श्रीगुरूदत्त योगः - सूर्यभेदन

श्रीगुरूदत्तांनी जगाला योगशास्त्र दिले.


सूर्यभेदन -   
स्वस्तिकासन किंवा वज्रासन करून उजव्या नाकपुडीनें पूरक करून यथाशक्ति कुंभक करावा व नंतर डाव्या नाकपुडीनें रेचक करावा. वायुदोष, कृमिरोग, जरा, इत्यादींचा नाश हया प्रकारानें होतो. अपमृत्यु टळतो व शरीरांत सूर्यासारखें तेज उत्पन्न होतें.

घेरण्डसंहिता -

मलाकुलासु नाडीषु मारुतो नैवगच्छति ।
प्राणायाम: कथं सिध्येत्तत्त्वज्ञानं कथं भवेत् ॥
तस्मादादौ नाडीशुद्धिं प्राणायामं ततोभ्यसेत् ।
नाडीशुद्धिर्द्विधा प्रोक्ता समनुर्निर्मनुस्तथा ॥
बीजेन समनुं कुर्यान्निर्मनुं धौतकर्मणा ।
धौतकर्म पुरा प्रोक्तं षटकर्मसाधने यथा ॥
शुणुष्व समनुं चण्ड नाडीशुद्धिर्यथा भवेत् ।
उपविश्यासने योगी पद्मासनं समाचरेत् ॥
गुर्वादिन्यासनं कुर्याद यथैव गुरुभाषितम् ।
नाडीशुद्धिं प्रकुर्वीत प्राणायामविशुद्धये ॥
वायुबीजं ततो ध्यात्वा धूम्रवर्णं सतेजसम् ।
चन्द्रेण पूरयेद्वायुं बीजं षोडशकै: सुधी ॥
चतु:षष्टया मात्रया च कुम्भकेनैव धारयेत् ।
द्वात्रिंशन्मात्रया वायुं सूर्यनाडया च रेचयेत् ॥
नाभिमूलाद्वहिनमुत्थाप्य ध्यायेत्तेजोऽवनीयुतम् ।
वहिनबीजषोडशेन सूर्यनाडया च पूरयेत् ॥
चतु:षष्टया मात्रया च कुम्भकेनैव धारयेत् ।
द्वात्रिंशन्मात्रया वायुं शशिनाडया च रेचयेत् ॥
नासाग्रे शशिधृग्बिम्बं ध्यात्वा ज्योत्स्नासमन्वितम् ।
ठं बीजषोडशेनैव इडया पूरयेन्मरुत् ॥

टीप पुढें चालू -

चतु:षष्टया मात्रया च वं बीजेनैव धारयेत् ।
अमृतं प्लावितं ध्यात्वा नाडीधौतं विभावयेत् ।
लकारेण द्वात्रिंशेन द्दढं भाव्यं विरेचेयत् ॥
एवंविधां नाडीशुद्धिं कृत्वा नाडीं विशोधयेत् ।
द्दढौ भूत्वासनं कृत्वा प्राणायामं समाचरेत् ॥
सहित: सूर्यभेदश्च उज्जायी शीतली तथा ।
भस्त्रिका भ्रामरीमूर्च्छा केवली चाष्टकुम्भिका: ॥
सहितो द्विविध: प्रोक्त: सगर्भश्च निगर्भक: ।
सगर्भी बीजमुच्चार्य निगर्भो बीजवर्जित: ॥
प्राणायामं सगर्भं च प्रथमं कथयामि ते ।
सुखासने चोपविश्य प्राङमुखो वाप्युदङमुख ॥
ध्यायेद्विघिं रजोगुणं रक्तवर्णमवर्णकम् ।
इडया पूरयेद्वायुं मात्रया षोडशै: सुधी: ॥
पूरकान्ते कुम्भुकाद्ये कर्त्तव्यस्तुड्डीयानक: ॥
सत्त्वमयं हरिं ध्यात्वा उकारं कृष्णवर्णकम् ॥
चतु:षष्टया च मात्रया कुम्भकेनैव धारयेत् ।
तमोमयं शिवं ध्यात्वा मकारं शुक्लवर्णकम् ॥
द्वित्रिंशन्मात्रया चैव रेचयेद्विधिना पुन: ।
पुन: पंगङलयापूर्य कुम्भकेनैव धारयेत् ॥
इडया येचयेत पश्चात् तद्वीजेन क्रमेण तु ।
अनुलोमविंलोमेन वारंवारं च साधयेत् ॥
पूरकान्ते कुम्भकान्तं घृतनासापुटद्वयम् ।
कनिष्ठानामिकाङ्ष्ठै: तर्जनीमध्यमे विना ॥
प्राणायामो निगर्भस्तु विना बीनेन जायते ।
वामजानूपरिन्यस्तवामपाणितलं भ्रमेत् ॥

टीप पुढें चालूं -

एकादिशतपर्यन्तं पूरकुम्भकरेचनम् ।
उत्तमा विंशतिर्मात्रा षोडशी मात्रा मध्यमा ॥
अधमा द्वादशी मात्रा प्राणायामास्त्रिधा स्मृता: ।
अधमाज्जायते घर्मो मेरुकम्पश्च मध्यमात् ॥
उत्तमाच्च भूमित्यागस्त्रिविधं सिद्धिलक्षणम् ।
प्राणायामात्  खेचरत्वं प्राणायामाद् रोगनाशनम् ॥
प्राणायामादबोधयेच्छक्तिं प्राणायामान्मनोन्मनी ।
आनन्दो याजते चित्ते प्राणायामी सुखी भवेत् ॥

N/A

References : N/A
Last Updated : December 23, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP