नलोपाख्यानम् - अष्टमोsध्याय:

` नलोपाख्यन ` ही नल आणि दमयंती यांची महाभारतातील एक सुरेख प्रेमकथा आहे.


बृहदश्व उवाच ।

दमयन्ती ततो दृष्टा पुण्यश्लोकं नरधिपम् ।
उन्मत्तवदनुन्मत्ता देवने गतचेतसम् ॥१॥
भयशोकसमाविष्टा राजन्भीमसुता तत: ।
चिन्तयामास तत्कार्य सुमहत्पार्थिवं प्रति ॥२॥
सा शक्ङमाना तत्पापं चिकीर्षन्ती च तत्प्रियम् ।
नलं च ह्रतसर्वस्वमुपलभ्येदमब्रवीत् ॥३॥
बृहत्सेनामतियशां तां धात्रीं परिचारिकाम् ।
हितां सर्वार्थकुशलामनुरक्तां सुभाषिताम् ॥४॥
बृहत्सेने व्रजामात्यानानाय्य नलशासनात् ।
आचश्व यध्दृतं द्रव्यमवशिष्टं च यद्वसु ॥५॥
इत्येवं सा समादिष्टा बृहत्सेना नरेश्वर ।
उवाच देव्या वचनं मन्त्रिणां सा समीपत: ॥।६॥
ततस्ते मन्त्रिण: सर्वे विज्ञाया नलशासनम् ।
अपि नो भागधेयं स्यादित्युक्त्वा नलमाव्रजन् ॥७॥
तास्तु सर्वा: प्रकृतयो द्वितीयं समुपस्थिता: ।
न्यवेदयद्भीमसुता न स तत्प्रत्यनन्दत ॥८॥
वाक्यमप्रतिनन्दन्तं भर्तारमाभिवीक्ष्य सा ।
दमयन्ती पुनर्वेश्म व्रीडिता प्रविवेश ह ॥९॥
निशम्य सततं चाक्षान्पुण्यश्लोकपराङमुखान् ।
नलं च ह्रतसर्वस्वं धात्रीं पुनरुवाच ह ॥१०॥
बृहत्सेने पुनर्गच्छ वार्ष्णेयं नलशासनात् ।
सूतामानय कल्याणि महत्कार्यमुपस्थितम् ॥११॥
बृहत्सेना तु तच्छुत्वा दमयन्त्या: प्रभाषितम् ।
वार्ष्णेयमानयामास पुरुषैराप्तकारिभि: ॥१२॥
वार्ष्णेयं तु ततो भैमी सान्त्वयञ्श्लक्ष्णया गिरा ।
उवाच देशकालज्ञा प्राप्तकालमनिन्दिता ॥१३॥
जनीषे त्वं यथा राजा सम्यग्वृत्त: सदा त्वयि ।
तस्य त्वं विषमस्थस्य साहाय्यं कर्तुमर्हसि ॥१४॥
यथा यथा हि नृपति: पुष्करेणैव जीयते ।
तथा तथास्य वै द्युते भूयो रागोsभिवर्धते ॥१५॥
यथा च पुष्करस्याक्षा: पतन्ति वशवर्तिन: ।
तथा विपर्ययश्चापि नलस्याक्षेषु दृश्यते ॥१६॥
सुह्रत्स्वजनवाक्यानि यथावन्न शृणोति च ।
ममापि च तथा वाक्यं नाभिनन्दति नैषध: ॥१७॥
नूनं मन्ये न दोषोsस्ति नैषधस्य महान्मन: ।
यत्तु मे वचनं राजा नाभिनन्दति मोहित: ॥१८॥
शरणं त्वां प्रपन्नास्मि सारथे कुरु मद्वच: ।
नलस्य दयितानश्वान्योजयित्वा मनोजवान् ।
इदमारोप्य मिथुनं कुण्डिनं यातुमर्हसि ॥१९॥
मम ज्ञातिषु निक्षिप्य दारकौ स्यन्दनं तथा ।
अश्वांश्चैमानयथाकामं वस वान्यत्र गच्छ वा ॥२०॥
दमयन्त्यास्तु तद्वाक्यं वार्ष्णेयो नलसारथि: ।
न्यवेदयदशेषेण नलामात्येषु मुख्यश: ॥२१॥
तैः समेत्य विनिश्चित्य सोsनुज्ञातो महीपते ।
ययौ मिथुनमारोप्य विदर्भास्तेन वाहिना ॥२२॥
हयांस्तत्र विनिक्षिप्य सूतो रथवरं च तम् ।
इन्द्रसेनां च तां कन्यामिन्द्रसेनं च बालकम् ॥२३॥
आमन्त्र्य भीमं राजानमार्त: शोचन्नलं नृपम् ।
अटमानस्ततोsयोध्यां जगाम नगरीं तदा ॥२४॥
ऋतुपर्ण स राजानमुपतस्थे सुदु:खित: ।
भृतिं च स ददौ चास्य सारथ्येन नियोजित: ॥२५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP