यथा वा-
‘ व्योमनि बीजाकुरुते चित्रं निर्माति सुन्दरं पवने । रचयति रेखा: सलिले यस्तु खले चरति सक्तारम्‍ ॥ ’
बीजाकरणं बीजप्रक्षेपपूर्वकं कर्षणम्‍ ।
इदं चापरं बोध्यम्‍-
‘ यान्ती गुरुजनै: साकं स्मयमानाननाम्बुजा । तिर्यग्ग्रीवं यदद्राक्षीत्तन्निष्पत्राकरोज्जगत्‍ ॥ ’
अत्र ‘ भावप्रधानमाख्यातं‍ ’ इति यास्कोक्तरीत्या क्तियाविशेष्यकबोध-वादिनां शाब्द एवाभेदारोप: क्तिययोरिति मुखं चन्द्र इत्यादाविव रूपकमु-चितम्‍ । प्रथमान्तविशेष्यकबोधवादिनां त्वार्थ: स इति निदर्शनेति भेद: । निष्पत्राकरणं च सपुड्खशरस्यापरपार्श्वे निर्गमनात्पत्रराहित्यकरणम्‍ ।

इति रसगंगाधरे निदर्शनाप्रकरणम्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP