द्वितीयोध्यायः - सूत्र २३-२५

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


तदव्यक्तमाह हि ॥२३॥

तदव्यक्तमाह हि ॥ यत्प्रतिषिद्धात्प्रपञ्चजातदन्यत्परं ब्रम्हा तदस्ति चेत्कस्मान्न गृहयत इति । उच्यते ।
तदव्यक्तमनिन्द्रियग्राहयं सर्वद्दश्यसाक्षित्वात् ।
आह हयेवं श्रुतिर्न चक्षुषा गृहयते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा ।
स एष नेति नेत्यात्माऽगृहयो न हि गृहयते ।
यत्तदद्रेश्यमग्राहयम् ।
यदा हयेवैष एतस्मिन्नद्दश्येऽनात्म्येऽनिरुक्तेऽनिलयन इत्याद्या ।
स्मृतिरप्यव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यत इत्येवमाद्या ॥२३॥

अपि च संराधने प्रत्यक्षानुमानाभ्याम् ॥२४॥

अपि च संराधने प्रत्यक्षानुमानाभ्याम् ॥
अपि चैनमात्मानं निरस्तसमस्तप्रपञ्चमव्यक्तं संराधनकाले पश्यन्ति योगिन: ।
संराधनं च भक्तिध्यानप्रणिधानाद्यनुष्ठानम् ।
कथं पुनरवगम्यते संराधनकाले पश्यन्तीति ।
प्रत्यक्षानुमानाभ्यां श्रुतिस्मृतिभ्यामित्यर्थं: ।
तथा हि श्रुति: पराञ्चि खानि व्यतृणत्स्वयंभूस्तरमात्पराङ पश्यति नान्तरात्मन् ।
कश्चिद्धीर: प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्निति ।
ज्ञानप्रसादेन विशुद्धसस्वस्ततस्तु तं  पश्यते निष्कलं ध्यायमान इति चैवमाद्या ।
स्मृतिरपि यं विनिद्रा जितश्वासा: सन्तुष्टा: संयतेन्द्रिया: ।
ज्योति: पश्यन्ति युञ्जानास्तस्मै योगात्मने नम: ॥
योगिनस्तं पर्पश्यन्ति भगवन्तं सनातनम् ।
इति चैवमाद्या ॥२४॥

प्रकाशादिवच्चावैशेष्यं प्रकाशस्च कर्मण्यभ्यासात् ॥२५॥

ननु संराध्यसंराधकभावाभ्युपगमात्परेतरात्मनोरन्यत्वं स्यादिति । नेत्युच्यते ।
प्रकाशादिवञ्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥
यथा प्रकाशाक्राशसवितृप्रभूतयोऽङगुलिकरकोदकप्रभृतिषु कर्मसूपाधिभूतेषु सविशेषा इवावभासन्ते न च स्वाभावि कीमविशेषात्मतां जहति ।
एवमुपाधनिमित्त एवायमात्मभेद: स्वतस्त्वैकात्म्यमेव ।
तथा हि वेदान्तेष्वभ्यासेनासकृज्जीवप्राज्ञयोरभेद: प्रतिपाद्यते ॥२५॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP