उपदेशसाहस्री - उपदेश ६

भारतीय संस्कृतिच्या विकासात आद्य शंकराचार्यांचे विशेष योगदान आहे.


छित्त्वा त्यक्तेन हस्तेन स्वयं नात्मा विशेष्यते । तथा शिष्टेन सर्वेण येन येन विशेष्यते ॥
तस्मात् त्यक्तेन हस्तेन तुल्यं सर्वं विशेषणम् । अनात्मत्वेन तस्माज् ज्ञो मुक्तः सर्वविशेषणैः ॥
विशेषणमिदं सर्वं ज्ञात आत्मन्यसद् भवेत् । अविद्यास्तमतः सर्वं ज्ञात आत्मन्यसद् भवेत् ॥
ज्ञातैवात्मा सदा ग्राह्यो ज्ञेयमुत्सृज्य केवलः । अहमित्यपि यद् ग्राह्यं व्यपेताञ्गसमं हि तत् ॥
यावान् स्यादिदमंशो यः स स्वतोऽन्यो विशेषणम् । विशेषप्रक्षयो यत्र सिद्धो ज्ञश्चित्रगुर्यथा ॥
इदमंशोऽहमित्यत्र त्याज्यो नात्मेति पण्डितैः । अहं ब्रह्मेति शिष्टोऽंशो भूतपूर्वगतेर्भवेत् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP