उपदेशसाहस्री - उपदेश ८

भारतीय संस्कृतिच्या विकासात आद्य शंकराचार्यांचे विशेष योगदान आहे.


चितिस्वरूपं स्वत एव मे मते रसादियोगस्तव मोहकारितः । अतो न किंचित् तव चेष्टितेन मे फलं भवेत् सर्वविशेषहानतः ॥
विमुच्य मायामयकार्यतामिह प्रशान्तिमायाह्यसदीहितात् सदा । अहं परं ब्रह्म सदा विमुक्तवत् तथाजमेकं द्वयवर्जितं यतः ॥
सदा च भूतेषु समोऽस्मि केवलो यथा च खं सर्वगमक्षरं शिवम् । निरन्तरं निष्कलमक्रियं परं ततो न मेऽस्तीह फलं तवेहितैः ॥
अहं ममैको न तदन्यदिष्यते तथा न कस्याप्यहमस्म्यसञ्गतः । असञ्गरूपोऽहमतो न मे त्वया कृतेन कार्यं तव चाद्वयत्वतः ॥
फले च हेतौ च जनो विषक्तवानिति प्रचिन्याहमतो विमोक्षणे । जनस्य संवादमिमं प्रक्ळ्प्तवान् स्वरूपतत्त्वार्थविबोधकारणम् ॥
संवादमेतं यदि चिन्तयेन् नरो विमुच्यतेऽज्ञानमहाभयागमात् । विमुक्तकामश्च तथा जनः सदा चरत्यशोकः सम आत्मवित् सुखी ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP