श्रीगुरूदत्त योगः - भ्रामरीकुम्भक:

श्रीगुरूदत्तांनी जगाला योगशास्त्र दिले.


अथ भ्रामरीकुम्भक: ।

अर्धरात्रे गते योगी जन्तूनां शब्दवर्जिते ।
कर्णौ पिधाय हस्ताभ्यां कुर्यात् पूरककुम्भकम् ॥
शृणुयाद्दक्षिणे कर्णे नादमन्तर्गतं शुभम् ।
प्रथमं झिञ्झीनादं च वंशीनादं तत: परम् ॥
मेघझर्झरभ्रमरीघण्टाकास्यं तत: परम् ।
तुरीभेरीमृदङ्गादिनिनादानकदुन्दुभि: ।
एवं नानाविधो नादो जायते नित्यमभ्यासत्‌ ॥
अनाहतस्य शब्दस्य तस्य शब्दस्य यो ध्वनि: ।
ध्वनेरन्तर्गतं ज्योतिर्ज्योतिरन्तर्गतं मन: ॥
तन्मनो विलयं याति तद्विष्णो: परमं पदम् ।
एवं भ्रामरीसंसिद्धि: समाधिसिद्धिमाप्नुयात् ॥

N/A

References : N/A
Last Updated : December 23, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP