निर्गुणमानसपूजा

भारतीय संस्कृतिच्या विकासात आद्य शंकराचार्यांचे विशेष योगदान आहे.


शिष्य उवाच ।

अखण्डे सच्चिदानन्दे निर्विकल्पैकरूपिणि । स्थितेऽद्वितीयभावेऽपि कथं पूजा विधीयते ॥१॥
पूर्णस्यावाहनं कुत्र सर्वाधारस्य चासनम् । स्वच्छस्य पाद्यमर्घ्यं च शुद्धस्याचमनं कुतः ॥२॥
निर्मलस्य कुतः स्नानं वासो विश्वोदरस्य च । अगोत्रस्य त्ववर्णस्य कुतस्तस्योपवीतकम् ॥३॥
निर्लेपस्य कुतो गन्धः पुष्पं निर्वासनस्य च । निर्विशेषस्य का भूषा कोऽलङ्कारो निराकृतेः ॥४॥
निरञ्जनस्य किं धूपैर्दीपैर्वा सर्वसाक्षिणः । निजानन्दैकतृप्तस्य नैवेद्यं किं भवेदिह ॥५॥
विश्वानन्दयितुस्तस्य किं ताम्बूलं प्रकल्प्यते । स्वयंप्रकाशचिद्रूपो योऽसावर्कादिभासकः ॥६॥
गीयते श्रुतिभिस्तस्य नीराजनविधिः कुतः । प्रदक्षिणमनन्तस्य प्रणामोऽद्वयवस्तुनः ॥७॥
वेदवाचामवेद्यस्य किं वा स्तोत्रं विधीयते । अन्तर्बहिः संस्थितस्योद्वासनविधिः कुतः ॥८॥

गुरुरुवाच ।

आराधयामि मणिसंनिभमात्मलिङ्गम् मायापुरीहृदयपङ्कजसंनिविष्टम् । श्रद्धानदीविमलचित्तजलाभिषेकै- र्नित्यं समाधिकुसुमैर्नपुनर्भवाय ॥९॥
अयमेकोऽवशिष्टोऽस्मीत्येवमावाहयेच्छिवम् । आसनं कल्पयेत्पश्चात्स्वप्रतिष्ठात्मचिन्तनम् ॥१०॥
पुण्यपापरजःसङ्गो मम नास्तीति वेदनम् । पाद्यं समर्पयेद्विद्वन्सर्वकल्मषनाशनम् ॥११॥
अनादिकल्पविधृतमूलाज्ञानजलाञ्जलिम् । विसृजेदात्मलिङ्गस्य तदेवार्घ्यसमर्पणम् ॥१२॥
ब्रह्मानन्दाब्धिकल्लोलकणकोट्यंशलेशकम् । पिबन्तीन्द्रादय इति ध्यानमाचमनं मतम् ॥१३॥
ब्रह्मानन्दजलेनैव लोकाः सर्वे परिप्लुताः । अच्छेद्योऽयमिति ध्यानमभिषेचनमात्मनः ॥१४॥
निरावरणचैतन्यं प्रकाशोऽस्मीति चिन्तनम् । आत्मलिङ्गस्य सद्वस्त्रमित्येवं चिन्तयेन्मुनिः ॥१५॥
त्रिगुणात्माशेषलोकमालिकासूत्रमस्म्यहम् । इति निश्चयमेवात्र ह्युपवीतं परं मतम् ॥१६॥
अनेकवासनामिश्रप्रपञ्चोऽयं धृतो मया । नान्येनेत्यनुसन्धानमात्मनश्चन्दनं भवेत् ॥१७॥
रजःसत्त्वतमोवृत्तित्यागरूपैस्तिलाक्षतैः । आत्मलिङ्गं यजेन्नित्यं जीवन्मुक्तिप्रसिद्धये ॥१८॥
ईश्वरो गुरुरात्मेति भेदत्रयविवर्जितैः । बिल्वपत्रैरद्वितीयैरात्मलिङ्गं यजेच्छिवम् ॥१९॥
समस्तवासनात्यागं धूपं तस्य विचिन्तयेत् । ज्योतिर्मयात्मविज्ञानं दीपं सन्दर्शयेद्बुधः ॥२०॥
नैवेद्यमात्मलिङ्गस्य ब्रह्माण्डाख्यं महोदनम् । पिबानन्दरसं स्वादु मृत्युरस्योपसेचनम् ॥२१॥
अज्ञानोच्छिष्टकरस्य क्षालनं ज्ञानवारिणा । विशुद्धस्यात्मलिङ्गस्य हस्तप्रक्षालनं स्मरेत् ॥२२॥
रागादिगुणशून्यस्य शिवस्य परमात्मनः । सरागविषयाभ्यासत्यागस्ताम्बूलचर्वणम् ॥२३॥
अज्ञानध्वान्तविध्वंसप्रचण्डमतिभास्करम् । आत्मनो ब्रह्मताज्ञानं नीराजनमिहात्मनः ॥२४॥
विविधब्रह्मसंदृष्टिर्मालिकाभिरलङ्कृतम् । पूर्णानन्दात्मतादृष्टिं पुष्पाञ्जलिमनुस्मरेत् ॥२५॥
परिभ्रमन्ति ब्रह्माण्डसहस्राणि मयीश्वरे । कूटस्थाचलरूपोऽहमिति ध्यानं प्रदक्षिणम् ॥२६॥
विश्ववन्द्योऽहमेवास्मि नास्ति वन्द्यो मदन्यतः । इत्यालोचनमेवात्र स्वात्मलिङ्गस्य वन्दनम् ॥२७॥
आत्मनः सत्क्रिया प्रोक्ता कर्तव्याभावभावना । नामरूपव्यतीतात्मचिन्तनं नामकीर्तनम् ॥२८॥
श्रवणं तस्य देवस्य श्रोतव्याभावचिन्तनम् । मननं त्वात्मलिङ्गस्य मन्तव्याभावचिन्तनम् ॥२९॥
ध्यातव्याभावविज्ञानं निदिध्यासनमात्मनः । समस्तभ्रान्तिविक्षेपराहित्येनात्मनिष्ठता ॥३०॥
समाधिरात्मनो नाम नान्यच्चित्तस्य विभ्रमः । तत्रैव बह्मणि सदा चित्तविश्रान्तिरिष्यते ॥३१॥
एवं वेदान्तकल्पोक्तस्वात्मलिङ्गप्रपूजनम् । कुर्वन्नामरणं वापि क्षणं वा सुसमाहितः ॥३२॥
सर्वदुर्वासनाजालं पदपांसुमिव त्यजेत् ।
विधूयाज्ञानदुःखौघं मोक्षानन्दं समश्नुते ॥३३॥

॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविंदभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः विरचिता निर्गुणमानसपूजा समाप्ता ॥

N/A

References :
Encoded and roofread by Sunder Hattangadi sunderh at hotmail।com

Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP