श्रीगुरूदत्त योगः - ध्यानयोग:

श्रीगुरूदत्तांनी जगाला योगशास्त्र दिले.


। अथ ध्यानयोग: ।

घेरण्ड उवाच -

स्थूलं ज्योतिस्तथा सूक्ष्मं ध्यानस्य त्रिविधं विदु: ।
स्थूलं मूर्तिमयं प्रोक्तं ज्योतिस्तेजोमयं तथा ॥
सूक्ष्मं बिन्दुमयं ब्रम्हा कुंडलीपरदेवता ॥१॥

। अथ स्थूलध्यानम् ।

स्वकायह्रदये ध्यायेत् सुधासागरमुत्तमम् ।
तन्मध्ये रत्नद्वीपं तु सुरत्नवालुकामयम् ॥२॥
चतुर्दिक्षु नीपतरुं बहुपुष्पसमन्वितम् ।
नीपोपवनसंकुलैर्वेष्टितं परिखा इव ॥३॥
मालतीमल्लिकाजातीकेशरैश्चम्पकैस्तथा ।
पारिजातै: स्थलपदमैर्गन्धामोदितदिडमुखै: ॥४॥
तन्मध्ये संस्मरेद्योगी कल्पवृक्षं मनोहरम् ।
चतु: शाखाचतुर्वेदं नित्यपुष्पफलान्वितम् ॥५॥
भ्रमरा: कोकिलास्तत्र गुञ्जन्ति निगदन्ति च ।
ध्यायेत्तत्र स्थिरो भूत्वा महामाणिक्यमण्डपम् ॥६॥
तन्मध्ये तु स्मरेद्योगी पर्यङ्कं सुमनोहरम् ।
तत्रेष्टदेवतां ध्यायेद यद्‌ध्यानं गुरुभाषितम् ॥७॥
यस्य देवस्य यद्रूपं यथा भूषणवाहनम् ।
तद्रूपं ध्यायते नित्यं स्थूलध्यानमिदं विदु: ॥८॥

। प्रकारान्तरम् ।

सहस्रारे महापद्मे कर्णिकायां विचिन्तयेत् ।
विलग्नसहितं पद्मं द्वादशच्छदसंयुतम् ॥९॥
शुक्लवर्णं महातेजो द्वादशैर्वीजभाषितम् ।
हसक्षममलवरयुं हसखफें यथाक्रमम् ॥१०॥
तन्मध्ये कर्णिकायां तु अकखादि रेखालयम् ।
हलक्षकोणसंयुक्तं प्रणवं तत्र वर्तते ॥११॥
नादबिंदुमयं पीठं ध्यायेत्तत्र मनोहरम् ।
तत्रोपरि हंसयुग्मं पादुका तत्र वर्तते ॥१२॥
घ्यायेत्तत्र गुरुं देवं द्विभुजं च त्रिलोचनम् ।
श्वेताम्बरधरं देवं शुक्लगन्धानुलेपनम् ॥१३॥
शुक्लपुष्पमयं माल्यं रक्तशक्तिसमन्वितम् ।
एवंविधगुरुध्यानात् स्थूलध्यानं प्रसिध्यति ॥१४॥

। अथ ज्योर्तिध्यानम् ।

घेरण्ड उवाच -

कथितं स्थूलध्यानं तु तेजोघ्यानं शृणुष्व मे ।
यद्‌ध्यानेन योगसिद्धिरात्मप्रत्यक्षमेव च ॥१५॥
मूलाधारे कुण्डलिनी भुजगाकाररूपिणी ।
जीवात्मा तिष्ठति तत्र प्रदीपकलिकाकृति: ।
घ्यायेत्तेजोमयं ब्रम्हा तेजोघ्यानं परापरम् ॥१६॥
नाभिमूले स्थितं सूर्यमण्डलं वहिनसंयुतम् ।
घ्यायेत्तेजो महद्वयाप्तं तेजोध्यानं तदेव हि ॥१७॥

। प्रकारन्तरम् ।

भ्रूमध्ये मनऊर्ध्वें च यत्तेज: प्रणवात्मकम् ।
ध्यायेज्ज्वालावलीयुक्तं तेजोध्यानं तदेव हि ॥१८॥

N/A

References : N/A
Last Updated : December 23, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP