प्रश्नोत्तररत्नमालिका

भारतीय संस्कृतिच्या विकासात आद्य शंकराचार्यांचे विशेष योगदान आहे.


कः खलु नालङ्क्रियते दृष्टादृष्टार्थसाधनपटीयान् । अमुया कण्ठस्थितया प्रश्नोत्तररत्नमालिकया ॥१॥
भगवन् किमुपादेयं गुरुवचनं हेयमपि किमकार्यं । को गुरुः अधिगततत्त्वः शिष्यहितायोद्यतः सततं ॥२॥
त्वरितं किं कर्तव्यं विदुषां संसारसन्ततिच्छेदः । किं मोक्षतरोर्बीजं सम्यक्ज्ञानं क्रियासिद्धं ॥३॥
कः पथ्यतरो धर्मः कः शुचिरिह यस्य मानसं शुद्धं । कः पण्डितो विवेकी किं विषमवधीरणा गुरुषु ॥४॥
किं संसारे सारं बहुशोऽपि विचिन्त्यमानमिदमेव । किं मनुजेष्विष्टतमं स्वपरहितायोद्यतं जन्म ॥५॥
मदिरेव मोहजनकः कः स्नेहः के च दस्यवो विषयाः । का भववल्लि तृष्णा को वैरी यस्त्वनुद्योगः ॥६॥
कस्माद्भयमिह मरणादन्धादिह को विशिष्यते रागी । कः शूरो यो ललनालोचनबाणैर्न च व्यधितः ॥७॥
पान्तुं कर्णाञ्जलिभिः किममृतमिह युज्यते सदुपदेशः । किं गुरुताया मूलं यदेतदप्रार्थनं नाम ॥८॥
किं गहनं स्त्रीचरितं कश्चतुरो यो न खण्डितस्तेन । किं दुःखं असन्तोषः किं लाघवमधमतो याच्ञा ॥९॥
किंजीवितमनवद्यं किं जाड्यं पाठतोऽप्यनभ्यासः । को जागर्ति विवेकी को निद्रा मूढता जन्तोः ॥१०॥
नलिनीदलगतजलवत्तरलं किं यौवनं धनं चायुः । कथय पुनः के शशिनः किरणसमाः सज्जना एव ॥११॥
को नरकः परवशता किं सौख्यं सर्वसङ्गविरतिर्या । किं सत्यं भूतहितं प्रियं च किं प्राणिनामसवः ॥१२॥
कोऽनर्थफलो मानः का सुखदा साधुजनमैत्री । सर्वव्यसनविनाशे को दक्षः सर्वथा त्यागी ॥१३॥
किं मरणं मूर्खत्वं किं चानर्घं यदवसरे दत्तं । आमरणात् किं शल्यं प्रच्छन्नं यत्कृतं पापं ॥१४॥
कुत्र विधेयो यत्नो विद्याभ्यासे सदौषधे दाने । अवधीरणा क्व कार्या खलपरयोषित्परधनेषु ॥१५॥
काहर्निशमनुचिन्त्या संसारासारता न तु प्रमदा । का प्रेयसी विधेया करणा दीनेषु सज्जने मैत्री ॥१६॥
कण्ठगतैरप्यसुभिः कस्य ह्यात्मा न शक्यते जेतुं । मूर्खस्य शङ्कितस्य च विषादिनो वा कृतघ्नस्य ॥१७॥
कः साधुः सदवृत्तः कमधममाचक्षते त्वसद्वृत्तं । केन जितं जगदेतत्सत्यतितिक्षावता पुंसा ॥१८॥
कस्मै नमांसि देवाः कुर्वन्ति दयाप्रधानाय । कस्मादुद्वेगः स्यात्संसारारण्यतः सुधियः ॥१९॥
कस्य वशे प्राणिगणः सत्यप्रियभाषिणो विनीतस्य । क्व स्थातव्यं न्याय्ये पथि दृष्टादृष्टलाभाढ्ये ॥२०॥
कोऽन्धो योऽकर्यरतः को बधिरो यो हितानि न शृणोति । को मूको यः काले प्रियाणि वक्तुं न जानाति ॥२१॥
किं दानमनाकाङ्क्षं किं मित्रं यो निवारयति पापात् । कोऽलङ्कारः शीलं किं वाचां मण्डनं सत्यं ॥२२॥
विद्युद्विलसितचपलं किं दुर्जनसङ्गतिर्युवतयश्च । कुलशीलनिष्प्रकम्पाः के कलिकालेऽपि सज्जना एव ॥२३॥
चिन्तामणिरिव दुर्लभमिह किं कथयामि तच्चतुर्भद्रं । किं तद्वदन्ति भूयो विधुततमसा विशेषेण ॥२४॥
दानं प्रियवाक्सहितं ज्ञानमगर्वं क्षमान्वितं शौर्यं । वित्तं त्यागसमेतं दुर्लभमेतच्चतुर्भद्रं ॥२५॥
किं शोच्यं कार्पण्यं सति विभवे किं प्रशस्तमौदार्यं । कः पूज्यो विद्वद्भिः स्वभावतः सर्वदा विनीतो यः ॥२६॥
कः कुलकमलदिनेशः सति गुणाविभवेऽपि यो नम्रः । कस्य वशे जगदेतत्प्रियहितवचनस्यधर्मनिरतस्य ॥२७॥
विद्वन्मनोहरा का सत्कविता बोधवनिता च । कं न स्पृशति विपत्तिः प्रवृद्धवचनानुवर्तिनं दान्तं ॥२८॥
कस्मै स्पृहयति कमला त्वनलसचित्ताय नीतिवृत्ताय । त्यजति च कं सहसा द्विजगुरुसुरनिन्दाकरं च सालस्यं ॥२९॥
कुत्र विधेयो वासः सज्जननिकटेऽथवा काश्यां । कः परिहार्यो देशः पिशुनयुतो लुब्धभूपश्च ॥३०॥
केनाशोच्यः पुरुषः प्रणतकलत्रेण धीरविभवेन । इह भुवने कः शोच्यः सत्यपि विभवे न यो दाता ॥३१॥
किं लघुताया मूलं प्राकृतपुरुषेषु या याच्ञा । रामादपि कः शूरः स्मरशरनिहतो न यश्चलति ॥३२॥
किमहर्निशमनुचिन्त्यं भगवच्चरणं न संसारः । चक्षुष्मन्तोऽप्यन्धाः के स्युः ये नास्तिका मनुजाः ॥३३॥
कः पङ्गुरिह प्रथितो व्रजति च यो वार्द्धके तीर्थं । किं तीर्थमपि च मुख्यं चित्तमलं यन्निवर्तयति ॥३४॥
किं स्मर्त्तव्यं पुरुषैः हरिनाम सदा न यावनी भाषा । को हि न वाच्यः सुधिया परदोषश्चानृतं तद्वत् ॥३५॥
किं संपाद्यं मनुजैः विद्या वित्तं बलं यशः पुण्यं । कः सर्वगुणविनाशी लोभः शत्रुश्च कः कामः ॥३६॥
का च सभा परिहार्या हीना या वृद्धसचिवेन । इह कुत्रावहितः स्यान्मनुजः किल राजसेवायां ॥३७॥
प्राणादपि को रम्यः कुलधर्मः साधुसङ्गश्च । का संरक्ष्या कीर्तिः पतिव्रता नैजबुद्धिश्च ॥३८॥
का कल्पलता लोके सच्छिष्यायार्पिता विद्या । कोऽक्षयवटवृक्षः स्यात्विधिवत्सत्पात्रदत्तदानं यत् ॥३९॥
किं शस्त्रं सर्वेषां युक्तिः माता च का धेनुः । किं नु बलं यद्धैर्यं को मृत्युः यदवधानरहितत्वं ॥४०॥
कुत्र विषं दुष्टजने किमिहाशौचं भवेतृणं नृणां । किमभयमिह वैराम्यं भयमपि किं वित्तमेव सर्वेषां ॥४१॥
का दुर्लभा नराणां हरिभक्तिः पातकं च किं हिंसा । को हि भगवत्प्रियः स्यात्योऽन्यं नोद्वेजयेदनुद्विग्नः ॥४२॥
कस्मात् सिद्धिः तपसः बुद्धिः क्व नु भूसुरे कुतो बुद्धिः । वृद्धोपसेवया के वृद्धा ये धर्मतत्त्वज्ञाः ॥४३॥
संभावितस्य मरणादधिकं किं दुर्यशो भवति । लोके सुखी भवेत्को धनवान्धनमपि च किं यतश्चेष्टं ॥४४॥
सर्वसुखानां बीजं किं पुण्यं दुःखमपि कुतः पापात् । कस्यैश्वर्यं यः किल शङ्करमाराधयेद्भक्त्या ॥४५॥
को वर्द्धते विनीतः को वा हीयेत यो दृप्तः । को न प्रत्येतव्यो ब्रूते यश्चानृतं शश्वत् ॥४६॥
कुत्रानृतेऽप्यपापां यच्चोक्तं धर्मरक्षार्थं । को धर्मोऽभिमतो यः शिष्टानां निजकुलीनानां ॥४७॥
साधुबलं किं दैवं कः साधुः सर्वदा तुष्टः । दैवं किं यत्सुकृतं कः सुकृती श्लाघ्यते च यः सद्भिः ॥४८॥
गृहमेधिनश्च मित्रं किं भार्या को गृही च यो यजते । को यज्ञो यः श्रुत्या विहितः श्रेयस्करो नृणां ॥४९॥
कस्य क्रिया हि सफला यः पुनराचारवां शिष्टः । कः शिष्टो यो वेदप्रमाणवां को हतः क्रियाभ्रष्टः ॥५०॥
को धन्यः संन्यासी को मान्यः पण्डितः साधुः । कः सेव्यो यो दाता को दाता योऽर्थितृप्तिमातनुते ॥५१॥
किं भाग्यं देहवतामारोग्यं कः फली कृषिकृत् । कस्य न पापं जपतः कः पूर्णो यः प्रजावां स्यात् ॥५२॥
किं दुष्करं नराणां यन्मनसो निग्रहः सततं । को ब्रह्मचर्यवां स्यात्यश्चास्खलितोर्ध्वरेतस्कः ॥५३॥
का च परदेवतोक्ता चिच्छक्तिः को जगत्भर्ता । सूर्यः सर्वेषां को जीवनहेतुः स पर्जन्यः ॥५४॥
कः शुरो यो भीतत्राता त्राता च कः सद्गुरुः । को हि जगद्गुरुरुक्तः शंभुः ज्ञानं कुतः शिवादेव ॥५५॥
मुक्तिं लभेत कस्मान्मुकुन्दभक्तेः मुकुन्दः कः । यस्तारयेदविद्यां का चाविद्या यदात्मनोऽस्फूर्तिः ॥५६॥
कस्य न शोको यः स्याद्क्रोधः किं सुखं तुष्टिः । को राजा रञ्चनकृत्कश्च श्वा नीचसेवको यः स्यात् ॥५७॥
को मायी परमेशः क इन्द्रजालायते प्रपञ्चोऽयं । कः स्वप्ननिभो जाग्रद्व्यवहारः सत्यमपि च किं ब्रह्म ॥५८॥
किं मिथ्या यद्विद्यानाश्यं तुच्छं तु शशविषाणादि । का चानिर्वाच्या माया किं कल्पितं द्वैतं ॥५९॥
किं पारमार्थिकं स्यादद्वैतं चाज्ञता कुतोऽनादिः । वपुषश्च पोषकं किं प्रारब्धं चान्नदायि किं चायुः ॥६०॥
को ब्रह्मणैरुपास्यो गायत्र्यर्काग्निगोचरः शंभुः । गायत्र्यामादित्ये चाग्नौ शंभ च किं नु तत्तत्त्वं ॥६१॥
प्रात्यक्षदेवता का माता पूज्यो गुरुश्च कः तातः । कः सर्वदेवतात्मा विद्याकर्मान्वितो विप्रः ॥६२॥
कश्च कुलक्षयहेतुः सन्तापः सज्जनेषु योऽकारि । केषाममोघ वचनं ये च पुनः सत्यमौनशमशीलाः ॥६३॥
किं जन्म विषयसङ्गः किमुत्तरं जन्म पुत्रः स्यात् । कोऽपरिहार्यो मृत्युः कुत्र पदं विन्यसेच्च दृक्पूते ॥६४॥
पात्रं किमन्नदाने क्षुधितं कोऽर्च्यो हि भगवदवतारः । कश्च भगवान्महेशः शञ्करनारायणात्मैकः ॥६५॥
फलमपि भगवद्भक्तेः किं तल्लोकस्वरुपसाक्षात्त्वं । मोक्षश्च को ह्यविद्यास्तमयः कः सर्ववेदभूः अथ च ॐ ॥६६॥
इत्येषा कण्ठस्था प्रश्नोत्तररत्नमालिका येषां । ते मुक्ताभरणा इव विमलाश्चाभान्ति सत्समाजेषु ॥६७॥
॥इति श्रीमद् शङ्कराचार्यविरचिता प्रश्नोत्तररत्नमालिका समाप्ता ॥

N/A

References :
Encoded and roofread by Sorin Suciu aka SeSe at sorins at hotmail।com।

Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP