पूर्वमेघ - श्लोक १०१ ते १०५

महाकवी कालिदास यांच्या मेघदूत काव्याचे मराठी समवृत्त व समश्लोकी भाषांतर.


(१०१) तस्या: पातुं सुरगज इव व्योन्मि पश्चार्धलम्बी
त्वं चेदच्छस्फटिकविशदं तर्कयेस्तिर्यगम्भ: ।
संसर्पन्त्या सपदि भवत: स्रोतसि च्छाययासौ
स्यादस्थानोपगतयमुनासङ्गमेवाभिरामा ॥

(१०२) आसीनानां सुरभितशिलं नाभिगन्धैर्मृगाणां
तस्या एव प्रभवमचलं प्राप्य गौरं तुषारै: ।
वक्ष्यस्यध्वश्रमविनयने तस्य शृड्गे: निषण्ण:
शोभां शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयाम् ॥

(१०३) तं चेद्वायौ सरति सरलस्कन्धसंघट्टजन्मा
बाधेतोल्काक्षपितचमरीबालभारो दवाग्नि: ।
अर्हस्येनं शमयितुमलं वारिधारासहस्रैरापन्नार्तिप्रसमनफला: संपदो हयुत्तमानाम् ॥

(१०४) ये संरम्भोत्पत्नरभसा: स्वाङ्गभङ्गाय तस्मिन्मुक्ताध्वानं सपदि शरभा लङ्घयेयुर्भवन्तम् ।
तान्कुर्वीथास्तुमुलकरकावृष्टिपातावकीर्णान्के
वा न स्यु: परिभवपदं निष्फलारम्भयत्ना: ॥

(१०५) मुद्रा तेथें भवपदकृता स्पष्ट पाषाणभागीं ।
भावें फेरा करिं तिज, जिला पूजिती नित्य योगी ॥
घेती श्रद्धान्वित जरि तिच्या दर्शना, तत्प्रतापें ।
जाती अंतीं चिरगणपदा, भस्म होवोनि पापें ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP