मराठी मुख्य सूची|मराठी साहित्य|अभंग संग्रह आणि पदे|साधन मुक्तावलि|

साधन मुक्तावलि - तत्वमसि स्तोत्र

’ साधन - मुक्तावलि ’ या ग्रंथात सर्व प्रकारचे अभंग आहेत.


॥ ध्यानं ॥
शिष्वसंदेहसंदोहध्वांतभेदनभानवे ॥
नमस्कुर्म: परेशाय सच्चिदानंदमूर्तये ॥
सति सर्वस्मिन्सर्वज्ञत्वं सत्यल्पे वा स्वल्पज्ञत्वं ॥
सर्वाल्पस्याभावे कस्माज्जीवेशौ वा तत्त्वमसि ॥१॥
सत्यज्ञाने जीवत्वोक्ति: ॥
मायासत्त्वे त्वशित्वोक्ति: ॥
मायाविद्याबाधे कस्माज्जीवेशौ वा तत्त्वमसि ॥२॥
सति वा कार्ये कारणत्वेक्ति: कारणसत्वे कार्यत्वोक्ति: ॥
कारणकार्याभावे कस्माज्जीवेशौ वा तत्त्वमसि ॥३॥
सति भोक्तव्ये भोक्ताऽयं स्याद्दातव्ये वा  दाता स स्यात् ॥
भोग्यविधेयाभावे कस्माज्जीवेशौ वा तत्त्वमसि ॥४॥
सत्यज्ञाने गुरुणा भाव्यं सति वा द्वैते शिष्यैर्भाव्यं ॥
अद्वैतात्मनि गुरुशिष्यौ कौ त्यज रे भेदं तत्त्वमसि ॥५॥
सत्यद्वैते प्राप्ते यत्न: सनि वा द्वैते बाधे यत्न: ॥
द्वैताद्वैते ते संकल्पस्त्यज रे शेषं तत्त्वमसि ॥६॥
साक्षित्वं यदि द्दश्यं सत्यं द्दश्याभावे साक्षित्वं किं ॥
उभयाभावे दर्शनमपि किं तूष्णीं भव रे तत्त्वमसि ॥७॥
प्रज्ञानामलविग्रहनिजसुखजृंभणमेतन्नेतरथा ॥
तस्मान्नै वा देयं हेयं तूष्णीं भव रे तत्त्वमसि ॥८॥
ब्रम्हौऽवाहं ब्रम्हौवत्वं ब्रम्हौवैकं नान्यत् किंचित् ॥
निश्चित्येत्थं निजसमसुखभुक् तूष्णीं भव रे तत्त्वमसि ॥९॥
एतत् स्तोत्रं प्रपठतां विचार्य गुरुवाक्यत: ॥
प्राप्यते ब्रम्हापदवीं सत्यं सत्यं न संशय: ॥१०॥

N/A

References : N/A
Last Updated : September 10, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP