृतिम् ॥
साकारमपि यो भक्तं निराकारं करोत्युत ॥१॥
सोमवंश्यो महावीर्य: पुरासीच्छत्रुजिद्दयुमान् ॥
ऋतध्वजाख्यस्तत्पुत्र: सर्वविद्यादिशारद: ॥२॥
गालवोsभ्येत्य तं प्राह दैत्येनोपद्रुतोsभवम् ॥
तदैवाश्वोsपतद्दिव्यो व्योम्नो वाक् चाशरीरिणी ॥३॥
आरुह्यर्तुध्वजोsमुं ते दु:खहर्तेत्यतो नृप ॥
पुत्रं देह्यरिनाशाय तप्स्यामीतस्तप: सुखात् ॥४॥
तथेत्यदात्सुतं राजा हृष्टस्तस्मै स गालव: ॥
दत्त्वाश्चं स्वाश्रमं प्राप सह तेन बलीयसा ॥५॥
तत्रैकदागतो दैत्य: क्रोडरूप ऋतध्वज: ॥
दैत्यं ज्ञात्वा रुरोहाश्वं धृतास्र: सर्वतोगतिम् ॥६॥
जघानार्घेन्दुबाणेन विद्धो दुद्राव सोsसुर: ॥
राजा तमन्वगाद्भीत्या दैत्य: पातालमाविशत् ॥७॥
तमन्वेत्य ददर्शाधो दिव्ये धाम्न्येकलाम स्त्रियम् ॥
राजापि सा तमालोक्य शिरोधामाञ्जसारुहत् ॥८॥
सोsप्यन्वेत्य वधूं तन्वीं प्रेक्ष्य मञ्चस्थितां शुभाम् ॥
तारुण्यदारितोरस्कामभवत्कामविह्वल: ॥९॥
पापत मूर्च्छिता सापि नृदेवं वीक्ष्य सुन्दरम् ॥
सामुञ्चत्तिग्मनि:श्वासान्सख्याश्वस्ता नृपेण च ॥१०॥
तत्संज्ञया सखी प्राह विस्मितं तं नृपं त्वमित् ॥
मोहहेतुर्दर्शनात्ते स्मरक्षोभाद्धि मूर्च्छिता ॥११॥
मदालसाभिधा विश्वावसुगन्धर्वपुत्र्यसौ ॥
पातालकेतुदैत्येन बलान्मायाविना हृता ॥१२॥
सोsमूमेष्यत्त्रयोदश्यां हठादुद्वाहयिष्यति ॥
नार्हो वर: स चार्वङ्ग्या: श्रुत्या: शूद्र इवाधम: ॥१३॥
गतेsह्नि कामधुगिमामात्मनाशोद्यतां जगौ ॥
मैव कुरु नरो दैत्यं श्वो भेत्स्यति स ते पति: ॥१४॥
तथैवाद्यासुरो विद्ध: केनापि स दरीं गत: ॥
अन्वागतो भवान्मन्येदेवस्तद्वेधरुक् त्वमित् ॥१५॥
कुण्डलाख्या सखी त्वस्या अहमस्म्यखिलं मया ॥
निवेदितं दयस्वाद्य सख्या: शोकमपाकुरु ॥१६॥
राजोवाच न देवोsहं सोमवंश्य ऋतध्वज: ॥
विद्धं हन्तुमिह प्राप्तो गालवर्ष्याज्ञयाsसुरम् ॥१७॥
परिणेया वधू राज्ञा द्विजदेवाग्निसंनिधौ ॥
तस्मादुद्वाहनादेस्या दोषो मेsद्य भवेन्न किम् ॥१८॥
कुण्डलोचे कुलगुरुं ध्यानेनैवानयाम्यहम् ॥
इत्युक्त्वा सा गुरुं दध्यौ सोsप्याप ससमित्कुश: ॥१९॥
ज्ञात्वा सर्वं योजकाग्निं प्रज्वाल्य स यथाविधि ॥
कृत्वा विवाहसंस्कारं जगाम तपसे पुन: ॥२०॥
कुण्डलाप्याशिषो दत्वा तपसेsगात्स सूर्यया ॥
आरुह्याश्वं ययौ राजा योद्धुमाप तदासुर: ॥२१॥
ससैन्यं तं क्षणाद्धत्वा विज्ञाप्य मुनये नृप: ॥
राष्ट्रमेत्य सभार्यस्तत्सर्वं पित्रे शशंस स: ॥२२॥
स प्रेक्ष्य जयिनं पुत्रं स्नुषां च स्वर्वधूपमाम् ॥
नाम्ना कुवलयाश्वेति प्रतिष्ठामकरोन्मुदा ॥२३॥
मदालसानिशं भेजे तं पतिं पतिदेवता ॥
प्रेमान्योन्याश्रयं चासीत्तयोश्चक्राङ्गवत्सदा ॥२४॥
ऋतध्वज: कदाचित्तु मृगयार्थं गतो वनम् ॥
भ्राताह तस्य दैत्यस्य तालकेतुर्ददर्श तम् ॥२५॥
मायया वञ्चयाम्येनमग्रजानृण्यहेतवे ॥
इत्युक्त्वा स मुनिर्भूत्वा माययाsकल्पयद्वनम् ॥२६॥
मत्वा तपोवनं राजा दैवात्तत्रैत्य तं खलम् ।
ननामाज्ञाततन्मायो मत्वा शान्तं मुनिं तदा ॥२७॥
स प्राह स्वस्ति ते राजन्नारब्धोsयं मया क्रतु: ॥
दक्षिणार्थं धनं नास्ति कण्ठभूषां प्रदेहि मे ॥२८॥
तथेत्युवत्वाप्यदाद्राजा कण्ठभूषां प्रगृह्य स: ॥
नृपं प्राह क्षणं तिष्ठ नत्वेशं जलपं क्षणात् ॥२९॥
आगत्य पश्चाद्वरदो भविष्ये ते तथेति स: ॥
उक्त्वा तस्थौ नृपो दैत्यो मुनिवेषी पुरं ययौ ॥३०॥
पितुर्मदालसायाश्च हाहाकृत्वाग्रतोsवदत् ॥
ऋतध्वजो हतो दैत्यैर्म्रियमाणॊ ददाविदम् ॥३१॥
वनस्थैरग्निसंयोग: कृत आश्वासनं त्विमाम् ॥
कण्ठभूषां गृहाणेति त्यक्त्वागात्स्वाश्रमं द्रुतम् ॥३२॥
स नृपं प्रणयात्प्राह कृतार्थोsहं त्वया कृत: ॥
इत्युक्तस्तं नमस्कृत्य स राजागाद्वनान्तरम् ॥३३॥
राष्ट्रे महाननर्थोsभूत्कोरस्ताडानपूर्वकम् ॥
विललाप नृप: पुत्रशोकेन महतावृत: ॥३४॥
विदुषी सापि सुचिरं रुदित्वाथ मदालसा ॥
आश्वास्य श्वशुरौ धैर्याद्विवेशाग्निं यथाविधि ॥३५॥
शोकमग्ना: प्रजा: सर्वा हाहाकरो महानभूत् ॥
स्नात्वान्यैर्बोधितो राजा जलं प्रादाद्यथाविधि ॥३६॥
अत्रान्तरे वनादेत्य सोsश्वारूढ ऋतध्वज: ॥
खिन्नान्दृष्ट्वाखिलान्सर्वं श्रुत्वाभूद्दु:खितो भृशम् ॥३७॥
चिरं विमृश्य संकल्पं प्रियानृण्याय सोsकरोत् ॥
इह जन्मनि चार्वङ्गीं न भोक्ष्ये तां विनेतराम् ॥३८॥
संकल्प्यैवं जहौ भोगं दैवादश्व्तराहिजौ ॥
विप्ररूपौ भुवं प्राप्तौ तयो: सख्यं नृपोsकरोत् ॥३९॥
बुद्धिविक्रमलावण्यैर्गुरुशक्रस्मरोपमम् ॥
दृष्ट्वैत्य प्रत्यहं नागौ तेन चिक्रीडतुर्मुदा ॥४०॥
न रेमे तौ विना भूपस्तौ विज्ञायौकदाsस्य तु ॥
पत्नीवियोगजं दु:खं नागौ खिन्नौ बभूवतु: ॥४१॥
तप्तिता म्लानवक्त्रौ तावपृच्छत्खेदकारणम् ॥
ऊचतुस्तौ तु तातावां मित्रदु:खेन दु:खीतौ ॥४२॥
ऋतध्वज: सोमवंश्यस्तत्सख्यं भुवि नावभूत् ॥
तत्कार्यं दुर्धरं मत्वा प्राप्तं खिन्नत्वमावयो: ॥४३॥
पितोवाचोपकर्तव्यमवश्यं सखिभि: खलु ॥
किं वा कार्यं महत्सख्युर्ब्रूतं तत्र यताम्यहम् ॥४४॥
तावूचतुस्तं गन्धर्वपुत्री नाम्ना मदालसा ॥
दैत्येन वञ्चिता तत्स्त्री मृता श्रुत्वा मृतं पतिम् ॥४५॥
नान्यां भोक्ष्ये स्त्रियमिति प्रतिज्ञामकरोत्स तु ॥
तन्मित्रस्य महाकार्यं पितस्तत्केन साध्यते ॥४६॥
सर्वेन्द्रियनिधानात्मा भुक्तभोग: प्रशाम्यति ॥
तद्वासनाग्निना दग्धो नश्यत्येवावशोsन्यथा ॥४७॥
पिताह यत्न: कर्तव्य: पुंसातर्क्यो विधिर्यत: ॥
तत्कार्यार्थे यतिष्येsहं तपसा खलु पुत्रक ॥४८॥
इत्युक्त्वाश्वतरो नागस्तपसेsगात्सकम्बल: ॥
हिमाद्रौ प्लक्षावरणतीर्थे सर्वसुसिद्धिदे ॥४९॥
जिताहार: सुसंयम्य प्राणायामैर्मनो धिया ॥
समाहितोsर्चयद्देवीं ब्रह्मयोनिं सरस्वतीम् ॥५०॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रि० संहितायां वासुदेव्यां उपासनाकाण्डे पञ्चमाष्टके प्रथमोsध्याय: समप्त: ॥१॥
॥ इति गालवार्थदानवहननं कुवलयाश्वेन मदालसावरणं नाम पञ्च० प्रथ० ॥५।१॥

N/A

References : N/A
Last Updated : May 07, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP