प्रथम पटल - लयप्रकरण २

महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे.


द्विविध: कर्मकाण्ड: स्यान्निषेधविधिपूर्वक: ।
निषिद्धकर्मकरणे पापं भवति निश्चितम् ।
विधिना कर्मकरणे पुण्यं भवति निश्चितम् ॥२१॥

त्रिविधो विधिकूट: स्यान्नित्यनैमित्यकाम्य्त: ।
नित्यsकृते किल्बिषं स्यात्काम्ये नैमित्तिके फ़लम् ॥२२॥

द्विविधं तु फ़लं ज्ञेय स्वर्ग नरकमेव च ।
स्वर्गे नानाविधं चैव नरके च तथा भवेत् ॥२३॥

पुण्यकर्मणि वै स्वर्गो नरकं पापकर्मणि ।
कर्मबंधमयी सृष्टिर्नान्यथा भवति ध्रुवम् ॥२४॥

जन्तुभिश्चानुभूयन्ते स्वर्गे नानासुखानि च ।
नानाविधानि दु:खानि नरके दु:सहानि वै ॥२५॥

पापकर्मवशाद्दु:खं पुण्यकर्मवशात्सुखम् ।
तस्मात्सुखार्थी विविधं पुण्यं प्रकुरुते ध्रुवम् ॥२६॥

पापभोगावसाने तु पुनर्जन्म भवेत्खलु ।
पुण्यभोगावसाने तु नान्यथा भवति ध्रुवम् ॥२७॥

स्वर्गेsपि दु:खसम्भोग: परस्त्रीदर्शनाद्ध्रुवम् ।
ततो दु:खमिदं सर्व भवेन्नास्त्यत्र संशय: ॥२८॥

तत्कर्म कल्पकै: प्रोक्तं पुण्यपापमिति द्विधा ।
पुण्यपापमयो बन्धो देहिनां भवति क्रमात् ॥२९॥

इहामुत्र फ़लद्वेषी सकलं फ़लद्वेषी सकलं कर्म संत्यजेत् ।
नित्यनैमित्तिके संग त्यक्त्वा योगे प्रवर्तते ॥३०॥

कर्मकाण्डस्य माहात्म्यं ज्ञात्वा योगी त्यजेत्सुधी: ।
पुण्यपापद्वयं त्यक्त्वा ज्ञानकाण्डं प्रवर्तते ॥३१॥

आत्म वा रे च श्रोतव्यो मंतव्य इति यत् श्रुति: ।
सा सेव्या तत्प्रयत्नेन मुक्तिदा हेतुदायिनी ॥३२॥

दुरितेषु च पुण्येषु यो धीवृत्तिं प्रचोदयात् ।
सोsहं प्रवर्तते मत्तो जगत्सर्व चराचरम् ॥३३॥
सर्व च दृश्यते मत्त: सर्व च मयि लीयते ।
न तद्भिन्नोsहमस्मिन्नो यद्भिन्नो न तु किंचन ॥३४॥

जलपूर्णेष्वसंख्येषु शरावेषु यथा भवेत् ।
एकस्य भात्यसंख्यत्वं तद्भेदोsत्र न दृश्यते ॥३५॥
उपाधिषु शरावेषु या संख्या वर्तते परा ।
सा संख्या भवति यथा रवौ चात्मनि तत्तथा ॥३६॥

यथैक: कल्पक: स्वप्ने नानाविश्वतयेष्यते ।
जागरेsपि तथाप्येकस्तथैव बहुधा जगत् ॥३७॥

सर्प बुद्धिर्यथा रज्जौ शुक्तौ वा रजतभ्रम: ।
तद्वदेवभिदं विश्वं विवृतं परमात्मनि ॥३८॥

रज्जुज्ञानद्यथा सर्पो मिथ्यारूपो निवर्तते ।
आत्मज्ञानात्तथा याति मिथ्याभूत मिदं जगत् ॥३९॥

रौप्यभ्रांतिरियं यांति शुक्तिज्ञानाद् यथा खलु ।
जगद्भ्रांतिरियं यांति चात्मज्ञानाद्यथा तथा ॥४०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP