योगतारावली

भारतीय संस्कृतिच्या विकासात आद्य शंकराचार्यांचे विशेष योगदान आहे.


वन्दे गुरूणां चरणारविन्दे सन्दर्शितस्वात्मसुखावबोधे । जनस्य ये जाङ्गलिकायमाने संसारहालाहलमोहशान्त्यै ॥१॥
सदाशिवोक्तानि सपादलक्षलयावधानानि वसन्ति लोके । नादानुसन्धानसमाधिमेकं मन्यामहे मान्यतमं लयानाम् ॥२॥
सरेचपूरैरनिलस्य कुम्भैः सर्वासु नाडीषु विशोधितासु । अनाहताख्यो बहुभिः प्रकारैरन्तः प्रवर्तेत सदा निनादः ॥३॥
नादानुसन्धान नमोऽस्तु तुभ्यं त्वां साधनं तत्त्वपदस्य जाने । भवत्प्रसादात्पवनेन साकं विलीयते विष्णुपदे मनो मे ॥४॥
जालन्धरोड्याणनमूलबन्धाञ्जल्पन्ति कण्ठोदरपायुमूलान् । बन्धत्रयेऽस्मिन्परिचीयमाने बन्धः कुतो दारुणकालपाशात् ॥५॥
ओड्याणजालन्धरमूलबन्धैरुन्निद्रितायामुरगाङ्गनायाम् । प्रत्यङ्मुखत्वात्प्रविशन्सुषुम्नां गमागमौ मुञ्चति गन्धवाहः ॥६॥
उत्थापिताधारहुताशनोल्कैराकुञ्चनैः शश्वदपानवायोः । सन्तापिताच्चन्द्रमसः पतन्तीं पीयूषधारां पिबतीह धन्यः ॥७॥
बन्धत्रयाभ्यासविपाकजातां विवर्जितां रेचकपूरकाभ्याम् । विशोषयन्तीं विषयप्रवाहं विद्यां भजे केवलकुम्भरूपाम् ॥८॥
अनाहते चेतसि सावधानैरभ्यासशूरैरनुभूयमाना । संस्तम्भितश्वासमनःप्रचारा सा जृम्भते केवलकुम्भकश्रीः ॥९॥
सहस्रशः सन्तु हठेषु कुम्भाः सम्भाव्यते केवलकुम्भ एव । कुम्भोत्तमे यत्र तु रेचपूरौ प्राणस्य न प्राकृतवैकृताख्यौ ॥१०॥
त्रिकूटनाम्नि स्तिमितेऽन्तरङ्गे खे स्तम्भिते केवलकुम्भकेन । प्राणानिलो भानुशशाङ्कनाड्यौ विहाय सद्यो विलयं प्रयाति ॥११॥
प्रत्याहृतः केवलकुम्भकेन प्रबुद्धकुण्डल्युपभुक्तशेषः । प्राणः प्रतीचीनपथेन मन्दं विलीयते विष्णुपदान्तराले ॥१२॥
निरङ्कुशानां श्वसनोद्गमानां निरोधनैः केवलकुम्भकाख्यैः । उदेति सर्वेन्द्रियवृत्तिशून्यो मरुल्लयः कोऽपि महामतीनाम् ॥१३॥
न दृष्टिलक्ष्याणि न चित्तबन्धो न देशकालौ न च वायुरोधः । न धारणाध्यानपरिश्रमो वा समेधमाने सति राजयोगे ॥१४॥
अशेषदृश्योज्झितदृङ्मयानामवस्थितानामिह राजयोगे । न जागरो नापि सुषुप्तिभावो न जीवितं नो मरणं विचित्रम् ॥१५॥
अहम्ममत्वाद्व्यपहाय सर्व श्रीराजयोगे स्थिरमानसानाम् । न द्रष्टृता नास्ति च दृश्यभावः सा जृम्भते केवलसंविदेव ॥१६॥
नेत्रे ययोन्मेषनिमेषशून्ये वायुर्यया वर्जितरेचपूरः । मनश्च सङ्कल्पविकल्पशून्यं मनोन्मनी सा मयि सन्निधत्ताम् ॥१७॥
चित्तेन्द्रियाणां चिरनिग्रहेण श्वासप्रचारे शमिते यमीन्द्राः । निवातदीपा इव निश्चलाङ्गाः मनोन्मनीमग्नधियो भवन्ति ॥१८॥
उन्मन्यवस्थाधिगमाय विद्वन् उपायमेकं तव निर्दिशामः । पश्यन्नुदासीनतया प्रपञ्चं सङ्कल्पमुन्मूलय सावधानः ॥१९॥
प्रसह्य सङ्कल्पपरम्पराणां सम्भेदने सन्ततसावधानम् । आलम्बनाशादपचीयमानं शनैः शनैः शान्तिमुपैति चेतः ॥२०॥
निश्वासलोपैर्निभृतैः शरीरैर्नेत्राम्बुजैरर्धनिमीलितैश्च । आविर्भवन्तीममनस्कमुद्रामालोकयामो मुनिपुङ्गवानाम् ॥२१॥
अमी यमीन्द्राः सहजामनस्का-दहंममत्वे शिथिलायमाने । मनोतिगं मारुतवृत्तिशून्यं गच्छन्ति भावं गगनावशेषम् ॥२२॥
निवर्तयन्तीं निखिलेन्द्रियाणि प्रवर्तयन्तीं परमात्मयोगम् । संविन्मयीं तां सहजामनस्कां कदा गमिष्यामि गतान्यभावः ॥२३॥
प्रत्यग्विमर्शातिशयेन पुंसां प्राचीनगन्धेषु पलायितेषु । प्रादुर्भवेत्काचिदजाड्यनिद्रा प्रपञ्चचिन्तां परिवर्जयन्ती ॥२४॥
विच्छिन्नसङ्कल्पविकल्पमूले निःशेषनिर्मूलितकर्मजाले । निरन्तराभ्यासनितान्तभद्रा सा जृम्भते योगिनि योगनिद्रा ॥२५॥
विश्रान्तिमासाद्य तुरीयतल्पे विश्वाद्यवस्थात्रितयोपरिस्थे । संविन्मयीं कामपि सर्वकालं निद्रां सखे निर्विश निर्विकल्पाम् ॥२६॥
प्रकाशमाने परमात्मभानौ नश्यत्यविद्यातिमिरे समस्ते । अहो बुधा निर्मलदृष्टयोऽपि किञ्चिन्न पश्यन्ति जगत्समग्रम् ॥२७॥
सिद्धिं तथाविधमनोविलयां समाधौ श्रीशैलश्रृङ्गकुहरेषु कदोपलप्स्ये । गात्रं यदा मम लताः परिवेष्टयन्त  कर्णे यदा विरचयन्ति खगाश्च नीडान् ॥२८॥
विचरतु मतिरेषा निर्विकल्पे समाधौ कुचकलशयुगे वा कृष्णसारेक्षणानाम् । चरतु जडमते वा सज्जनानां मते वा मतिकृतगुणदोषा मां विभुं न स्पृशन्ति ॥२९॥

॥इति श्री आदि शङ्करभगवत्पाद विरचितं योगतारावली सम्पूर्णम् ॥

N/A

References :
Encoded and roofread by Arun Shantharam

Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP