द्वितीयः पादः - सूत्र २०-२१

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अतश्चायनेऽपि दक्षिणे ॥२०॥

अतश्चायनेऽपि दक्षिणे ॥
अत एव चोदीक्षानुपपत्तेरपाक्षिकफलत्वाच्च विद्याया अनियतकालत्वाच्च मृत्योर्दक्षिणायनेऽपि म्रियमाणो विद्वान्प्राप्नोत्येव विद्याफलम् ।
उत्तरायणमरणप्राशस्त्यप्रसिद्धेर्भीष्मस्य च प्रतिक्षादर्शनाद् आपूर्यमाणपक्षाद्यान्पदुदङ्ङेति मासांस्तानिति च श्रुतेरपेक्षितव्यमुत्तरायणमितीमामाशङकामनेन सूत्रेणापनुदति ।
प्राशस्त्यप्रसिद्धिरविद्वद्विषया ।
भीष्मस्य प्रतिपालनमाचारप्रतिपारुनार्थं पितृप्रसादललधस्वच्चन्दमृत्प्युताख्यापनार्थं च ।
श्रुतेस्त्वर्थं वक्ष्यति आतिवाहिकास्तल्लिङगादिति ॥२०॥

योगिन: प्रति च स्मर्यते स्मार्ते चैते ॥२१॥

ननु च यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिन: ।
प्रयाता यान्ति तं कालं बक्ष्यामि भरतर्षभेति कालप्राधान्येनोपकरम्याहरादिकालविश्वेष: स्मृतावपुनरावृत्तये नियमित: कथं रात्रौ दक्षिणायने वा प्रयातोऽनावृत्तिं यायादिति ।
अत्रोच्यते ॥
योगिन: प्रति च स्मर्यत स्मार्ते चैते ॥
योगिन: प्रति चायमहरादिकालविनियोगोऽनावृत्तये स्मर्यते ।
स्मार्ते चैते योगसांख्ये न श्रौते ।
अतो विषयभेदात्प्रमाणविशेषाच्च नास्य स्मार्तस्य कालविनियोगस्य श्रौतेहु विज्ञानेष्ववतार: ।
ननु अग्निर्ज्योतरह:  शुक्ल:  षण्मासा उत्तरायणम ।
धूमो रात्रिस्तथा कृष्ण: षण्मासा दक्षिणायनमिति च श्रौतावेतौ देवयानपितृयाणौ प्रत्यमिज्ञायेते स्मृतावपीति ।
उच्यते तं कालं वक्ष्यामीति स्मृतौ कालप्रतिज्ञानाद्विरोधमाशङ्कय परिहार उक्त: ।
यदा पुन: स्मृतावप्यग्न्याद्या देवता एवातिवाहिक्यो गृहयन्ते तदा न कश्चिद्विरोध इति ॥२१॥


इति श्रीगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगत्पादकृतौ शारीरकमीमांसामाष्ये चतुर्थाध्यायस्य द्वितीय: पाद: ॥२॥


Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP