ब्रह्मानुचिन्तनम्

भारतीय संस्कृतिच्या विकासात आद्य शंकराचार्यांचे विशेष योगदान आहे.


अहमेव परं ब्रह्म वासुदेवाख्यमव्ययम् । इति स्यान्निश्चितो मुक्तो बद्ध एवान्यथा भवेत् ॥१॥
अहमेव परं ब्रह्म निश्चितं चित्त चिन्त्यताम् । चिद्रूपत्वादसञ्गत्वादबाध्यत्वात् प्रयत्नतः ॥२॥
अहमेव परं ब्रह्म न चाहं ब्रह्मणः पृथक् । इत्येवं समुपासीत ब्राह्मणो ब्रह्मणि स्थितः ॥३॥
सर्वोपाधिविनिर्मुक्तं चैतन्यं च निरन्तरम् । तद्ब्रह्माहमिति ज्ञात्वा कथं वर्णाश्रमी भवेत् ॥४॥
अहं ब्रह्मास्मि यो वेद स सर्वं भवति त्विदम् । नाभूत्या ईशते देवास्तेओआमात्मा भवेद्धि सः ॥५॥
अन्यो असावहमन्यो अस्मीत्युपास्ते यो अन्यदेवताम् । न स वेद नरो ब्रह्म स देवानां यथा पशुः ॥६॥
अहमात्मा न चान्योऽस्मि ब्रह्मैवाहं न शोकभाक् । सच्चिदानन्दरूपोऽहं नित्यमुक्तस्वभाववान् ॥७॥
आत्मानं सततं ब्रह्म संभाव्य।विहरन्ति ये । न तेषां दुष्कृतं किञ्चिद्दुष्कृतोत्था न चापदः ॥
आत्मानं सततं ब्रह्म संभाव्य विहरेत्सुखम् ॥८॥९॥
क्षणं ब्रह्माहमस्मीति यः कुर्यादात्मचिन्तनम् । तन्महापातकं हन्ति तमः सूर्योदयो यथा ॥१०॥
अज्ञानाद्ब्रह्मणो ज्ञातमाकाशं बुद्बुदोपमम् । आकाशाद्वायुरुत्पन्नो वायोस्तेजस्ततः पयः ॥११॥
अद्भ्यश्च पृथिवी ज्ञाता ततो व्रीहियवादिकम् । पृथिव्यप्सु पयो वह्नौ वह्निर्वायौ नभस्यसौ ।
नभोऽप्यव्याकृते तच्च शुद्धे शुद्धोऽस्म्यहं हरिः ॥१२॥
अहं विष्णुरहं विष्णुरहं विष्णुरहं हरिः । कर्तृभोक्त्रादिकं सर्वं तदविद्योत्थमेव च ॥१३॥
अच्युतोऽहमनन्तोऽहं गोविन्दोऽहमहंहरिः । आनन्दोऽहमशेषोऽहमजोऽहममृतोऽस्म्यहम् ॥१४॥
नित्योऽहं निर्विकल्पोऽहं निराकारोऽहमव्ययः । सच्चिदानन्दरूपोऽहं पङ्चकोशातिगोऽस्म्यहम् ॥१५॥
अकर्ताऽहमभोक्ताऽहमसङ्गः परमेश्वरः। सदा मत्सन्निधानेन चेष्टते सर्वमिन्द्रियं।॥१६॥
आदिमध्यान्तमुक्तोऽहं न बद्धोऽहं कदाचन । स्वभावनिर्मलः शुद्धः स एवाहं न संशयः ॥१७॥
ब्रह्मैवाहं न संसारी मुक्तोऽहमिति भावयेत् । अशक्नुवन्भावयितुं वाक्यमेतत्सदाऽभ्यसेत् ॥१८॥
यदभ्यासेन तद्भावो भवेद्भ्रमरकीटवत् । अत्रापहाय सन्देहमभ्यसेत्कृतनिश्चयः ॥१९॥
ध्यानयोगेन मासैकाद्ब्रह्महत्यां व्यपोहति ।
संवत्सरं सदाऽभ्यासात्सिद्ध्यष्टकमवाप्नुयात् । यावज्जीवं सदाऽभ्यासाज्जीवन्मुक्तो भवेद्यतिः ॥२०॥
नाहं देहो न च प्राणो नेन्द्रियाणि तथैव च । न मनोऽहं न बुद्धिश्च नैव चित्तमहङ्कृतिः ॥२१॥
नाहं पृथ्वी न सलिलं न च वह्निस्तथाऽनिलः । न चाकाशो न शब्दश्च न च स्पर्शस्तथा रसः ॥२२॥
नाहं गन्धो न रूपं च न मायाऽहं न संसृतिः । सदा साक्षिस्वरूपत्वाच्छिव एवास्मि केवलः ॥२३॥
मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् । मयि सर्वं लयं याति तद्ब्रह्मास्म्यहमद्वयम् ॥२४॥
सर्वज्ञोऽहमनन्तोऽहं सर्वेशः सर्वशक्तिमान् । आनन्दः सत्यबोधोऽहमिति ब्रह्मानुचिन्तनम् ॥२५॥
अयं प्रपञ्चो मिथ्यैव सत्यं ब्रह्माहमव्ययम् । अत्र प्रमाणं वेदान्ता गुरवोऽनुभवस्तथा ॥२६॥
ब्रह्मैवाहं न संसारी न चाहं ब्रह्मणः पृथक् । नाहं देहो न मे देहः केवलोऽहं सनातनः ॥२७॥
॥इति श्रीमद् शङ्कराचार्यविरचितं ब्रह्मानुचिन्तनं समाप्तं ॥

N/A

References :
Encoded and roofread by Sorin Suciu aka SeSe at sorins at hotmail।com।

Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP