संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|नलोपाख्यानम्| पच्ञदशोsध्याय: नलोपाख्यानम् प्रथमोऽध्याय: द्वितीयोऽध्याय: तृतीयोऽध्याय: चतुर्थोऽध्याय: पच्ञमोsध्याय: षष्ठोsध्याय: सप्तमोsध्याय: अष्टमोsध्याय: नवमोsध्याय: दशमोsध्याय: एकादशोsध्याय: द्वादशोsध्याय: त्रयोदशोsध्याय: चतुर्दशोsध्याय: पच्ञदशोsध्याय: षोडशोsध्याय: सप्तदशोsध्याय: अष्टदशोsध्याय: नवदशोsध्याय: विंशतितमोsध्याय: एकविंशतितमोsध्याय: द्वाविंशतितमोsध्याय: त्रयोविंशतितमोsध्याय: चतुर्विंशतितमोsध्याय: पच्ञविंशतितमोsध्याय: षडविंशतितमोsध्याय: नलोपाख्यानम् - पच्ञदशोsध्याय: ` नलोपाख्यन ` ही नल आणि दमयंती यांची महाभारतातील एक सुरेख प्रेमकथा आहे. Tags : damayantinalnalopakhyanदमयंतीनलनलोपाख्यानसंस्कृत पच्ञदशोsध्याय: Translation - भाषांतर बृहदश्व उवाच ।तस्मिन्नन्तर्हिते नागे प्रययौ नैषधो नल: ।ऋतुपर्णस्य नगरं प्राविशद्दशमेsहनि ॥१॥स राजानमुपातिष्ठद्वाहुकोsहमिति ब्रुवन ।अश्वानां वाहने युक्त: पृथिव्यां नास्ति मत्सम: ॥२॥अर्थकृच्छ्रेषु चैवाहं प्रष्टव्यो नैपुणेषु च ।अन्नसंस्कारमपि च जानाम्यन्यैर्विशेषत: ॥३॥यानि शिल्पानि लोकेsस्मिन्यच्चैवान्यत्सुदुष्करम् ।सर्व यतिष्ये तत्कर्तुमृतुपर्ण भरस्व माम् ॥४॥ऋतुपर्ण उवाच ।वस बाहुक भद्रं ते सर्वमेतत्करिष्यसि ।शीघ्रयाने सदा बुध्दिर्ध्रियते मे विशेषत: ॥५॥स त्वमातिष्ठ योगं तं येन शीघ्रा हया मम ।भवेयुरश्वाध्यक्षोsसि वेतनं ते शतं शता: ॥६॥त्वामुपस्थास्यतश्चैव नित्यं वार्ष्णेयजीवलौ ।एताभ्यां रंस्यसे सार्ध वस वै मयि बाहुक ॥७॥बृहदश्व उवाच ।एवमुक्तो नलस्तेन न्यवसत्तत्र पूजित: ।ऋतुपर्णस्य नगरे सहवार्ष्णेयजीवल: ॥८॥स वै तत्रावसद्राजा वैदर्भीमनुचिन्तयन् ।सायंसायं सदा चेमं श्लोकमेकं जगाद ह ॥९॥क्व नु सा क्षुत्पिपासार्ता श्रान्ता शेते तपस्विनी ।स्मरन्ती तस्य मन्दस्य कं वा साद्योपतिष्ठति ॥१०॥एवं ब्रुवन्तं राजानं निशायां जीवलोsब्रवीत् ।कामेनां शोचसे नित्यं श्रोतुमिच्छामि बाहुक ।आयुष्मन्कस्य वा नारी यामेवमनुशोचसि ॥११॥तमुवाच नलो राजा मन्दप्रज्ञ्स्य कस्याचित् ।आसीद् बहुमाता नारी तस्यादृढ्तरं वच: ॥१२॥स वै केनचिदर्थेन तया मन्दो व्ययुज्यत ।विप्रयुक्त: स मन्दात्मा भ्रमत्यसुखपीडित: ॥१३॥दह्यमान: स शोकेन दिवारात्रमतन्द्रित: ।निशाकाले स्मरंस्तस्या: श्लोकमेकं स्म गायति ॥१४॥स विभ्रमन्महीं सर्वा क्वचिदासाद्या किंचन ।वसत्यनर्हस्तद्दु:खं पुनरेवानुसंस्मरन् ॥१५॥सा तु तं पुरुषं नारी कृच्छ्रेsप्यनुगता वने ।त्यक्ता तेनाल्पपुण्येन दुष्करं यदि जीवति ॥१६॥एका बालनाभिज्ञा च मार्गाणामतथोचिता ।क्षुत्पिपासापरीताग्ङी दुष्करं यदि जीवति ॥१७॥इत्येवं नैषधो राजा दमयन्तीमनुस्मरन् ।अज्ञातवासं न्यवसद्राज्ञस्तस्य निवेशने ॥१८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP