तृतीयाष्टक - षष्ठोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


हरि: ॐ ॥
एवं त्वान्यद्ब्रुवे कश्चिद्वेदशर्मा द्विजोsभवत् ॥
सुशीलस्तत्सुतो दैवात्सप्तब्रह्मग्रहैर्वृत: ॥१॥
दुर्धरान्दुरभिप्रायान्परस्परजयैषिण: ॥
सूपायैर्न शशाकैतान्समुद्धर्तुं शुशोच स: ॥२॥
ग्रहाविष्टोsरुदन्मुह्यन्नृत्यन्धावन्हसन्रुषा ॥
नानाचेष्टा व्यधादेवं स्वार्थाद्भ्रष्ट: स दैवत: ॥३॥
कदाचिद्वैश्वदेवान्ते तद्गृहे धूलिधूसर: ॥
भिक्षुको भस्मलिप्ताङ्गो मलिनो मक्षिकावृत: ॥४॥
दुर्गन्ध: प्राप तेजस्वी तस्मै भिक्षा ददौ द्विज: ॥
छन्नात्मा कोयमित्युक्त्वा पृष्ठलग्नोsभवद्द्विज: ॥५॥
भिक्षुस्तं ताडितमपि काष्ठलोष्ठेष्टिकोपलै: ॥
पश्चाद्धावन्तमूचे किं कार्यं प्राप्तेन ते मया ॥६॥
इत्युक्तो दु:खित: पुत्रमुक्त्यै तं प्रार्थयद्द्विज: ॥
प्रादुर्भूयात्मना दत्तो दत्त्वा सप्त मनूञ्जगौ ॥७॥
एकैकेनैषामेकैकं क्रमाद्ग्रहमपाकुरु ॥
यथा ज्ञानावृती: शास्त्रै: क्रमादुन्मूलयन्त्यमू: ।८॥
न ह्यन्योन्यविरुद्धास्ते जय्या एकेन दुर्गहा: ॥
तथैभिस्ताञ्जहीत्युक्त्वा देवोsदृश्योsभवत्क्षणात् ॥९॥
ततस्तुष्ट: स धामैत्य यथा दत्तोदितं व्यधात् ॥
एकैकमन्त्रेणैकैकमेकैकेन दिनेन स: ॥१०॥
मन्त्रशास्त्रविधानेन क्रमाद्ग्रहमपाकरोत् ॥
शोकाद्येकैकवारेण नष्टमेकैकनिर्गमे ॥११॥
पूर्ववत्सोsष्टह्नयासीत्ततोsभ्यासाद्ययौ गतिम् ॥
शास्त्रं क्षुद्रमपीदं तु मोक्षोपकृतये न किम् ॥१२॥
मातापुरे विष्णुदत्तशर्मा पत्न्या सुशीलया ॥
न्यवसद्गृहिधर्मेण दत्तभक्तो महामति: ॥१३॥
तद्द्वार्यश्वत्थवृक्षेsभूद्ब्रह्मरक्षो दिने दिने ॥
विप्रत्यक्तं भूतबलिं बुभुजेsपीडयन्न तौ ॥१४॥
तेनान्ये पीडिता लोका: शान्तो विप्रान्नसेवनात् ॥
कदाचिद्वैश्वदेवान्ते प्रादुरास स्वरूपत: ॥१५॥
दृष्ट्वात्मानं करालं स भीतं ज्ञात्वाssह मञ्जुवाक् ॥
विप्र मा भीर्वृणीष्वेष्टं राक्षसोsहं त्वदन्नभुक् ॥१६॥
स्वपत्न्यभिमतेनाह श्रीदत्तं दर्शयापरम् ॥
न काङ्क्षेsत्र परत्रापीत्युक्त: प्राह स राक्षस: ॥१७॥
तदाख्यापि न मे श्राव्या तथापि कथयामि ते ॥
तुष्टोsस्मि प्रतिकर्तुं ते प्रयत्नाद्दर्शयाम्यत: ॥१८॥
विश्वात्मा दुर्धरो देवैरपि तं भक्तिगम्यमित् ॥
आत्मानं चेत्क्षमं ज्ञातुं कृतकृत्यो भविष्यसि ॥१९॥
एकदोन्मत्तवच्छ्रीशं ज्ञात्वां मद्यापणस्थितम् ॥
आहूयाह द्विजं रक्षो विद्धि तं योगिदैवतम् ॥२०॥
विप्रस्त्ववेक्ष्य तं हीनं मेनेsदृश्योsभवत्तदा ॥
खिन्नोsगाद्धाम तं रक्ष: प्राह दुर्भाग्य किं कृतम् ॥२१॥
शासितोsपि पुरा विप्र मोहितोsसि कथं वद ॥
संदेक्ष्ये पुनरप्येनं सावधान इतो भव ॥२२॥
अथैकदाssह रक्षोsङ्ग श्ववृतो धूलिधूसर: ॥
तमात्मक्रीडमात्मानं विध्द्यात्मरतिमुत्तमम् ॥२३॥
रक्षोभिरपि य: स्मर्तृमशक्योsहं तु दैवत: ॥
रक्षोsभवं विप्रकोपात्तद्भक्तोsपि तत: स्मरे ॥२४॥
विप्रोsप्यथास्थिभूषं तं रक्ताक्षं संमुखोsगमत् ॥
तेनास्थ्रा ताडितोsधावत्स भीतो जीवितेच्छाया ॥२५॥
रक्षोsवदत्परं दैवं मन्ये यत्नो निरर्थक: ॥
मिथ्याssत्मताडनात्का ते हानिर्विप्र विचारय ॥२६॥
भूयोsपि दर्शयिष्ये ते कार्यं साधय यत्नत: ॥
किं कार्यमिति पृच्छेच्चेत्प्रसन्न: स तदा वद ॥२७॥
दर्शश्राद्धे क्षणं दास्ये प्रसाद: क्रियतामिति ॥
अथैकदाssह रक्षो य: श्वभ्यो मृतखरामिषम् ॥२८॥
दत्त उत्कृत्य तं विद्धि देवं सत्यं वचो मम ॥
पत्न्यापि शिक्षितो धैर्याद्गत्वा तच्चरणेsग्रहीत् ॥२९॥
मांसास्थिताडितोsप्युक्तो मुञ्च मुञ्च व्रजेत्यपि ॥
धैर्यात्स्वार्थपरो विप्रो ववन्दे न मुमोच तम् ॥३०॥
दीनमार्तं द्विजं धीरं ज्ञात्वाssह कृपया प्रभु: ॥
आगतोsसि त्रिवारं किं कार्यं व्रात्येन ते मया ॥३१॥
श्राद्धे निमन्त्रयामीति द्विजेनोक्तोsवदद्बत ॥
पितरोsध: पतिष्यन्ति श्राद्धेsनाचारयोजनात् ॥३२॥
द्विजोsब्रवीत्किमाचारैर्लभ्यन्तेsन्यैश्च का क्षति: ॥
तवेशस्याप्तकामस्य किमसक्तस्य कर्मभि: ॥३३॥
इत्युक्त ओं तथेत्युक्त्वा स्वरूपेण स्थितोsवदत् ॥
निमन्त्र्यान्यं च मत्कल्पं पाकशुद्धिर्विंधीयताम् ॥३४॥
सुस्नात: शुचिरेष्यामि त्वद्वेश्म कुतुपक्षणे ॥
न श्मशानं न मांसास्थि तत्रापश्यद्द्विजस्तदा ॥३५॥
श्मशानं योगभू: श्वानो वेदा: शास्त्राणि वायसा: ॥
दृष्टो द्विजेनावधूत: साक्षाद्दत्तस्त्रिरूपधृक ॥३६॥
द्विजो नत्वाssह धन्योsस्मि धन्यौ मे पितरौ कुलम् ॥
यत्पुण्यौघादपि कुधीरद्राक्षं ते पदं महत् ॥३७॥
इत्युक्त्वा स द्रुतं गेहं गत्वा पत्न्यै शशंस तत् ॥
सापि हृष्टा सती पाकं विधिना कर्तुमारभत् ॥३८॥
क्क मृग्योsन्यो द्विजस्तुल्य इत्युक्तो राक्षसोsब्रवीत् ॥
यत्रायातीश्वरस्तत्र समायान्त्यखिला: सुरा: ॥३९॥
तथाप्यर्कं गृहपतिं वह्निं वाsत्र निमन्त्रय ॥
कार्यं ते साधितं सर्वं प्रसादे मां न विस्मर ॥४०॥
तथेत्युक्त्वा स पत्न्यै तच्छशंसात्रान्तरेsत्रिज: ॥
श्रीश एत्याह मत्कल्प: कोssन्यो विप्रो वद द्विज ॥४१॥
स्वासनेsत्रास्यतामन्यो विप्र आयास्यतीति तम् ॥
उक्त्वा सती बहिर्गत्वाssजुहावार्कं प्रणम्य सा ॥४२॥
सर्वात्मन्धीर सवित: करोषि त्वं सचेतनम् ॥
विश्वं जडमपीहाद्य देवागच्छ दयस्व न: ॥४३॥
इत्यर्क: प्रार्थितो विप्ररूपी प्रापात्रिजोsवदत् ॥
देवहीनं कथं श्राद्धं तृतीयोsन्विष्यतां तथा ॥४४॥
सती गृहपतिं प्राह कर्माध्यक्षांशतोsधुना ॥
एहीत्युक्तोsग्निरप्याप तत्कल्पो विश्वरूपधृक् ॥४५॥
दैवेsग्निमुपवेश्येशं पित्र्येsर्कं च यथाविधि ॥
व्यधाच्छ्राद्धं मुदा भुक्तास्तृप्ता: स्मेत्यवदंस्त्रय: ॥४६॥
आचान्तेष्वक्षयं दत्वा तमष्टशतनामभि: ॥
नत्वाssह राक्षसोक्त्या व: कृतकृत्योsस्मि दर्शनात् ॥४७॥
दत्त: प्राहैतु रक्षोsपि मदुच्छिष्टाशनाद्गतिम् ॥
मुक्तास्ते पितर: पत्न्या सिद्धस्त्वं चैहि सद्गतिम् ॥४८॥
दत्वा विद्या ययौ दत्त: स्वर्यानं कामगं च क: ॥
उभयर्धीश्च शुष्मैवं तेजीयान्सोभवत्कृती ॥४९॥
अलङ्हयशासनोsभीष्टभागभूच्छास्त्रदृग्द्विज: ॥
रक्षोप्युच्छिष्टभुड्मुक्त एवं शास्त्रक्रमाद्गति: ॥५०॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायां संहितायां वासुदेव्यां उपासनाकाण्डे तृतीयाष्टके षष्ठोsध्याय: ॥६॥
॥ इति श्रीदत्त० विष्णुदत्तोद्धारो नाम तृतीयाष्टके षष्टोध्याय: ॥३।६॥

N/A

References : N/A
Last Updated : May 07, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP