भ्रान्तिमान् अलंकारः - लक्षण २

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


उदाहरणम्‍-

‘ कनकद्रवकान्तिकान्तया मिलितं राममुदीक्ष्य कान्तया । चपलायुतवारिदभ्रमान्ननृते चातकपोतकैर्वने ॥’

अत्र चातकगतहर्षोपस्कारकतया तद्नता भ्रान्तिरलंकार: । अत्रैव यदि परिफुल्लपतत्रपल्लवैर्भुमुदे चातकपोतकैर्वने ’ इत्युत्तरार्धं निर्मीयते तदायमेव भ्रातिध्वनि: ।

यच्चाप्पयदीक्षितैर्लक्षणमुक्तम-

‘ कविसंमतसादृश्याद्विषये पिहितात्मनि । आरोप्यमाणानुभवो यत्र स भ्रान्तिमान्मत: ॥ ’ इति ।

‘ तत्र कविसंमतसादृश्यप्रयोज्ये विषये आरोप्यमाणानुभवो यत्र वाक्सं-दर्भे स भ्रान्तिमान् ’ इति भ्रान्तिमतो लक्षणं विधाय रूपकव्यावृत्त्यर्थं पिहि-तात्मनीत्युच्यते । न चैतद्युक्तम्‍ । नहि रूपकवाक्ये आरोप्यमाणस्यानु-भवो वर्णते, किं तु तस्माज्जायते । न चात्रानुभवान्तं भ्रान्तेर्लक्षणमग्रिमं च भ्रान्तिमत: । तत्र भ्रान्तिलक्षणे रूपकेऽतिव्याप्तेर्वारणाय विषये पिहि-तात्मनीति विशेषणमिति वाच्यम्‍ । अनुभवत्वघटितस्य भ्रान्तिलक्षण-स्यानुभूयमानाभेदात्मके रूपके कथमप्यप्रवृत्ते: । यदि च रूपकपदं रूपक-बुद्धिपरमिति ग्रन्थसामञ्जस्यं विधीयते, तदापि विषयतावच्छेदकानवगा-हिनि ‘ मरकतमणिमेदिनीधरो वा तरुणतरस्तरुरेष वा तमाल: ’ इति संशयेऽतिप्रसड्रात्‍, ‘ कमलमिति चञ्चरीकाश्चन्द्र इति चकोरास्त्वन्मुख-

मनुधावन्ति ’ इति भ्रांतिसमुदायात्मन्युल्लेखेऽतिव्याप्तेश्च । अत्र भ्रान्त्या संकीर्ण उल्लेख इति चेत्‍, नह्येतावतोल्लेखांशातिव्याप्तिर्न दोष: । नहि दुग्धभागजलभागानां व्यामिश्रतास्तीति दुग्धलक्षणं जलांशातिव्याप्तिकं कर्तुं युक्तम्‍ । यच्चापि भिन्नकर्तृकोत्तरोत्तरभ्रान्तावुदाह्लतम्‍-

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP