उत्प्रेक्षा अलंकारः - लक्षण १२

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.

Tags :

निरूपितत्वं प्रकृतिप्रत्ययार्थयो: संसर्ग: । आश्रयतासंसर्गेण चोत्प्रेक्ष-णम्‍ । उभयथापि पञ्चम्यर्थ एवोत्प्रेक्ष्य:, तेनैवेवाद्यर्थान्वयात्‍ । उत्प्रेक्ष्य-तावच्छेदकसंबन्धेनोत्प्रेक्ष्यसमानाधिकरणश्च धर्मो‍‍ऽतिशयोक्त्या मौनाभि-न्नत्वेनाध्यवसितनिश्चलत्वादिर्निमित्तम्‍ । बद्धमौनं च विषय: । मौनद्वारकं च बद्धमौनस्य प्रयोज्यत्वं संभाव्यते । एवं प्रयोज्यधर्मके धर्मिणि सर्व-
त्रापि धर्मद्वारक एव पञ्चम्यर्थान्वय: । यत्र तु धर्म एव किंचिद्धर्माभिन्न-त्वेनाध्यवसित:साक्षाद्विषयस्तत्र विषयतावच्छेदकधर्मो निमित्तम्‍ । यथा तत्रैव ‘ विश्लेषदु:खादिव मौनमस्य ’ इति निर्माणे मौनत्वम्‍ । एवं तृती-यार्थेऽपि बोध्यम्‍ ।
फलोत्प्रेक्षायां तुमुन्नादेरर्थ: फलम्‍ । प्राग्वत्प्रकृत्यर्थप्रत्ययार्थयोरभेद: संसर्ग: । तच्च साधनतासंसर्गेणान्वेतीति तेनैव संसर्गेणोत्प्रेक्ष्यते, यत्र चोत्प्रे-क्ष्यते तदंशे विशेषणतया भासमानो धर्मो निमित्तम्‍ । स च धर्मिणि विषये
अभिन्नत्वेनाध्यवसितो धर्म: , तथाभूते च धर्मे विषये तद्विशेषणीभूतो‍ऽन्य इति विवेक: । एवं च यत्र समासप्रत्ययगुणीभूते विषये हेतुफलान्वयो
न साक्षात्संभवति तत्र प्रधान एव विषये तादृशविशेषणद्वारकप्रयोज्यत्व-प्रयोजकत्वाभ्यां संसर्गाभ्यां हेतुफलयोरुत्प्रेक्षा बोध्या । यद्यपि विशेषणे-ऽपि यथाकथंचिद्धेतुफलयोरन्वयाद्विशेषणस्यापि विषयत्वमुचितम्‍ । तथापि विषयविषयिणोरुद्देश्यविधेयभावप्रत्ययस्यानुरोधादियं सरणिराश्रिता । यदि च तस्य नास्त्येवानुरोधस्तदा प्राचां दर्शनमेव रमणीयं स्यात्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP