संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:| समासोक्ति अलंकारः| लक्षण ६ समासोक्ति अलंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ लक्षण ७ लक्षण ८ लक्षण ९ लक्षण १० लक्षण ११ समासोक्ति अलंकारः - लक्षण ६ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण ६ Translation - भाषांतर कार्यधर्मान्तरयो: संकरेण साधारण्यं यथा-‘ उत्क्षिप्ता: कबरीभरं विवलिता:पार्श्वद्वयं न्यक् कृता: पादाम्भोजयुगं रुषा परिह्लता दूरेण चेलाञ्चलम् । गृह्लन्ति त्वरया भवत्प्रातिभटक्ष्मापालवामभ्रुवां यान्तीनां गहनेषु कण्टकचिता: के के न भूमीरुहा: ॥ ’अत्र कण्टकचितत्वेन कबरीग्रहणादि संकीर्णम् । समासोक्तो व्यज्य-मानस्याप्रकृतव्यवहारस्योपस्कारकत्वमेव, न प्राधान्यम् । तदुपस्कृतवाच्य-स्यैव तु प्राधान्यमित्युक्तम् । तत्र यदि व्यड्रयस्यैव प्राधान्यं स्यात् , न वाच्यस्य, तदा ‘ देव त्वां परित: स्तुवन्तु-’ इति प्रागुदाग्लतपद्ये निन्दा-व्याजेन स्तुतौ पर्यवसान्म न स्यात् । स्तुतिनिन्दयो: प्रकृताप्रकृतव्यवहारा-श्रयत्वादिति ध्येयम् ।“-‘ तन्वी मनोहरा बाला पुष्पाक्षी पुष्पहासिनी । विकासमेति सुभग भवद्दर्शनमात्रत: ॥ ’अत्र तनुत्वादिविशेषणसाम्याल्लोलाक्ष्यां लताव्यवहारप्रतीति: । तत्र लतैकगामिविकासाख्यधर्मसमारोप: कारणम् । अन्यथा विशेषण-साम्यमात्रेण नियतलताव्यवहारम्याप्रतीते: । विकासश्च प्रकृते उपचरितो ज्ञेय: ” इत्यलंकारसर्वस्वकार आह, तत्र विचार्यते--नात्र विशेषण-साम्यमात्रेण लताव्यवहारप्रतीति: , अपि तु लतारूपाऽप्रकृतासाधारण-विकासाऽऽरोपमहिम्नेति भवतैवोक्तम् । तथा च विशेषणसाम्यादप्रस्तुतस्य गम्यत्वमिति त्वदुक्तसमासोक्तिलक्षणस्य कथमत्र प्रवृत्ति: ? न च लक्षणे विशेषणसाम्यमात्रगम्यत्वं न विवक्षितम् , अपि तु विशेषणसाम्यगम्य-त्वम् । प्रकृते च विकासस्याप्यधिकस्य गमकत्वम् , न त्वेतावता विशेषण-साम्यस्य गमकताहानिरिति वाच्यम् । श्लेषेऽतिव्याप्त्यापत्ते: । न च विशेषणमात्रसाम्यगम्यत्वं विवक्षितम् । एवं च न श्लेषेऽतिव्याप्ति: ।नापि ‘ तन्वी मनोहरा ’ इत्यत्र लक्षणस्यावर्तनमिति वाच्यम् । ‘ तम्बी मनोहरा ’ इत्यत्र समासोक्तेरेवाभावात् । यत्र साधारणविशेषमहिम्नाऽप्र-कृतस्य स्फूर्तिस्तत्र समासोक्ति: । यत्र त्वसाधारणमहिम्ना, तत्र व्यड्रय-रूपकमिति विषयव्यवस्थापनात् । एवं च प्रकृते साधारणविशेषण-सत्त्वेऽपि न तन्महिम्ना लताया: स्फूर्ति:, अपि तु विकासमहिम्नेति व्यड्रयरूपकमुचितम् । यथा-‘ चकोरनयनानन्दि कह्लाराह्लादकारणम् । तमसां कदनं भाति वदनं सुन्दरं तव ॥ ’ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP