महागणपतिसहस्राक्षरमालामन्त्र:

महागणपतिसहस्राक्षरमालामन्त्र:

मूलेन त्रिराचम्य । मूलेन प्राणानायम्य ।
द्वि: समृज्य । सकृदुपस्पृश्य ।
चक्षुर्नासिके श्रोत्रे नांभिह्रदये शिरश्चाभिस्पृशेत । अद्यपूर्वोच्चरित -

पुण्यतिथौ श्रीमहागणपतिदेवताप्रीत्यर्थं मम अमुकगोत्रोत्पन्नस्य अमुकनाम्न: मम वश्यार्थे तया च मम त्रिभुवनवश्यार्थं भूतप्रेतपिशाचयक्षराक्षसशाकिनीडाकिनीज्वरनिबर्हणार्थं परविद्यास्तम्भनार्थं सर्वसभावश्यार्थं यश:प्राप्त्यर्थं ईप्सितकामनासिध्द्यर्थं च श्रीमहागणपतिमहाविद्यामलामन्त्रस्य अमुकसंख्यावृत्त्या जपमहं करिष्ये ।

ॐ अस्य श्रीमहागणपतिमहाविद्यामालामन्त्रस्य ब्रह्मा ऋषि: शिरसि । उष्णिक्‌ छन्द: मुखे ।
परब्रह्मस्वरूपिण्यै महागणपतिदेवतायै नम ह्रदये । महागणपतिविद्यास्वरूपिण्यादिकुण्डलिनीबीजाय नम: गुह्ये ।
तत्त्वत्रयव्यापिन्यै त्रिमुद्राशक्तये नम: पादयो: । श्रीर्माविद्याप्रसादसिध्द्यै श्रीमहागणपतिप्रीत्यर्थं जपे विनियोग: ।

मूलेन करषडङ्गन्यासान्‌ कुर्यात्‌ । अथ सिद्धमन्त्रन्यास: ।
ॐ र्‍हीं ॐ अंगुष्ठाम्यां नम: ।
ॐ श्रीं ॐ तर्जनीभ्यां नम: ।
ॐ सिं ॐ मध्यमाभ्यां नम: ।
ॐ द्ध्हिं ॐ अंगुष्ठाभ्यां नम: ।
ॐ श्रीं तर्जनीभ्यां नम: ।
ॐ सिं ॐ मध्यमाभ्यां नम: ।
ॐ द्धिं ॐ अनामिकाभ्यां नम: ।
ॐ आं ॐ कनिष्ठिकाभ्यां नम: ।
ॐ गं ॐ करतलकरपुष्ठाभ्यां नम: ।
ॐ छं ॐ ह्रदयाय नम: ।
ॐ आं ॐ शिरसे स्वाहा ।
ॐ गं ॐ शिखायै वषट्‌ ।
ॐ छं ॐ कवचाय हुम्‌ ।
ॐ आं ॐ नेत्रत्रयाय वौष‍ट्‌ ।
ॐ वं ॐ अस्त्राय फट्‌ ।
ॐ तं ॐ पादाभ्यां नम: ।
ॐ रं ॐ गुल्फाभ्यां नम: ।
ॐ अं ॐ जानुभ्यां नम: ।
ॐ वं ॐ ऊरुभ्यां नम: ।
ॐ तं ॐ गुह्याय नम: ।
ॐ रं ॐ ह्रदयाय नम: ।
ॐ स्त्री ॐ मुखाय नम: ।
ॐ र्‍हां ॐ मूर्ध्ने नम: ।

ध्यानम्‌ । शुक्लम्बरघरं देवं शशिवर्णं चतुर्भुजम्‌ ॥
प्रसन्नवद्रनं ध्याये सर्वविघ्नोपशान्तये ॥१॥
सात्त्विकं राजसं चैव तामसं च तथैव च ॥
तामसं शत्रुशमनं कृत्वा भूतभयापहम्‌ ॥२॥

शिव उवाच - महाविद्यामहं वक्ष्ये ब्रह्मणा जपिता सदा ॥
उत्तमा सर्वविद्यानां त्रैलोक्येषु वशंकरी ॥१॥
राज्ञी च सर्वविद्यानां मोहिनी प्राणिनां सदा ॥
ध्यानमस्या: प्रवक्ष्यामि यतो रक्षेज्जगत्रयम्‌ ॥२॥

ध्यानम्‌ - अष्टदशभुजं देवं नीलजीमूतसम्भवम्‌ ॥
प्रभंजनसमप्रख्यं मेरुमन्दारसंनिभम्‌ ॥३॥
नानारत्नप्रदीप्त च मुकुटाटोपशोभितम्‌ ॥
भीमं चोग्रं विरूपाक्षं चलत्कर्णं सचामरम्‌ ॥४॥
एकदन्तं प्रलम्बोष्ठं नागयज्ञोपवीतिनम्‌ ॥
श्यामं महागजं भीममाभूतं रक्तवाससम्‌ ॥५॥
कटिसुत्रेण हैमेन पुष्पमालांमिरावृतम्‌ ॥
पद्मासनस्थं देवेशं सर्वदेवै: सुपूजितम्‌ ॥६॥
कमलपरशुचक्रपाशशार्ङ्गगदाधरम्‌ ॥
वरदं चाक्षसूत्रं च वज्रमण्डितबाहुकम्‌ ॥७॥
वामेनाभयसंयुक्तकार्मुकं च कमण्डलुम्‌ ॥
पात्रमोदकसंयुक्तं शूलतोमरसंयुतम्‌ ॥८॥
इक्ष्वङकुशकरं चैव वज्रहस्तंमहाबलम्‌ ॥
एवं ध्यात्वा वरं देवं सर्वोपद्रवनाशनम्‌ ॥९॥
पीतध्यानात्भवेत्स्तम्भ: रक्तध्यानात्भवेद्वश: ॥
मारणं कृष्णवर्णेन धूम्रेणोच्चाटनं भवेत्‌ ॥१०॥
आकृष्टं बन्धुपुष्पाभं शबलं पुष्टिदायकम्‌ ॥
हरितं धनकामाय शुक्ल ज्ञानपरायणम्‌ ॥११॥
एवं घ्यायेत विघ्नेशं त्रिकालं तु समाहित: ॥
मासं यो जपते नित्यं तस्यसिद्धिर्न संशय: ॥१२॥

आदौ मूलमन्त्रं जपेत्‌ शतमष्टोत्तरम्‌ ।
ततश्च सिद्धिमन्त्रं जपेत्‌ अष्टोत्तरशतं च ।
पश्चात्‌ विद्यामन्त्रं एकर्विशतिवारं जपेत्‌ ।

ॐ आं र्‍हीं क्रों र्‍हीं र्‍ह: सकलर्‍हीं हसरवफ्रें हसौ: हं सकलकार्यकरी कुलवृद्धिकरी गोत्रसन्तानवृद्धिकरी परमज्ञानकरी अविद्याविध्वंसकरी महाभयविनाशिनी महाज्वरभंजनकरी मनोवाञ्छितदायिनी सर्वमहाभयविनाशिनी दुष्टग्रहनिवारिणी दुष्टजनप्रहारिंणी दुष्टसत्वप्रभंजनी सर्वभूतत्रासिनी सर्वव्याधिनिकृन्तनी सर्वजनप्रशमनी शाकिनीडाकिनीभूतप्रेतपिशाचमर्दिनी विद्राविणी जन्मादिनी ज्वालिनी भंजनी मोहिनी त्निजगद्वयापिनी एकाहिकं द्वयाहिं त्र्याहिकं चतुर्थिकं चातुर्थिकं पाक्षिकं मासिकं सांवत्सरिकं सततं द्दश्यं वर्तमानं नाशय भूतकृतं कर्मकृतं पिशाचकृतं शाकिनीडाकिनीक्रूरग्रहवेतालकृतं दिवाचारी सन्ध्याचारी महद्‌भूतपीदाज्वरं नाशय नाशय मोहय मोहय विद्वेषय विद्वेषय वित्रोटय वित्रोटय त्राटय त्राटय सारय सारय वारय वारय मारय मारय सर्वदुष्टान्‌ सर्वशत्रून्‌ स्र्वविघ्नान्‌ नाशाय नाशाय सर्वद्वेष्यान्‌ मोहय मोहय मारय मरय द्वेषय द्वेषय सर्वशूलं उदरशूलं गुल्ममूर्ध्निशूलं कर्णशूलं हस्त्शूलं पादशूलं सर्वशूलान्‌ मूत्रकृछ्रकश्मलशूलान्‌ वैनायकग्रहान्‌ वृद्धगृहान्‌ बालग्रहान्‌ प्रबलान्‌ कुष्ठान्‌ वातिकान्‌ पैत्तिकान्‌ श्लेष्मिकान्‌ संनिपातिकान्‌ नाशय नाशाय त्रोटय त्रोटय बन्धय बन्धय भंजय भंजय सर्वदिश: बन्धय रसातलं बन्धय भूर्भुव:स्वर्लोकं बन्धय बन्धय महेश्वरं बन्धय बन्धय महाप्रभुं बन्धय बन्धय महाविष्णुं बन्धय बन्धय महेन्द्रं बन्धय बन्धय सुरान्बन्धय बन्धय असुरान्वन्धय बन्धय द्वीपान्बन्धय बन्धय केसरिण: बन्धय नन्धय सर्पान्बन्धय बन्धय व्याघ्नान्वन्धया बन्धय चोरान्बन्धय बन्धय शत्रून्बन्धय बन्धय महामारीं बन्धय बन्धय सर्वभूतजार्ति बन्धय बन्धय सर्वपक्षिजार्ति बन्धय बन्धय सर्वद्विपदचतुष्पादान्‌ बन्धय बन्धय सर्वदुरितचक्षूंषि बन्धय बन्धय सर्वदुष्टजिव्हां बन्धय बन्धय सर्वमन्त्रान्बन्धय बन्धय सर्वदुष्टमर्ति बन्धय बन्धय सर्वमतिं बन्धय बन्धय सर्वं स्तम्भय स्तम्भय सर्वदुष्कृताविद्यां स्तम्भय स्तम्भय भंजय भंजय वशमानय मानय मायाजालेन स्तम्भय स्तम्भय सर्वदुष्टकृतयन्त्रप्रभावं स्तम्भय स्तम्भय सर्वशस्त्राणि स्तम्भय स्तम्भय सर्ववादिन्मूकय मूकय सर्वप्रतिवादीन्बधय बन्धय कीलय कीलय मती: स्तम्भय स्तम्भयं पंचोत्तरकोटिगजान्बन्धय बन्धय भूतप्रेतपिशाचसाकिनीडाकिनीकूष्माण्डवासिनीचातुर्थिकचोरराजदुष्टचोरादीन्‌ तेषां दिश: बन्धय बन्धय विदिश: बन्धय बन्धय रार्त्रि बन्धय बन्धय आकाशं बन्धय बन्धय पातालं बन्धय बन्धय घ्राणं बन्धय बन्धय भ्रूचक्षु:श्रोत्रं बन्धय बन्धय हस्तौ बन्धय बन्धय पादौ बन्धय बन्धय गर्ति बन्धय बन्धय वाचं बन्धय बन्धय मुखं बन्धय बन्धय जिह्नां बन्धय बन्धय शब्दं बन्धय बन्धय पंचाशत्कोटिसहस्रान्तर्योजनविस्तीर्णभूमण्डलदेवमण्डलं बन्धय बन्धय रक्ष रक्ष मां अचलं कुरु कुरु र्‍हींहुंहुंहुं ठंठंठं फट्‌ स्वाहा ।
अहो विघ्नेश्वर महागणेश स्फोटनाय सर्वविघ्नान्‌ नाशय नाशाय अकालमृत्यं जघान जघान वज्रहस्तेन छिंधि छिंधि परशुहस्तेन भिंधि भिंधि अहो गणाधिपते आगच्छ आगच्छ अवतर अवतर श्रीरुद्रं आज्ञापय स्वाहा ।

पुन: मूलमन्त्रं जपेत्‌ शतमष्टोरत्तम्‌ ।
पश्चात्‌ सिद्धिमन्त्रं जपेत्‌ शतमष्टोत्तरम्‌ । ततश्च न्यासं कुर्यात्‌ ।
अनेन विधानेन प्रतिदिनं एकाग्रमना: एकाकी एकर्विशतिदिनपर्यन्तं जपं कुर्यात्‌ । ईप्सितसिद्धिर्भवति ।
य इमां प्रजपेद्विद्यां तस्य हस्ते ज्गत्त्रयम्‌ ॥
अनया सद्दशी विद्या नास्ति शीघ्रफलप्रदा ॥१॥
प्रजापतिरिमां विद्यां जजाप परमां मुदा ॥
रम्यां सृष्टिं विरच्यायं सुखमास्ते सदा दिवि ॥२॥
सकृत्पठनमात्रेण सर्वसिद्धि: प्रजायते ॥
इति ते कथितं सर्वं मिमन्यच्छ्रोतुमिच्छसि ॥३॥
अक्षाकरं सुरेभ्योऽपि भूतादिषु च का कथा ॥

इति श्रीवीरचिन्तामणितन्त्रे शिवपार्वतीसंवादे
श्रीमहागणपतिसहस्त्राक्षरमालामन्त्र: समाप्त: ।

नैवेद्य - या गणेशाला प्रिय असलेला विशेष नैवेद्य : कृति - चार मुठी तांदूळ, एक मासा, मिरे वीस गुंजा, सैंधव दहा मासे, गाईचें तप बारा मासे आणि दूध घालून शिजवावें. तो नैवेद्य तयार करून महागणपतीला समर्पण करून प्रसाद ध्यावा.

अनुष्ठान पूर्ण करून उठण्यापूर्वीं हें विधान केलेल्या भूमीची मृत्तिका तिलक म्हणून लावावी. त्या वेळीं हा मंत्र म्हणावा : अप्रोक्षितमिदं स्थानं शुक्रो हरति तज्जपम्‌ ॥
तद्रेणुतिलकं कृत्वा जपसिद्धिफलं लमे ॥१॥

॥ श्रीगणेशार्पणमस्तु ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP