उमाशतकम् - पञ्चमं दशकम्

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


उडुराजकलाकलापकान्ते सदये सुन्दरि कोमलाङ्गि मातः ।
श्रुतिपद्मदृशावतंसितं ते पदपद्मं प्रतिभातु मानसे मे ॥४१॥

अरुणाचलनाथसद्मनाथे चरितं ते चरणस्य धात्रि चित्रम् ।
क्रियतेऽब्जसनाभिनामुना यद्गतपङ्के मुनिमानसे निवासः ॥४२॥

चरितं चरणाम्बुजन्मनस्ते परमं विस्मयमातनोति मातः ।
अतिरागवदप्यदो विधते सहवासेन यदन्तरं विरागम् ॥४३॥

भवभामिनि कर्मशर्मदातुः भवदीयस्य पदस्य विस्मयाय ।
अपि धूलिविधूसरं विधत्ते यदिदं वीतरजो मनो मुनीनाम् ॥४४॥

चरणं जगदम्ब कैटभारिर्यतमानोऽपि ददर्श नैव यस्य ।
स हरस्तव दृश्यते विलग्नश्चरणे चण्डि चराचराधिनाथः ॥४५॥

कमलासनकञ्जलोचनादीनवमत्य त्रिदशान्नगेशकन्ये ।
अगुणे रमसे नगेऽत्र शोणे क्व गुणान् पश्यति जातिपक्षपातः ॥४६॥

कुसुमादपि कोमलं वपुस्ते हृदयेशस्त्वरुणो गिरिः कठोरः ।
प्रचलाखुतुरङ्गमस्य मातः समनुध्याय बिभेमि चेतसेदम् ॥४७॥

यदसौ विहितः सितोऽरुणाद्रिस्तव हासेन सितेन नात्र चित्रम् ।
इदमद्भुतमस्य मानसं यद्विमलं पार्वति नीयतेऽतिरागम् ॥४८॥

नवकुङ्कुमरेणुपङ्किलस्य स्मरणात्ते सततं स्तनाचलस्य ।
स्वयमप्यचलो बभूव शोणः शशिधारी जगतं सवित्रि शङ्के ॥४९॥

स्मरणादरुणाचलस्य मुक्त्तिः कथमश्लीलकपालभूषणस्य ।
वपुषोऽधर्ममुष्य चेन्नचेतस्तिमिरध्वंसिनि सर्वमङ्गले त्वम् ॥५०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP