उत्प्रेक्षा अलंकारः - लक्षण ६

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


जात्यादीनामभावोत्प्रेक्षा यथा-
‘ बाहुजानां समस्तानामभाव इव मूर्तिमान्‍ । जयत्यतिबलो लोके जामदग्न्य: प्रतापवान्‍ ॥
अत्र जात्यवच्छिन्नाभावो विरोधित्वनिमित्तेन तादात्म्येनोत्प्रेक्ष्यते । विनाश इवेत्युक्तौ तु ध्वंस: । ‘ समस्तलोकदु:खानाम्‍ ’ इति प्रथमचरणे कृते गुणाभाव: ।
‘ द्यौरञ्जनकालीभिर्जलदालीभिस्तथा वव्रे । जगदखिलमपि यथासीन्निर्लोचनवर्गसर्गमिव ॥’
अत्रापि चाक्षुशज्ञानसामान्यशून्यत्वेन निमित्तेन पार्यन्तिक: क्रियाभावो धर्म: । एवं द्रव्याभावोत्प्रेक्षापि स्वयमूह्या ।
मालारूपाप्येषा संभवति यथा-
‘ द्विनेत्र इव वासव: करयुगो विवस्वानिव द्वितीय इव चन्द्रमा: श्रितवपुर्मनोभूरिव । नराकृतिरिवाम्बुधिर्गुरुरिव क्षमामागतो नुतो निखिलभूसुरैर्जयति कोऽपि भूमीपति: ॥’
अत्र राजगतानां द्विनेत्रत्वादीनां वासवादितादात्म्यविरोधिनां विरोध-निवर्तनाय विषयिषु वासवादिष्वारोपेण साधारणीकरणम्‍ । न चात्रोपमा
शक्यनिरूपणा, द्विनेत्रत्वादीनामुक्तेर्निष्प्रयोजनकत्वापत्ते: । न चोपमाया निष्पादकं तेषां साधारण्यम्‍, तदभावेऽपि परमैश्वर्यादिभि: प्रतीय-मानैस्तस्या निष्पते: । असुन्दरत्वादुपमानिष्पादकत्वेन कवेरनभिप्रेत-त्वाच्च । नह्यत्र द्विनेत्रत्वादिभिर्धर्मैर्वासवादिसादृश्यं राज्ञ: कवेरभिप्राय-विषय: । एवं द्वितीयत्वादीनां चन्द्रादिष्वारोपोऽप्युपमायां सत्यामनर्थक एव स्यात्‍ । अभेदप्रतिपत्तौ तु सहस्रनेत्रेण, सहस्रकरेण, विधिसृष्टावेकेन, वपुविहीनेन, जलाकारेण, स्वर्गगतेन च, तेन तेन कथमस्याभेद; स्यादिति प्रतिकूलधियमपसारयतां विषयिगतानां द्विनेत्रत्वाद्यारोपाणामस्त्येवो-
पयोग: । अत्रैवेवशब्दस्याभावे दृढारोप्म रूपकम्‍ । विषयिगतविशेषणा-नामभावे उपमा । उभयेषामेकतरस्याप्यभावे शुद्धरूपकमिति विवेक: । एवं स्वरूपोत्प्रेक्षादिगुपदर्शिता ।
अथ हेतूत्प्रेक्षा । यथा-
‘ त्वत्प्रतापमहादीपशिखाविपुलकज्जलै: । नूनं नभस्तले नित्यं नीलिमा नूतनायते ॥’

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP