उमाशतकम् - चतुर्थं दशकम्

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


कालाम्भोधरचारुसान्द्रकबरि पूर्णेन्दुबिम्बानना
ताटङ्कद्युतिधौतगन्डफलका ताम्बूलरक्ताधरा ।
प्रालेयद्युतिबालकेन रचितोत्तंसा हराङ्कासना
शान्ता नूतनपल्लवाभचरणा भूत्यै शिवा चिन्त्यते ॥३१॥

श्रीपादं तवशैलराजदुहितः भास्वत्करास्फालन -
प्रोद्भुद्धाम्बुजसुन्दरं श्रुतिवधूचूडातटीलालितम् ।
वन्दन्तां त्रिदिवौकसो वशमितः संवाहयत्वीश्वरो
योगी ध्यायतु वन्दिवद्भगवति प्रस्तौति सोऽयं जनः ॥३२॥

यस्याश्चामरधारिणी सरसिजप्रासादसञ्चारिणी
वाग्देवी हृदयेश्वरप्रभृतयो नाकौकसः किङ्कराः ।
देवः कैरवबन्धुकोरकधरो लीलासहायः सखा
तस्याः पादसरोजवन्दिपदवीं पाप्तोऽस्म्यहं भाग्यतः ॥३३॥

पादस्य क्रियते क्षणान्तकतिचन ध्यानं जगद्धात्रि ते
यत्तस्येभघटाकुलाङ्गनमहीश्रीर्नानुरुपं फलम् ।
नोद्गारो मधुमाधुरिमदमुषां स्वाभाविको वा गिरां
साधीयस्तु फलं यदीश्वरि पुनर्ध्यातुं मतिर्जायते ॥३४॥

देवि त्वच्चरणारविन्दयुगलध्यानस्य केचित्फलं
मन्यन्ते रथवाजिसामजवधूसौधादिरूपां श्रियम् ।
पीयूषद्रवसारवैभवमुषां वाचां परे पाटवं
प्राज्ञाः साधनमादितः परिणतौ पाहुः फलं तत्स्वयम् ॥३५॥

लोभः कुत्रचिदस्ति कुत्रचिदसौ रोषः परं भीषणः
कुत्राप्येष मनोभवोऽतिमलिने स्वान्ते निशान्ते मम ।
एतस्याप्यहहाद्रिराजतनुजे कोणे त्वदीयं पदं
खेटीमस्तकलालितं शुचितमं वाञ्छामि कर्तुं खलः ॥३६॥

कन्दर्पेण निवारितं प्रहसता लोभेन निर्भर्त्सितं
मात्सर्येण तिरस्कृतं मदमहानागेन चाऽभिद्रुतम् ।
दुर्भ्रान्त्या गलहस्ति तं बत पुनः क्रोधेन धूतं बला -
दप्येतत्पदमम्ब ते विशति मे चेतोऽस्य वर्ण्या कृपा ॥३७॥

उद्दीप्यन्नखरांशुजालजटिलस्त्वत्पादकण्ठीरवो
यावन्मीलितलोचनः शशिकलाचूडामणेर्वल्लभे ।
तावल्लोभकटिप्रखेलति मुदं पुष्णाति कामद्विपो
रोषद्वीपिपतिश्च गर्जतितरां मन्मानसे कानने ॥३८॥

चाञ्चल्यं हृदयस्य नश्यन्ति कथं युष्मत्प्रसादं विना
त्वं वा देवि कथं प्रसीदसि यदि स्थैर्यादपेतं मनः ।
अन्योन्याश्रयदोष एष सुमहानन्यं विधिं स्थापय -
त्यस्माकं वरदे तवोत करुणां निर्हेतुकां जन्तुषु ॥३९॥

भक्तिर्मे त्वयि भर्गपत्नि महती ध्यातुं च वाञ्छामि ते
पादाम्भोजयुगं तथापि चलतां चेतो न मे मुञ्चति ।
कामाः सन्ति सहस्त्रशो नगसुते पश्चाद्ब्रवीम्यग्रतः
चित्तस्य स्थिरतां प्रदेहि करुणा यद्यस्ति ते वस्तुतः ॥४०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP