मराठी मुख्य सूची|स्तोत्रे|राम स्तोत्रे|
आसीद्धराधामललामरूपो नासीद...

त्वमेव ब्रूहि स्तोत्रम् - आसीद्धराधामललामरूपो नासीद...

श्री राम हा विष्णूचा सातवा अवतार आहे.


आसीद्धराधामललामरूपो नासीदहो कस्य गुरुर्गरीयान् । देशः स एवाद्य त्वदीयप्रेयान् हेयानधस्तिष्ठति सर्वदेशात् ॥१॥
अभूदयोध्या भवदीयमेध्या पुरी पुरा देवपुरादपीह । म्लेच्छैरुपेतामवलोक्यते तां नो दूयते किं वद चारु चेतः ॥२॥
पुरा सुराक्रान्तवसुन्धराया व्यथा त्वया किं न निराकृता सा । तत्ते बलं क्वास्ति खरः शरो वा गोघातिनो हन्त कथं न हन्सि ॥३॥
मन्ये महापापकलापकारी चेद्रावणो हन्त हतस्त्वयैव । किं तद्विधानद्य न पश्यसीह यद्वा त्वमस्माकमिवासि भीतः ॥४॥
सीतातिमीता दशकन्धरेण वीता त्वया शान्तिमितो न भेदः । नानाबला हाद्य खला हरन्ति नायांसि कारुण्यमितोऽस्ति खेदः ॥५॥
नोचेद् दयाघन दयामधुना करोषि सन् दीनबन्धुरपि निष्ठुरतां तनोसि । कस्यान्तिकं व्रजतु भारतमेतदद्य लोकाभिराम घनश्याम त्वमेव ब्रूहि ॥६॥
॥श्रीराजमणिशर्मकृतं त्वमेवब्रूहिस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : July 20, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP