तृतीयः पादः - सूत्र ६-८

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


वैद्युतेनैव ततस्तच्छ्रुते: ॥६॥

कथं पुनरातिवाहिकत्वपक्षे वरुणादिषु तत्संभव: ।
विद्युतो हयधि वरुणादय उपक्षिप्ता विद्युतस्त्वनन्तरमाब्रहम्हाप्राप्तेरमानवस्यैव पुरुषस्य गमयितृत्वं श्रुतमिति ।
अत उत्तरं पठति ॥
वैद्यतनैव ततस्तच्छुत: ।
ततो विद्युदभिसंभवन दूर्ध्वं विद्युदनन्तरवर्तिनैवामानवेन पुरुषेण वरुणलोकादिष्वतिवाह्यमाना ब्रम्हालोकं गच्छन्तीत्यवगन्तव्यम् ।
तान्वैद्युत न्पुरुषोऽमानव: स एत्य ब्रम्हालाकं गमयतीति तस्यैव गमयितृत्वश्रुते: ।
वरणादयस्तु तस्यैवाप्रतिबन्धकरणेन साहाय्यानुष्ठानेन वा केनचिदनुग्राहक्रा इत्यवगन्तव्यम् ।
तस्म त्साधूक्तमातिवाहिका देवतात्मानोऽर्चिरादय इति ॥६॥

कार्यं बादरिरस्य गत्युपपत्ते: ॥७॥

कार्यं बादरिरस्य गत्युपपत्ते: ॥
स एनान्ब्रम्हा गमयतीत्यत्र विचिकित्स्यते किं कार्यमपरं ब्रम्हा गमयत्याहोस्वित्परमेवाविकृतं मुख्यं ब्रम्होति ।
कुत: संश्य: ।
ब्रम्हाशाब्दप्रयांगाद्नतिश्रुतेश्च ।
तत्र कार्यमेव सगुणमपरं ब्रम्हा नयतेतानमानव: पुरुष इति बादरिराचार्यो मन्यते । कुत: ।
अस्य गत्युपपत्ते: ।
अस्य हि कार्यब्रम्हाणो गन्तव्यत्वमुपपद्यते प्रदेशवत्त्वात् ।
न तु परस्मिन्ब्रम्हाणि गन्तृत्वं गन्तव्यत्वं गतिर्वाऽवकल्पते ।
सर्वगतत्वात्प्रत्यगात्मत्वाच्च गन्तृणाम् ॥७॥

विशेषितत्वाच्च ॥८॥

विशेषितत्वाच्च ॥
ब्रम्हालोकन्गमयति ते तेष ब्रम्हालोकेषु परा: परावतो वसन्तीति श्रुत्यन्तरे विशेषितत्वात्कार्यब्रम्हाविषयैव गतिरित्यवगम्यने ।
न हि बहुवचनेन विशेषणं परस्मिन्ब्रम्हाण्यवलक्पते ।
कार्ये त्ववस्थाभेदापपत्ते: संबवति बहुवचनम् ।
लोकशृतिरफि विकारगोचरायामेव संनिवेशविशिष्टायां भोगभूमावाञ्जसी ।
गौणी त्वन्यत्र ब्रम्हौव लोक एव सम्राडित्यादिषु ।
अधिकरणाधिकर्तव्यनिर्देशोऽपि परस्मिन्ब्रम्हाण्यनाञ्चस: स्यात् ।
तस्मात्क्रार्यविषयभेवेदं नयनम् ॥८॥

N/A

References : N/A
Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP