तृतीयः पादः - सूत्र २

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


वायुमब्ददविशेषविशेषाभ्याम् ॥२॥

वायुमब्ददविशेषविशेषाभ्याम् ॥
केन पुन संनिवेशविशेषेण गतिविशेषणानामितरेतरविशेषणविसेष्यभाव इति तदेतत्सुह्रद्नूत्वाऽऽचार्यो ग्रथयति ।
स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स  वायुलोकं स वरुणलोकं स इन्द्रलोकं स प्रजापतिलोकं स ब्रम्हालोकमिति कौषीतकिनां देवयान: पन्था: पट्जयते ।
तत्रार्चिरग्निलोकशब्दौ तावडेकार्थौ ज्वलनवचनत्वादिति नात्र संनिवेश्क्रम: कृचिदन्वेष्य: ।
वायुस्त्वर्चिरादौवर्त्मनि नाश्रुत: कतमस्मिन्स्थाने निवेशयितव्य इति ।
उच्यते तेऽर्चिषमेवाभिसंभवन्त्यर्चिषोऽहरन्ह आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुद्ङ्डेतिमासांस्तान्मासेभ्य: संवत्सरं संवत्स्ररादादित्यमित्यत्र संवत्सरात्पराञ्चमादित्यादर्वाञ्चं वायुमभिसंबवन्वि ।
कस्मात् ।
अंविशेषविशेषाभ्याम् ।
तथा हि स वायुलोकमित्यत्राविशेषोपदिष्टस्य वायो: श्रुत्यन्तेर विशेषोपदेशो द्दश्यते यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्वमाक्रमते स आदित्यमागच्छतीती |
एतस्मादादित्याद्वायो: पूर्वंत्वदर्शनाद्विशेषादब्दादित्ययोरन्तराले वायुर्विवेशयितव्य: ।
कस्मात्प्नरग्ने: परत्वदर्शनाद्विशेषादर्चिभोऽनन्तरं वायुर्न निवेश्यते ।
नैषौऽस्ति विशेष इति वदाम: ।
ननूदाहता श्रुति: स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोक स वरुणलोकमिति |
उच्यते केवलोऽत्र पाठ: पौर्वापर्येणावस्थितो नात्र क्रमवचन: कश्चिच्छब्दोऽस्ति ।
पदार्थौपदर्शनमात्रं हयत्र क्रियते एतमेतं चागच्छतीति ।
इतरत्र पुनर्वायुप्रत्तेन रथचक्रमात्रेण च्छिद्रेणोर्ध्वमाक्रम्यादित्यमागच्छतीत्यवगम्यते क्रम: ।
तस्मास्तूक्तमबिशेषविशेषाभ्यामिति ।
वाजसनेयिनस्तु मासेभ्यो देवलोकं देवलोकादादित्यमिति समामनन्ति ।
तत्रादित्यानन्तर्याय देवलोकाद्वायुमभिसंभवेयु ।
वायुमब्दादिति तु छान्दोग्यशअत्यपेक्षयोक्तम् ।
छान्दोग्यवाजसनेयकयोस्त्वेकत्र देवलोको न विद्यते परत्र संवत्सर: ।
तत्र श्रुतिद्वयप्रत्ययादुभावप्युभयत्र ग्रथितव्यौ ।
तत्रापि माससंचन्धात्संवत्सर: पूर्व: पश्चिमो देवलोक इति विवेवक्तव्यम् ॥२॥

N/A

References : N/A
Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP