मनोविनायकव्रतम्‌

मनोविनायकव्रतम्‌

परशुराम उवाच-अरण्ये वर्तमानं च पाण्डुपुत्रं युधिष्ठिरम्‌ ॥
सबान्धवं सुखासीनं ययौ व्यास: समादरात्‌ ॥१॥
तं द्दष्टवा मुनिशार्दूलं व्यासं प्रतिययौ नृप: ॥
अर्घ्यपाद्यादिकीं पूजां कृत्या प्रोवाच तं मुनिम्‌ ॥२॥
युधिष्ठिर उवाचअद्य मे सफलं जन्म भवदागमनेन च ॥
ये च कष्टा हि मे जाता वने च वनवासिन: ॥३॥
ते सर्वं विलयं प्राप्ता भवदागमनात्कवे ॥
आत्मानं साधु मन्येऽहं राज्यतृष्णापराङ्‌मुखम्‌ ॥४॥
दु:खितं मां कथं ब्रह्मन्‌ राज्यभ्रष्टं सुदु:खिता: ॥
इमे भीमादय: सर्वे बान्धवा व्यथयन्ति माम्‌ ॥५॥
दुर्धर्षाश्च सुदुर्वार्या: मच्छासनविधौ रता: ॥
इयं च द्रौपदी साध्वी राजपुत्री पतिब्रता ॥६॥
पूर्वराज्योपभोग्येयमद्य दु:खोपभोगिनी ॥
मया च किं कृतं पूर्वं सर्वकष्टानुजीविना ॥७॥
सोऽहं कष्टाद्विनिर्मुक्तो केनोपायेन तद्वद ॥८॥
व्यास उवाच-व्रतमस्ति महाराज क्लेशव्याधिविनाशनम्‌ ॥
मनोवैनायकं नाम सर्वसिद्धिप्रदं नृप ॥९॥
युधिष्ठिर उवाच-केन चादौ पुरा ज्ञातं मर्त्यकेन प्रकाशितम्‌ ॥
एतत्सर्वं समाचक्ष्व श्रोतुमिच्छामि तत्त्वत: ॥१०॥
व्यास उवाच-गौरिशंकरयो: पूर्वं द्यूतकर्मसमाचलत्‌ ॥
तयो: परस्परं चैष: विवादश्चाभवत्तथा ॥११॥
ईश्वरोऽप्यव्रवीत्तां च जितं द्यूतं मयेति च ॥
पार्वती चाब्रवीत्तं च जितं द्यूतं मया प्रभो ॥१२॥
तयोस्तु साक्षिभूतश्च नास्ति तत्रैव कश्चन ॥
कृता दर्भमयी ताभ्यां पुरुषस्य तदाकृति: ॥१३॥
ईश्वरेणाम्बुना सिक्ता सजीवा साभवत्तदा ॥
विधिवत्तौ च तं पुत्रं नाम्ना शाम्बु च चक्रतु: ॥१४॥
आशापयामासतुस्तौ तं पुत्रं शाम्बुनामकम्‌ ॥
आवयो: साक्षिभूतस्त्वं भवास्मिन्‌ द्यूतकर्मणि ॥१५॥
तौ च तं साक्षिणं कृत्वा चक्रतुर्द्यूतकर्म तत्‌ ॥
ईश्वर: प्रोक्तवानेवं जितं द्यूतं मया प्रिये ॥१६॥
पार्वती चेति तं प्राह जितं द्यूतं मया प्रभो ॥
पप्रच्छुस्तं तदा पुत्रमिदं केन जितं वद ॥१७॥
स एव चाब्रवीत्तत्र ईश्वरेण जितं किल ॥
कृत्वा कोपं तदा देवी पार्वती वाक्यमब्रवीत्‌ ॥१८॥
रे रे पापवशाच्छापफलमास्यसि सत्वरम्‌ ॥
गलत्कुष्ठित्वमधुना मिथ्या साक्षी भविष्यसि ॥१९॥
तस्याश्छापवशाच्छाम्बुर्गलत्कुष्ठित्वमाप्तवान्‌ ॥
मृत्युलोके चरन्‌ शाम्बु: पार्वतीशापपीडित: ॥२०॥
श्रावणे शुक्लपक्षे च चतुर्दश्यां युधिष्ठिर ॥
अरण्ये भ्रमता तेन तडागं पृथुनिर्मलम्‌ ॥२१॥
तत्तीरेऽप्सरसां राजन्‌ समूहं रक्तवाससाम्‌ ॥
द्दष्ट्रवा तदैवं शाम्बुश्च दण्डवत्पतितो भुवि ॥२२॥
कृतं नार्य: किमेतन्मे ब्रूत किं देवतात्मकम्‌ ॥
व्रतफलं च किंचास्य शीघ्रं वदत चानघा: ॥२३॥
स्त्रिय ऊचु :--- मनोविनायकं नामसर्वसिद्धिप्रदं व्रमम्‌ ॥
अस्माभि: क्रियते भक्त्या व्रतं दु:खविनाशनम्‌ ॥२४॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम्‌ ॥
पुत्रार्थी लभते पुत्रान्व्रतस्यस्य प्रभावत: ॥२५॥
शाम्बुरुवाच -- आर्या: एतद्‌व्रतं भक्त्या मम देयं प्रयत्नत: ॥
अस्य व्रतस्य माहात्म्यं विर्धि ब्रूत ममाग्रत: ॥२६॥
किं पुण्यं किं फलं चास्य किं दानं कस्य पूजनम्‌ ॥
कस्मिन्मासे तिथौ कस्यां कर्तव्यं व्रतमुत्तमम्‌ ॥२७॥
स्त्रिय ऊचु: -- श्रावणे तु चतुर्दश्यां तिथौ शुक्ले च पक्षके ॥
विनायकव्रतं तत्र कार्यं चैव व्रतोत्तमम्‌ ॥२८॥
तैलाभ्यङ्गं च मध्याह्ने एकविंशतिभिस्तिलै: ॥
उपवीतं च कर्तव्यं कुंकुमेन च चर्चितम्‌ ॥२९॥
तस्य च ग्रन्थय: कार्या एकर्विशतिसंख्यया ॥
ग्रन्थियुक्तं तत: सूत्रं बंधनीयं प्रयत्नत: ॥३०॥
ततो दूर्वांकुरैश्चैव एकर्विशतिभिर्नृप ॥
तद्वच्च तण्डुलैश्चैव पूजनीयो विनायक: ॥३१॥
एकर्विसतिभि: कार्यं वासरैर्व्रतमुत्तमम्‌ ॥
दिनेषु चैकर्विशेषु व्रतं कार्यं नरौत्तमै: ॥३२॥
यावत्तिथिर्न कर्तव्यस्तैलाभ्यङ्गो नरोत्तमै: ॥
क्षालयेद्वाससी नैव यावद्‌न्नतसमापनम्‌ ॥३३॥
भाद्रशुक्लचतुर्थ्यां तु कार्यमुद्यापनं नृप ॥
तैलाभ्यगं प्रकुर्वीत वस्त्रप्रक्षालनं तत: ॥३४॥
स्वर्णरौप्यस्य ताम्रस्य हेरम्बस्यास्य मृण्मयी ॥
गणेशप्रतिमा कार्या रजन्‌ विभवसारत: ॥३५॥
पूजयेद्भक्तिभावेन चन्दनाद्युपचारत: ॥
उपचारै: षोडसभि: पूजनीयो विनायक: ॥३६॥
मोदकाश्चैव कर्तव्या एकर्विशतिसंख्यया ॥
अनेकरससंपन्ना: धृतेनैव विपाचिता: ॥३७॥
स्थापयेद्नणनाथस्य समीपे कुरुनन्दन ॥
दश विधाय दातव्या: दश भुञ्जीत वै सुखम्‌ ॥३८॥
एकं गणाधिपतये नैवेद्यं च नृपोत्तम ॥
आचार्यं पूजयेद्भक्त्या तस्मै दद्याद्नणेश्वर ॥३९॥
एवं व्रतं प्रकर्तव्यं मनोवाञ्छितकामदम्‌ ॥
करिष्यसि महाभाग राज्यं प्राप्स्यसि सत्वरम्‌ ॥४०॥
व्यास उवाच - तस्य शाम्बुर्व्रतं राजन्‌ कृतवांस्तु प्रयत्नत: ॥
आदाय नलिनीतन्तून्‌ एकविंशतिसंख्यया ॥४१॥
ग्रन्थियुक्तं च तत्सूत्रं हस्ते धृत्वा विनायकम्‌ ॥
पूजयामास राजेन्द्र पूर्वोक्तविधिना तत: ॥४२॥
भाद्रे शुक्लचतुर्थ्यां तु कृममुद्यापनं नृप ॥
एकविंशतिविप्रेभ्यो ददावन्नं सभूषणम्‌ ॥४३॥
गणानां त्वेतिहवनं कृतं च तिलपायसम्‌ ॥
आचार्य: पूजितो भक्त्या गौश्च दत्ता पयस्विनी ॥४४॥
व्रतावसाने तेनाथ कृतमुद्यापनं महत्‌ ॥
शुद्धेन मनसा देव: पूजितो गणनायक: ॥४५॥
व्यास उवाच - तस्य व्रतस्य माहात्म्यात्‌ दिव्यदेहस्तदाभवत्‌ ॥
स्वर्गमार्गे गतिर्जाता व्रतस्यास्य प्रभावत: ॥४६॥
गौरीमहेश्वरौ यत्र तत्र शाम्बुरुपागत: ॥
पार्वत्युवाच रे पुत्र मच्छापस्य विमोचनम्‌ ॥४७॥
कृतं केन समाचक्ष्व स्वर्गमार्गे गति: कृत: ॥
मम शापवशाजात: कुष्ठा: केन निवारित: ॥४८॥
शाम्बुरुवाचमातर्मम त्वया दत्तो शापो यश्च प्रभावत: ॥
गणेशस्य व्रतस्यास्य प्रभावात्सत्वरं गत: ॥४९॥
पार्वत्युवाच - एवं चैतद्‌व्रतं सत्यं मत्पुत्र किं भयास्ति ते ॥
पार्वतीवचनं श्रुत्वा शाम्बुर्वचनमब्रवीत्‌ ॥५०॥
शाम्बुरुवाच - आगमिष्यति पुत्रस्ते व्रतस्यास्य प्रभावत: ॥
मनोविनायकस्याशु तस्मादेतत्समाच्रर ॥५१॥
व्यास उवाच - इति तस्य वच: क्षुत्वा पार्वती ब्रतमाचर‍त्‌ ॥
तस्य प्रभावात्‌ द्दष्टोऽपि कार्तिकेयस्त्दाययौ ॥५२॥
तं द्दष्ट्रवा पार्वती प्राह जातं मे सफलं व्रतम्‌ ॥
मनोवैनायकं नाम त्वदागमनकारकम्‌ ॥५३॥
कार्तिकेय उवाचयदि मात: करिष्यामि विश्वामित्रो मम प्रिय: ॥
आगमिष्यति वेगेन व्रतस्यास्य प्रभावत: ॥५४॥
व्यास उवाच - एवमुक्त्वा चचाराथ गणेशस्य व्रंत गुह: ॥
तस्य व्रतस्य सामर्थात्‌ विश्वामित्र: समागत: ॥५५॥
विश्वामित्रोऽपि भार्यार्थी चचारेदं विधानत: ॥
काशीश्वरस्य कन्यां स: स्त्रियं लेमे सुलक्षणाम्‌ ॥५६॥
राज्यं च प्राप्तवान्‌ सद्यो गणेशस्य प्रभावत: ॥
विश्वामित्रं चरन्तं तद्‌व्रतं द्दष्ट्रवास्य भामिनि ॥५७॥
गणेशप्रीतये सद्य: पप्रच्छ मुनिपुंगवम्‌ ॥
स्वामिन्व्रतं किमेतन्मे कथ्यतां विधिपूर्वकम्‌ ॥५८॥
मम मातु: सुतो नास्ति भविष्यति महामुने ॥
तेन प्रोक्तं सुतो मातुर्भविष्यति न संशय: ॥५९॥
व्रतस्यास्य प्रभावेण कुरुष्वेदं यथाविधि ॥
एकर्विशतिदूर्वाभि: संख्याभिश्च तथा तिलै: ॥६०॥
गणेशपूजनं कार्यं वासरै: पूर्वसंख्यया ॥
व्रतस्योद्यापनं कार्यं एकर्विशतिवासरे ॥६१॥
मोदकाश्च प्रकर्तव्या एकर्विशतिसंख्यया ॥
निवेद्यैकं गणेशाय दद्याद्विप्राय वै दश ॥६२॥
दश स्वयं च भुञ्जीत सगुडान्‌ घृतपाचितान्‌ ॥
एवं व्रतं प्रकर्तव्यं गणेशप्रीतये प्रिये ॥६३॥
अस्य प्रसादात्संप्राप्तं राज्यमेतदकण्टकम्‌ ॥
अतिरूपवतीं भार्यां त्वाद्दशीं प्राप्तवानहम्‌ ॥६४॥
मनोविनायकस्यैतत्कुरुष्व व्रतमुत्तमम्‌ ॥
व्रतस्यास्य प्रभावेण मातुस्ते संभविष्यति ॥६५॥
पुत्र: सुभोभनस्तस्माद्‌व्रतं च त्वं कुरु प्रिये ॥
इति भर्तु: वच: श्रुत्वा सा चक्रे व्रतमुत्तमम्‌ ॥६६॥
तत्प्रभावादभूत्तस्य मातु: पुत्र: सुभोभन: ॥
तस्या अपि बभूवाथ सुतो लोकनमस्कृत: ॥६७॥
हरिहरविधिवन्द्यं सर्वलोकैकपूज्यं इति परमभक्त्या विघ्नराजं प्रपूज्य ॥
सुतमसुखदं तं सा व्रतस्य प्रभावात्‌ स्वयमपि जननीव प्राप्य तुष्टा बभूव ॥६८॥
उशीनरसुता पत्या वियुक्ता जितवत्यपि ॥
जाता कान्तेन संयुक्ता सुखिनी ससुता नृप ॥६९॥

इति मनोविनायकव्रतम्‌ ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP