उपदेशसाहस्री - उपदेश ११

भारतीय संस्कृतिच्या विकासात आद्य शंकराचार्यांचे विशेष योगदान आहे.


उपदेश ११
ईक्षितृत्वं स्वतःसिद्धं जन्तूनां च ततोऽन्यता । अज्ञानादित्यतोऽन्यत्वं सदसीति निवर्त्यते ॥
एतावद् ध्यमृतत्वं न किंचिदन्यत् सहायकम् । ज्ञानस्येति ब्रुवच्छास्त्रं सलिञ्गं कर्म बाधते ॥
सर्वेषां मनसो वृत्तमविशेषेण पश्यतः । तस्य मे निर्विकारस्य विशेषः स्यात् कथंचन ॥
मनोवृत्तं मनश्चैव स्वप्नवज् जाग्रतीक्षितुः । संप्रसादे द्वयासत्त्वाच् चिन्मात्रः सर्वगोऽद्वयः ॥
स्वप्नः सत्यो यथा ऽऽबोधाद् देहात्मत्वं तथैव च । प्रत्यक्षादेः प्रमाणत्वं जाग्रत् स्यादा ऽऽत्मवेदनात्  ॥
व्योमवत् सर्वभूतस्थो भूतदोषैर्विवर्जितः । साक्षी चेताऽगुणः शुद्धो ब्रह्मैवास्मीति केवलः ॥
नामरूपक्रियाभ्योऽन्यो नित्यमुक्तस्वरूपवान् । अहमात्मा परं ब्रह्म चिन्मात्रोऽहं सदाद्वयः ॥
अहं ब्रह्मास्मि कर्ता च भोक्ता चास्मीति ये विदुः । ते नष्टा ज्ञानकर्मभ्यां नास्तिकाः स्युर्न संशयः ॥
धर्माधर्मफलैर्योग इष्टोऽदृष्टो यथात्मनः । शास्त्राद् ब्रह्मत्वमप्यस्य मोक्षो ज्ञानात् तथेष्यताम् ॥
या माहाराजनाद्यास्ता वासनाः स्वप्नदर्शिभिः । अनुभूयन्त एवेह ततोऽन्यः केवलो दृषिः ॥
कोशादिव विनिष्कृष्टः कार्यकारणवर्जितः । यथासिर्दृश्यते स्वप्ने तद्वद् बोद्धा स्वयंप्रभः ॥
आपेषात् प्रतिबुद्धस्य ज्ञस्य स्वाभाविकं पदम् । उक्तं नेत्यादिवाक्येन कल्पितस्यापनेतृणा ॥
महाराजादयो लोका मयि यद्वत् प्रकल्पिताः । स्वप्ने तद्वद् द्वयं विद्याद् रूपं वासनया सह ॥
देहलिञ्गात्मना कार्या वासनारूपिणा क्रिया । नेतिनेत्यात्मरूपत्वान् न मे कार्या क्रिया क्वचित् ॥
न ततोऽमृतताशास्ति कर्मणोऽज्ञानहेतुतः । मोक्षस्य ज्ञानहेतुत्वान् न तदन्यदपेक्षते ॥
अमृतं चाभयं नार्तं नेतीत्यात्मा प्रियो मम । विपरीतमतोऽन्यद् यत् त्यजेत् तत् सक्रियं ततः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:20.6930000