सहोक्ति अलंकारः - लक्षण १

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अथ सहोक्ति:-
गुणप्रधानभावावच्छिन्नसहार्थसंबन्ध: सहोक्ति: ॥
ह्लद्यत्वं चालंकारसामान्यलक्षणागतं सकलालंकारसाधारणमेवेत्यसकृ-दुक्तम्‍ । तच्चात्र कार्यकारणपौर्वापर्यविपर्ययात्मिकया श्लेषभित्तिकाभदाध्यव-सानात्मिकया केवलाभेदाध्यवसानात्मिकया चातिशयोक्त्या‍ऽनुप्राणने भवतीति वदन्ति ।
‘ अनुकूलभावमथवा परा ड्‍मुखत्वं सहैव नरलोके । अ न्योन्यविहितमन्त्रौ विधिदिल्लीवल्लभौ वहत: ॥ ’
इत्यादावतिप्रसड्रवारणायावच्छिन्नान्तम्‍ ।
उदाहरणम्‍-
‘ केशैर्वधूनामथ सर्वकोषै: प्राणैश्च साकं प्रतिभूपतीनाम्‍ । त्वया रणे निष्करुणेन राजंश्चापस्य जीवा चकृषे जवेन ॥ ’
अत्र चापाकर्षणकार्याणां केशाकर्षणादीनां पौर्वापर्यविपर्ययेणानुप्रा-णित: सहभाव: , निष्करुणत्वेन च पौर्वापर्यविपर्यय: ।
यथा वा-
‘ भाग्येन सह रिपूणामुत्तिष्ठसि विष्टरात्कुधाविष्ट: । सहसैव पतसि तेषु क्षितिशासन मृत्युना साकम्‍ ॥ ’
पूर्व तु कर्मण: सहोक्ति:, इह कर्तुरिति भेद: ।
‘ त्वयि कुपिते रिपुमण्डलखण्डनपाण्डित्यसंपदुद्दण्डे । गिरिगहनेऽरिवधूनां दिवसै: सह लोचनानि वर्षन्ति ॥ ’
अत्र वर्षण- वर्षवदाचरणयो: श्लेषेणाभेदाध्यवसिति: ।
यथा वा-
‘  बहु मन्यामहे राजन्न वयं भवत: कृतिम्‍ । विपद्भि: सह दीयन्ते संपदो भवता यत: ॥ ’
पूर्वा कर्तृसहोक्ति: , इयं तु कर्मसहोक्तिर्व्याजस्तुतिसंवलिता ।
‘ पद्मपत्रैर्नृणां नेत्रै: सह लोकत्रयश्रिया । उन्मीलन्तो निमीलन्तो जयन्ति सवितु: करा: ॥ ’

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP