श्रीगुरूदत्त योगः - ध्यानम्

श्रीगुरूदत्तांनी जगाला योगशास्त्र दिले.


। अथ ध्यानम् ।

अथ ध्यानं प्रवक्ष्यामि मुक्तिसाधनमुत्तमम् ।
यत्कृत्वा न पुनर्जंतुर्जातु मातु: स्तनं पिबेत् ॥
सगुणं निर्गुणं चैव द्विधा ध्यानं प्रकीर्तितम् ।
सगुणं व्यक्तियुक्तं स्यादव्यक्तं निर्गुणं भवेत् ॥
स्वकीयह्रदयांभोजे दलैर्द्वादशभिर्युते ।
चिंतयेत्सुस्थिरो भूत्वा संपूर्णं चंद्रमंडलम् ॥
तन्मध्ये संस्मरेद्योगी स्वर्णसिंहासनं महत् ।
रत्नैर्नानाविधैर्युक्तं कोमलास्तरणान्वितम् ॥
तस्योपरि समासीनं सूर्यकोटिसमप्रभम् ।
नारायणं चतुर्बाहुं शंखचक्रगदाधरम् ।
शरदाकाशसंकाशं पीतवाससमच्युतम् ।
वनमालालसत्कंठं मकराकारकुंडलम् ॥
मणिमेखलया युक्तं किरीटोज्ज्वलमस्तकम् ।
प्रसन्नवदनं देवं सर्वकामवरप्रदम् ॥
सार्वज्ञ्यादिगुणोपेतं विष्णुमव्ययमीश्वरम् ।
ध्यायेदनन्यधीरेवमापादतलमस्तकम् ॥
अथवा चिंतयेद्योगी शिवं तत्र समाहित: ।
कोटिचंद्रप्रतीकाशं कर्पूरोज्ज्वलकांतिकम् ॥
चतुर्भुजं प्रसन्नास्यं चंद्रभालं त्रिलोचनम् ।
मृगशूलवराभीतिकरं सर्वज्ञमीश्वरम् ॥
गंगावारिलसत्केशं कुंडलोज्ज्वलकर्णकम् ।
ध्यायेद्देवं स्थिरो भूत्वा सर्वांगं सर्वकामदम् ॥
सगुणं ध्यानमित्येतद्विष्णोश्वैव शिवस्य वा ।
कृत्वायोगीभवेद्विष्णो: शिवस्यापि सम: स्वयम् ॥
पुष्पसंयोगतस्तैले यथा गंध: प्रवर्तते ।
योगिदेहे तथा ध्यानाज्जायते गुणसंक्रम: ॥
सर्वज्ञ: सत्यसंकल्प: सर्वशक्तिसमन्वित: ।
जीवन्मुक्तश्चरेद्योगी सायुज्यं चांततो व्रजेत् ॥

N/A

References : N/A
Last Updated : December 23, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP