समासोक्ति अलंकारः - लक्षण ४

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अपि च ‘ निशामुख्म चुम्बति चन्द्र एष: ’ इत्यत्र स्त्रीलिड्रपुंलिड्राभ्यां मुखचुम्बनरूपार्थसचिवाभ्यां नायिकात्वं नायकत्वं च व्यज्यत इति हि नि-र्विवादम । अन्यथा ‘ निशामुख्म चुम्बति चन्द्रिकैषा ’ , ‘ अहर्मुखं चुम्बति भानुबिम्बम्‍ ’ इत्यत्रापि नायकप्रतीत्यापत्ते: । एवं च सामानाधिकरण्येनैव संसर्गेण व्यज्यमानं नायकत्वं निशाशशिनोर्नायकत्वारोप एव पर्यवस्यति ।
“ अपरित्यक्तस्वरूपयोर्निशाशशिनोर्नायकताख्यधर्मविशिष्टयो: प्रतीते: ”
इति त्वदुपजीव्यग्रन्थविरोधश्च । ‘ अविनाभावादप्रकृतव्यवहारेणाक्षिप्तेन धर्मिणैव प्रस्तुतो धर्म्यवच्छिद्यते ’ इति तट्टीकाविरोधश्च । किं च
“ चुम्बना-दिव्यवहारेणाभिव्यक्तस्य नायकस्य व्यवहारविशेषणत्वमेव, न त्वभेदेन चन्द्रादिविशेषणत्वम्‍ । चन्द्रादिपदसमानाधिकरणपदानुपस्थापितत्वात्‍ ”
इत्युकं तत्र तुल्यन्यायत्वान्निशायामपि न नायिकात्वारोप: , अपि तु नायकवदभिव्यक्ताया नायिकाया अपि व्यवहारसंबन्धित्वेनैवावस्थान-
मिति वक्तव्यम्‍ । तच्च बाधितम्‍ । नायिकात्वानालीढकेवलरात्रिमुख-चुम्बनरूपस्य व्यवहारस्य नायकासंबन्धित्वात्‍ । नहि रात्रितादात्म्यं विना नायिकाया: पृथड्‍ मुखं विशेषयितुमस्ति सामर्थ्यम्‍ । अपि च ।
‘ निर्लक्ष्मीकाऽभवत्प्राची प्रतीचीं याति भास्करे । प्रिये विपक्षरमणीरक्ते का मुदमञ्चति ॥ ’
इत्यत्र पूर्वार्धगतायां समासोक्तौ भास्करादीनां नायकत्वाप्रतीतावुत्तरार्धे प्रियत्वादिना समर्थनाया: सर्वथैवानुपपत्ते: । अन्यच्च-अप्रकृतव्यवहार:प्रकृतविशेष्ये प्रकृतव्यवहारताटस्थ्येनारोप्यते, तदभिन्नतया वा ? नाद्य: ।
एवं च प्रकृतविशेष्ये प्रकृताप्रकृतव्यवाहारयोरेकत्र द्वयमिति विषयताशाळी बोध: स्यात्‍ । स चासिद्ध इत्युक्तमेव । न द्वितीय: । इतो‍ऽपि प्रक्टुतव्यब-हार एवाप्रकृतव्यवहारस्याभेदेनारोपो वरीयान्‍, न तु भेदसंसर्गेण प्रकृत-विशेष्ये, अभेदांशे व्यवहारांशे चारोपस्वीकारप्रसद्रात्‍ । मम त्वभेदांश-मात्र इति स्फुत एव विशेष: । तस्मादप्रकृताभिन्नतया व्यवसित: प्रकृत-
व्यवहार: स्वविशेष्ये तद्विशेष्याभिन्नतयावस्थिते भासते । तत्राप्रकृतार्थ उपस्कारकतया गुण इति प्रकार एव रमणीय: । स च न वाक्यार्थरूपके ‘ त्वत्पादनखरत्नानां ’ इत्यत्रेव विशिष्टस्य विशिष्टे । समासोक्तौ तयो: पृथक्छब्दवेद्यत्वाभावात्‍ । किं तु प्रकृतवाक्यार्थघटका: पदार्थास्तादात्म्ये-नाप्रकृतघटकपदार्थालीढा एव वैशिष्टयमनुभवन्तो महावाक्यार्थरूपेण परिणमन्तीति सूक्ष्ममीक्षणीय‍ । अतिशयोक्ताविवाप्रकृतेन प्रकृतस्य निगरणं तु वाच्यम्‍ । तस्य शब्दवाच्यत्वात्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP