उत्प्रेक्षा अलंकारः - लक्षण ७

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अत्र नीलिमसामानाधिकरण्येनोत्प्रेक्शितस्य हेतुत्वेनोत्प्रेक्षणम्‍ । ‘ कज्जल-लेपनै: ’ इति कृते इयमेव क्तियाहेतूत्प्रेक्षा ।
गुणहेतूत्प्रेक्षा यथा-
‘ परस्परासड्रसुखान्नतभ्रुव: पयोधरौ पीनतरौ बभूवतु: । तयोरमृष्यन्नयमुन्नतिं परामवैमि मध्यस्तनिमानमञ्चति ॥’
अत्र पूर्वार्धे सुखस्य गुणस्य हेतुत्व्म तावत्पञ्चम्यैव निर्दिष्टम्‍ । अपरार्धे धर्मिविशेषणतया अनूद्यमानस्य गुणाभावस्य त्वार्थम्‍ । यथा ‘ भोक्ताभुञ्जानो वा तृप्यति ’ इत्यादौ भोजनादे: ।
यथा वा-
‘ व्यागुञ्जन्मधुकरपुञ्जमञ्जुगीतामाकर्ण्य स्तुतिमुदयत्रपातिरेकात्‍ । आभूमीतलनतकंधराणि मन्येऽरण्येऽस्मिन्नवनिरुहां कुटुम्बकानि ॥’
क्तियाहेतूत्प्रेक्षा यथा-
‘महागुरुकलिन्दमहीधरोदरविदारणाविर्भवन्महापातकावलिवेल्ल-नादिव श्यामलिता ’ इति ।
द्रव्यहेतूत्प्रेक्षा यथा-
‘ वराका यं राकारमण इति वल्गन्ति सहसा सर: स्वच्छं मन्ये मिलदमृतमेतन्मखभुजाम्‍ । अभुष्मिन्या कापि द्युतिरतिघना भाति भिषता-मियं नीलच्छायादुपरि निरपायाद्नगनत: ॥’
अत्रामृतसरोरूपत्वेनोत्प्रेक्षिते चन्द्रमसि नीलत्वेनाध्यवसिते कलड्के उपरिवर्तिनभोहेतुकत्वभुत्प्रेक्ष्यते । एतेन द्रव्यस्य हेतुत्वेनोत्प्रेक्षणं नास्तीति प्राचां प्रवादो निरस्त: ।
एषामेवाभावानां हेतुत्वोत्प्रेक्षा यथा-
‘ नितान्तरमणीयानि वस्तूनि करुणोज्झित: । काल: संहरते नित्यमभावादिव चक्षुष: ॥’
अत्र कालस्य साहजिके संहारकत्वे चक्षुरभावस्य हेतुत्वेनोत्प्रेक्षा ।
‘ नि:सीमशोभासौभाग्यं नताड्रया नयनद्वयम्‍ । अन्योन्यालोकनानन्दविरहादिव चञ्चलम्‍ ॥’

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP